Mahabharata

Drona Parva, Adhyaya 15

Containing 52 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Drona Parva, Adhyaya 15, Verse 1

तद्बलं सुमहद्दीर्णं त्वदीयं प्रेक्ष्य वीर्यवान्

दधारैको रणे पाण्डून्वृषसेनोऽस्त्रमायया

Mahabharata

Drona Parva, Adhyaya 15, Verse 2

शरा दश दिशो मुक्ता वृषसेनेन मारिष

विचेरुस्ते विनिर्भिद्य नरवाजिरथद्विपान्

Mahabharata

Drona Parva, Adhyaya 15, Verse 3

तस्य दीप्ता महाबाणा विनिश्चेरुः सहस्रशः

भानोरिव महाबाहो ग्रीष्मकाले मरीचयः

Mahabharata

Drona Parva, Adhyaya 15, Verse 4

तेनार्दिता महाराज रथिनः सादिनस्तथा

निपेतुरुर्व्यां सहसा वातनुन्ना इव द्रुमाः

Mahabharata

Drona Parva, Adhyaya 15, Verse 5

हयौघांश्च रथौघांश्च गजौघांश्च समन्ततः

अपातयद्रणे राजञ्शतशोऽथ सहस्रशः

Mahabharata

Drona Parva, Adhyaya 15, Verse 6

दृष्ट्वा तमेवं समरे विचरन्तमभीतवत्

सहिताः सर्वराजानः परिवव्रुः समन्ततः

Mahabharata

Drona Parva, Adhyaya 15, Verse 7

नाकुलिस्तु शतानीको वृषसेनं समभ्ययात्

विव्याध चैनं दशभिर्नाराचैर्मर्मभेदिभिः

Mahabharata

Drona Parva, Adhyaya 15, Verse 8

तस्य कर्णात्मजश्चापं छित्त्वा केतुमपातयत्

तं भ्रातरं परीप्सन्तो द्रौपदेयाः समभ्ययुः

Mahabharata

Drona Parva, Adhyaya 15, Verse 9

कर्णात्मजं शरव्रातैश्चक्रुश्चादृश्यमञ्जसा

तान्नदन्तोऽभ्यधावन्त द्रोणपुत्रमुखा रथाः

Mahabharata

Drona Parva, Adhyaya 15, Verse 10

छादयन्तो महाराज द्रौपदेयान्महारथान्

शरैर्नानाविधैस्तूर्णं पर्वताञ्जलदा इव

Mahabharata

Drona Parva, Adhyaya 15, Verse 11

तान्पाण्डवाः प्रत्यगृह्णंस्त्वरिताः पुत्रगृद्धिनः

पाञ्चालाः केकया मत्स्याः सृञ्जयाश्चोद्यतायुधाः

Mahabharata

Drona Parva, Adhyaya 15, Verse 12

तद्युद्धमभवद्घोरं तुमुलं लोमहर्षणम्

त्वदीयैः पाण्डुपुत्राणां देवानामिव दानवैः

Mahabharata

Drona Parva, Adhyaya 15, Verse 13

एवमुत्तमसंरम्भा युयुधुः कुरुपाण्डवाः

परस्परमुदीक्षन्तः परस्परकृतागसः

Mahabharata

Drona Parva, Adhyaya 15, Verse 14

तेषां ददृशिरे कोपाद्वपूंष्यमिततेजसाम्

युयुत्सूनामिवाकाशे पतत्रिवरभोगिनाम्

Mahabharata

Drona Parva, Adhyaya 15, Verse 15

भीमकर्णकृपद्रोणद्रौणिपार्षतसात्यकैः

बभासे स रणोद्देशः कालसूर्यैरिवोदितैः

Mahabharata

Drona Parva, Adhyaya 15, Verse 16

तदासीत्तुमुलं युद्धं निघ्नतामितरेतरम्

महाबलानां बलिभिर्दानवानां यथा सुरैः

Mahabharata

Drona Parva, Adhyaya 15, Verse 17

ततो युधिष्ठिरानीकमुद्धूतार्णवनिस्वनम्

त्वदीयमवधीत्सैन्यं संप्रद्रुतमहारथम्

Mahabharata

Drona Parva, Adhyaya 15, Verse 18

तत्प्रभग्नं बलं दृष्ट्वा शत्रुभिर्भृशमर्दितम्

अलं द्रुतेन वः शूरा इति द्रोणोऽभ्यभाषत

Mahabharata

Drona Parva, Adhyaya 15, Verse 19

ततः शोणहयः क्रुद्धश्चतुर्दन्त इव द्विपः

प्रविश्य पाण्डवानीकं युधिष्ठिरमुपाद्रवत्

Mahabharata

Drona Parva, Adhyaya 15, Verse 20

तमविध्यच्छितैर्बाणैः कङ्कपत्रैर्युधिष्ठिरः

तस्य द्रोणो धनुश्छित्त्वा तं द्रुतं समुपाद्रवत्

Mahabharata

Drona Parva, Adhyaya 15, Verse 21

चक्ररक्षः कुमारस्तु पाञ्चालानां यशस्करः

दधार द्रोणमायान्तं वेलेव सरितां पतिम्

Mahabharata

Drona Parva, Adhyaya 15, Verse 22

द्रोणं निवारितं दृष्ट्वा कुमारेण द्विजर्षभम्

सिंहनादरवो ह्यासीत्साधु साध्विति भाषताम्

Mahabharata

Drona Parva, Adhyaya 15, Verse 23

कुमारस्तु ततो द्रोणं सायकेन महाहवे

विव्याधोरसि संक्रुद्धः सिंहवच्चानदन्मुहुः

Mahabharata

Drona Parva, Adhyaya 15, Verse 24

संवार्य तु रणे द्रोणः कुमारं वै महाबलः

शरैरनेकसाहस्रैः कृतहस्तो जितक्लमः

Mahabharata

Drona Parva, Adhyaya 15, Verse 25

तं शूरमार्यव्रतिनमस्त्रार्थकृतनिश्रमम्

चक्ररक्षमपामृद्नात्कुमारं द्विजसत्तमः

Mahabharata

Drona Parva, Adhyaya 15, Verse 26

स मध्यं प्राप्य सेनायाः सर्वाः परिचरन्दिशः

तव सैन्यस्य गोप्तासीद्भारद्वाजो रथर्षभः

Mahabharata

Drona Parva, Adhyaya 15, Verse 27

शिखण्डिनं द्वादशभिर्विंशत्या चोत्तमौजसम्

नकुलं पञ्चभिर्विद्ध्वा सहदेवं च सप्तभिः

Mahabharata

Drona Parva, Adhyaya 15, Verse 28

युधिष्ठिरं द्वादशभिर्द्रौपदेयांस्त्रिभिस्त्रिभिः

सात्यकिं पञ्चभिर्विद्ध्वा मत्स्यं च दशभिः शरैः

Mahabharata

Drona Parva, Adhyaya 15, Verse 29

व्यक्षोभयद्रणे योधान्यथामुख्यानभिद्रवन्

अभ्यवर्तत संप्रेप्सुः कुन्तीपुत्रं युधिष्ठिरम्

Mahabharata

Drona Parva, Adhyaya 15, Verse 30

युगंधरस्ततो राजन्भारद्वाजं महारथम्

वारयामास संक्रुद्धं वातोद्धूतमिवार्णवम्