Drona Parva, Adhyaya 14, Verse 1
बहूनि सुविचित्राणि द्वंद्वयुद्धानि संजय
त्वयोक्तानि निशम्याहं स्पृहयामि सचक्षुषाम्
Containing 37 sacred Sanskrit shlokas with multi-author commentaries and translations.
बहूनि सुविचित्राणि द्वंद्वयुद्धानि संजय
त्वयोक्तानि निशम्याहं स्पृहयामि सचक्षुषाम्
आश्चर्यभूतं लोकेषु कथयिष्यन्ति मानवाः
कुरूणां पाण्डवानां च युद्धं देवासुरोपमम्
न हि मे तृप्तिरस्तीह शृण्वतो युद्धमुत्तमम्
तस्मादार्तायनेर्युद्धं सौभद्रस्य च शंस मे
सादितं प्रेक्ष्य यन्तारं शल्यः सर्वायषीं गदाम्
समुत्क्षिप्य नदन्क्रुद्धः प्रचस्कन्द रथोत्तमात्
तं दीप्तमिव कालाग्निं दण्डहस्तमिवान्तकम्
जवेनाभ्यपतद्भीमः प्रगृह्य महतीं गदाम्
सौभद्रोऽप्यशनिप्रख्यां प्रगृह्य महतीं गदाम्
एह्येहीत्यब्रवीच्छल्यं यत्नाद्भीमेन वारितः
वारयित्वा तु सौभद्रं भीमसेनः प्रतापवान्
शल्यमासाद्य समरे तस्थौ गिरिरिवाचलः
तथैव मद्रराजोऽपि भीमं दृष्ट्वा महाबलम्
ससाराभिमुखस्तूर्णं शार्दूल इव कुञ्जरम्
ततस्तूर्यनिनादाश्च शङ्खानां च सहस्रशः
सिंहनादाश्च संजज्ञुर्भेरीणां च महास्वनाः
पश्यतां शतशो ह्यासीदन्योन्यसमचेतसाम्
पाण्डवानां कुरूणां च साधु साध्विति निस्वनः
न हि मद्राधिपादन्यः सर्वराजसु भारत
सोढुमुत्सहते वेगं भीमसेनस्य संयुगे
तथा मद्राधिपस्यापि गदावेगं महात्मनः
सोढुमुत्सहते लोके कोऽन्यो युधि वृकोदरात्
पट्टैर्जाम्बूनदैर्बद्धा बभूव जनहर्षिणी
प्रजज्वाल तथाविद्धा भीमेन महती गदा
तथैव चरतो मार्गान्मण्डलानि च भागशः
महाविद्युत्प्रतीकाशा शल्यस्य शुशुभे गदा
तौ वृषाविव नर्दन्तौ मण्डलानि विचेरतुः
आवर्जितगदाशृङ्गावुभौ शल्यवृकोदरौ
मण्डलावर्तमार्गेषु गदाविहरणेषु च
निर्विशेषमभूद्युद्धं तयोः पुरुषसिंहयोः
ताडिता भीमसेनेन शल्यस्य महती गदा
साग्निज्वाला महारौद्रा गदाचूर्णमशीर्यत
तथैव भीमसेनस्य द्विषताभिहता गदा
वर्षाप्रदोषे खद्योतैर्वृतो वृक्ष इवाबभौ
गदा क्षिप्ता तु समरे मद्रराजेन भारत
व्योम संदीपयाना सा ससृजे पावकं बहु
तथैव भीमसेनेन द्विषते प्रेषिता गदा
तापयामास तत्सैन्यं महोल्का पतती यथा
ते चैवोभे गदे श्रेष्ठे समासाद्य परस्परम्
श्वसन्त्यौ नागकन्येव ससृजाते विभावसुम्
नखैरिव महाव्याघ्रौ दन्तैरिव महागजौ
तौ विचेरतुरासाद्य गदाभ्यां च परस्परम्
ततो गदाग्राभिहतौ क्षणेन रुधिरोक्षितौ
ददृशाते महात्मानौ पुष्पिताविव किंशुकौ
शुश्रुवे दिक्षु सर्वासु तयोः पुरुषसिंहयोः
गदाभिघातसंह्रादः शक्राशनिरवोपमः
गदया मद्रराजेन सव्यदक्षिणमाहतः
नाकम्पत तदा भीमो भिद्यमान इवाचलः
तथा भीमगदावेगैस्ताड्यमानो महाबलः
धैर्यान्मद्राधिपस्तस्थौ वज्रैर्गिरिरिवाहतः
आपेततुर्महावेगौ समुच्छ्रितमहागदौ
पुनरन्तरमार्गस्थौ मण्डलानि विचेरतुः
अथाप्लुत्य पदान्यष्टौ संनिपत्य गजाविव
सहसा लोहदण्डाभ्यामन्योन्यमभिजघ्नतुः
तौ परस्परवेगाच्च गदाभ्यां च भृशाहतौ
युगपत्पेततुर्वीरौ क्षिताविन्द्रध्वजाविव
ततो विह्वलमानं तं निःश्वसन्तं पुनः पुनः
शल्यमभ्यपतत्तूर्णं कृतवर्मा महारथः