Mahabharata

Drona Parva, Adhyaya 13

Containing 80 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Drona Parva, Adhyaya 13, Verse 1

ततः स पाण्डवानीके जनयंस्तुमुलं महत्

व्यचरत्पाण्डवान्द्रोणो दहन्कक्षमिवानलः

Mahabharata

Drona Parva, Adhyaya 13, Verse 2

निर्दहन्तमनीकानि साक्षादग्निमिवोत्थितम्

दृष्ट्वा रुक्मरथं युद्धे समकम्पन्त सृञ्जयाः

Mahabharata

Drona Parva, Adhyaya 13, Verse 3

प्रततं चास्यमानस्य धनुषोऽस्याशुकारिणः

ज्याघोषः श्रूयतेऽत्यर्थं विस्फूर्जितमिवाशनेः

Mahabharata

Drona Parva, Adhyaya 13, Verse 4

रथिनः सादिनश्चैव नागानश्वान्पदातिनः

रौद्रा हस्तवता मुक्ताः प्रमथ्नन्ति स्म सायकाः

Mahabharata

Drona Parva, Adhyaya 13, Verse 5

नानद्यमानः पर्जन्यः सानिलः शुचिसंक्षये

अश्मवर्षमिवावर्षत्परेषामावहद्भयम्

Mahabharata

Drona Parva, Adhyaya 13, Verse 6

व्यचरत्स तदा राजन्सेनां विक्षोभयन्प्रभुः

वर्धयामास संत्रासं शात्रवाणाममानुषम्

Mahabharata

Drona Parva, Adhyaya 13, Verse 7

तस्य विद्युदिवाभ्रेषु चापं हेमपरिष्कृतम्

भ्रमद्रथाम्बुदे तस्मिन्दृश्यते स्म पुनः पुनः

Mahabharata

Drona Parva, Adhyaya 13, Verse 8

स वीरः सत्यवान्प्राज्ञो धर्मनित्यः सुदारुणः

युगान्तकाले यन्तेव रौद्रां प्रास्कन्दयन्नदीम्

Mahabharata

Drona Parva, Adhyaya 13, Verse 9

अमर्षवेगप्रभवां क्रव्यादगणसंकुलाम्

बलौघैः सर्वतः पूर्णां वीरवृक्षापहारिणीम्

Mahabharata

Drona Parva, Adhyaya 13, Verse 10

शोणितोदां रथावर्तां हस्त्यश्वकृतरोधसम्

कवचोडुपसंयुक्तां मांसपङ्कसमाकुलाम्

Mahabharata

Drona Parva, Adhyaya 13, Verse 11

मेदोमज्जास्थिसिकतामुष्णीषवरफेनिलाम्

संग्रामजलदापूर्णां प्रासमत्स्यसमाकुलाम्

Mahabharata

Drona Parva, Adhyaya 13, Verse 12

नरनागाश्वसंभूतां शरवेगौघवाहिनीम्

शरीरदारुशृङ्गाटां भुजनागसमाकुलाम्

Mahabharata

Drona Parva, Adhyaya 13, Verse 13

उत्तमाङ्गोपलतलां निस्त्रिंशझषसेविताम्

रथनागह्रदोपेतां नानाभरणनीरजाम्

Mahabharata

Drona Parva, Adhyaya 13, Verse 14

महारथशतावर्तां भूमिरेणूर्मिमालिनीम्

महावीर्यवतां संख्ये सुतरां भीरुदुस्तराम्

Mahabharata

Drona Parva, Adhyaya 13, Verse 15

शूरव्यालसमाकीर्णां प्राणिवाणिजसेविताम्

छिन्नच्छत्रमहाहंसां मुकुटाण्डजसंकुलाम्

Mahabharata

Drona Parva, Adhyaya 13, Verse 16

चक्रकूर्मां गदानक्रां शरक्षुद्रझषाकुलाम्

बडगृध्रसृगालानां घोरसंघैर्निषेविताम्

Mahabharata

Drona Parva, Adhyaya 13, Verse 17

निहतान्प्राणिनः संख्ये द्रोणेन बलिना शरैः

वहन्तीं पितृलोकाय शतशो राजसत्तम

Mahabharata

Drona Parva, Adhyaya 13, Verse 18

शरीरशतसंबाधां केशशैवलशाद्वलाम्

नदीं प्रावर्तयद्राजन्भीरूणां भयवर्धिनीम्

Mahabharata

Drona Parva, Adhyaya 13, Verse 19

तं जयन्तमनीकानि तानि तान्येव भारत

सर्वतोऽभ्यद्रवन्द्रोणं युधिष्ठिरपुरोगमाः

Mahabharata

Drona Parva, Adhyaya 13, Verse 20

तानभिद्रवतः शूरांस्तावका दृढकार्मुकाः

सर्वतः प्रत्यगृह्णन्त तदभूल्लोमहर्षणम्

Mahabharata

Drona Parva, Adhyaya 13, Verse 21

शतमायस्तु शकुनिः सहदेवं समाद्रवत्

सनियन्तृध्वजरथं विव्याध निशितैः शरैः

Mahabharata

Drona Parva, Adhyaya 13, Verse 22

तस्य माद्रीसुतः केतुं धनुः सूतं हयानपि

नातिक्रुद्धः शरैश्छित्त्वा षष्ट्या विव्याध मातुलम्

Mahabharata

Drona Parva, Adhyaya 13, Verse 23

सौबलस्तु गदां गृह्य प्रचस्कन्द रथोत्तमात्

स तस्य गदया राजन्रथात्सूतमपातयत्

Mahabharata

Drona Parva, Adhyaya 13, Verse 24

ततस्तौ विरथौ राजन्गदाहस्तौ महाबलौ

चिक्रीडतू रणे शूरौ सशृङ्गाविव पर्वतौ

Mahabharata

Drona Parva, Adhyaya 13, Verse 25

द्रोणः पाञ्चालराजानं विद्ध्वा दशभिराशुगैः

बहुभिस्तेन चाभ्यस्तस्तं विव्याध शताधिकैः

Mahabharata

Drona Parva, Adhyaya 13, Verse 26

विविंशतिं भीमसेनो विंशत्या निशितैः शरैः

विद्ध्वा नाकम्पयद्वीरस्तदद्भुतमिवाभवत्

Mahabharata

Drona Parva, Adhyaya 13, Verse 27

विविंशतिस्तु सहसा व्यश्वकेतुशरासनम्

भीमं चक्रे महाराज ततः सैन्यान्यपूजयन्

Mahabharata

Drona Parva, Adhyaya 13, Verse 28

स तन्न ममृषे वीरः शत्रोर्विजयमाहवे

ततोऽस्य गदया दान्तान्हयान्सर्वानपातयत्

Mahabharata

Drona Parva, Adhyaya 13, Verse 29

शल्यस्तु नकुलं वीरः स्वस्रीयं प्रियमात्मनः

विव्याध प्रहसन्बाणैर्लाडयन्कोपयन्निव

Mahabharata

Drona Parva, Adhyaya 13, Verse 30

तस्याश्वानातपत्रं च ध्वजं सूतमथो धनुः

निपात्य नकुलः संख्ये शङ्खं दध्मौ प्रतापवान्