Drona Parva, Adhyaya 16, Verse 1
ते सेने शिबिरं गत्वा न्यविशेतां विशां पते
यथाभागं यथान्यायं यथागुल्मं च सर्वशः
Containing 49 sacred Sanskrit shlokas with multi-author commentaries and translations.
ते सेने शिबिरं गत्वा न्यविशेतां विशां पते
यथाभागं यथान्यायं यथागुल्मं च सर्वशः
कृत्वावहारं सैन्यानां द्रोणः परमदुर्मनाः
दुर्योधनमभिप्रेक्ष्य सव्रीडमिदमब्रवीत्
उक्तमेतन्मया पूर्वं न तिष्ठति धनंजये
शक्यो ग्रहीतुं संग्रामे देवैरपि युधिष्ठिरः
इति तद्वः प्रयततां कृतं पार्थेन संयुगे
मातिशङ्कीर्वचो मह्यमजेयौ कृष्णपाण्डवौ
अपनीते तु योगेन केनचिच्छ्वेतवाहने
तत एष्यति ते राजन्वशमद्य युधिष्ठिरः
कश्चिदाह्वयतां संख्ये देशमन्यं प्रकर्षतु
तमजित्वा तु कौन्तेयो न निवर्तेत्कथंचन
एतस्मिन्नन्तरे शून्ये धर्मराजमहं नृप
ग्रहीष्यामि चमूं भित्त्वा धृष्टद्युम्नस्य पश्यतः
अर्जुनेन विहीनस्तु यदि नोत्सृजते रणम्
मामुपायान्तमालोक्य गृहीतमिति विद्धि तम्
एवं ते सहसा राजन्धर्मपुत्रं युधिष्ठिरम्
समानेष्यामि सगणं वशमद्य न संशयः
यदि तिष्ठति संग्रामे मुहूर्तमपि पाण्डवः
अथापयाति संग्रामाद्विजयात्तद्विशिष्यते
द्रोणस्य तु वचः श्रुत्वा त्रिगर्ताधिपतिस्ततः
भ्रातृभिः सहितो राजन्निदं वचनमब्रवीत्
वयं विनिकृता राजन्सदा गाण्डीवधन्वना
अनागःस्वपि चागस्कृदस्मासु भरतर्षभ
ते वयं स्मरमाणास्तान्विनिकारान्पृथग्विधान्
क्रोधाग्निना दह्यमाना न शेमहि सदा निशाः
स नो दिव्यास्त्रसंपन्नश्चक्षुर्विषयमागतः
कर्तारः स्म वयं सर्वं यच्चिकीर्षाम हृद्गतम्
भवतश्च प्रियं यत्स्यादस्माकं च यशस्करम्
वयमेनं हनिष्यामो निकृष्यायोधनाद्बहिः
अद्यास्त्वनर्जुना भूमिरत्रिगर्ताथ वा पुनः
सत्यं ते प्रतिजानीमो नैतन्मिथ्या भविष्यति
एवं सत्यरथश्चोक्त्वा सत्यधर्मा च भारत
सत्यवर्मा च सत्येषुः सत्यकर्मा तथैव च
सहिता भ्रातरः पञ्च रथानामयुतेन च
न्यवर्तन्त महाराज कृत्वा शपथमाहवे
मालवास्तुण्डिकेराश्च रथानामयुतैस्त्रिभिः
सुशर्मा च नरव्याघ्रस्त्रिगर्तः प्रस्थलाधिपः
माचेल्लकैर्ललित्थैश्च सहितो मद्रकैरपि
रथानामयुतेनैव सोऽशपद्भ्रातृभिः सह
नानाजनपदेभ्यश्च रथानामयुतं पुनः
समुत्थितं विशिष्टानां संशपार्थमुपागतम्
ततो ज्वलनमादाय हुत्वा सर्वे पृथक्पृथक्
जगृहुः कुशचीराणि चित्राणि कवचानि च
ते च बद्धतनुत्राणा घृताक्ताः कुशचीरिणः
मौर्वीमेखलिनो वीराः सहस्रशतदक्षिणाः
यज्वानः पुत्रिणो लोक्याः कृतकृत्यास्तनुत्यजः
योक्ष्यमाणास्तदात्मानं यशसा विजयेन च
ब्रह्मचर्यश्रुतिमुखैः क्रतुभिश्चाप्तदक्षिणैः
प्राप्य लोकान्सुयुद्धेन क्षिप्रमेव यियासवः
ब्राह्मणांस्तर्पयित्वा च निष्कान्दत्त्वा पृथक्पृथक्
गाश्च वासांसि च पुनः समाभाष्य परस्परम्
प्रज्वाल्य कृष्णवर्त्मानमुपागम्य रणे व्रतम्
तस्मिन्नग्नौ तदा चक्रुः प्रतिज्ञां दृढनिश्चयाः
शृण्वतां सर्वभूतानामुच्चैर्वाचः स्म मेनिरे
धृत्वा धनंजयवधे प्रतिज्ञां चापि चक्रिरे
ये वै लोकाश्चानृतानां ये चैव ब्रह्मघातिनाम्
पानपस्य च ये लोका गुरुदाररतस्य च
ब्रह्मस्वहारिणश्चैव राजपिण्डापहारिणः
शरणागतं च त्यजतो याचमानं तथा घ्नतः