Drona Parva, Adhyaya 11, Verse 1
हन्त ते वर्णयिष्यामि सर्वं प्रत्यक्षदर्शिवान्
यथा स न्यपतद्द्रोणः सादितः पाण्डुसृञ्जयैः
Containing 31 sacred Sanskrit shlokas with multi-author commentaries and translations.
हन्त ते वर्णयिष्यामि सर्वं प्रत्यक्षदर्शिवान्
यथा स न्यपतद्द्रोणः सादितः पाण्डुसृञ्जयैः
सेनापतित्वं संप्राप्य भारद्वाजो महारथः
मध्ये सर्वस्य सैन्यस्य पुत्रं ते वाक्यमब्रवीत्
यत्कौरवाणामृषभादापगेयादनन्तरम्
सेनापत्येन मां राजन्नद्य सत्कृतवानसि
सदृशं कर्मणस्तस्य फलं प्राप्नुहि पार्थिव
करोमि कामं कं तेऽद्य प्रवृणीष्व यमिच्छसि
ततो दुर्योधनश्चिन्त्य कर्णदुःशासनादिभिः
तमथोवाच दुर्धर्षमाचार्यं जयतां वरम्
ददासि चेद्वरं मह्यं जीवग्राहं युधिष्ठिरम्
गृहीत्वा रथिनां श्रेष्ठं मत्समीपमिहानय
ततः कुरूणामाचार्यः श्रुत्वा पुत्रस्य ते वचः
सेनां प्रहर्षयन्सर्वामिदं वचनमब्रवीत्
धन्यः कुन्तीसुतो राजा यस्य ग्रहणमिच्छसि
न वधार्थं सुदुर्धर्ष वरमद्य प्रयाचसि
किमर्थं च नरव्याघ्र न वधं तस्य काङ्क्षसि
नाशंससि क्रियामेतां मत्तो दुर्योधन ध्रुवम्
आहोस्विद्धर्मपुत्रस्य द्वेष्टा तस्य न विद्यते
यदिच्छसि त्वं जीवन्तं कुलं रक्षसि चात्मनि
अथ वा भरतश्रेष्ठ निर्जित्य युधि पाण्डवान्
राज्यांशं प्रतिदत्त्वा च सौभ्रात्रं कर्तुमिच्छसि
धन्यः कुन्तीसुतो राजा सुजाता चास्य धीमतः
अजातशत्रुता सत्या तस्य यत्स्निह्यते भवान्
द्रोणेन त्वेवमुक्तस्य तव पुत्रस्य भारत
सहसा निःसृतो भावो योऽस्य नित्यं प्रवर्तते
नाकारो गूहितुं शक्यो बृहस्पतिसमैरपि
तस्मात्तव सुतो राजन्प्रहृष्टो वाक्यमब्रवीत्
वधे कुन्तीसुतस्याजौ नाचार्य विजयो मम
हते युधिष्ठिरे पार्थो हन्यात्सर्वान्हि नो ध्रुवम्
न च शक्यो रणे सर्वैर्निहन्तुममरैरपि
य एव चैषां शेषः स्यात्स एवास्मान्न शेषयेत्
सत्यप्रतिज्ञे त्वानीते पुनर्द्यूतेन निर्जिते
पुनर्यास्यन्त्यरण्याय कौन्तेयास्तमनुव्रताः
सोऽयं मम जयो व्यक्तं दीर्घकालं भविष्यति
अतो न वधमिच्छामि धर्मराजस्य कर्हिचित्
तस्य जिह्ममभिप्रायं ज्ञात्वा द्रोणोऽर्थतत्त्ववित्
तं वरं सान्तरं तस्मै ददौ संचिन्त्य बुद्धिमान्
न चेद्युधिष्ठिरं वीर पालयेदर्जुनो युधि
मन्यस्व पाण्डवं ज्येष्ठमानीतं वशमात्मनः
न हि पार्थो रणे शक्यः सेन्द्रैर्देवासुरैरपि
प्रत्युद्यातुमतस्तात नैतदामर्षयाम्यहम्
असंशयं स शिष्यो मे मत्पूर्वश्चास्त्रकर्मणि
तरुणः कीर्तियुक्तश्च एकायनगतश्च सः
अस्त्राणीन्द्राच्च रुद्राच्च भूयांसि समवाप्तवान्
अमर्षितश्च ते राजंस्तेन नामर्षयाम्यहम्
स चापक्रम्यतां युद्धाद्येनोपायेन शक्यते
अपनीते ततः पार्थे धर्मराजो जितस्त्वया
ग्रहणं चेज्जयं तस्य मन्यसे पुरुषर्षभ
एतेन चाभ्युपायेन ध्रुवं ग्रहणमेष्यति
अहं गृहीत्वा राजानं सत्यधर्मपरायणम्
आनयिष्यामि ते राजन्वशमद्य न संशयः
यदि स्थास्यति संग्रामे मुहूर्तमपि मेऽग्रतः
अपनीते नरव्याघ्रे कुन्तीपुत्रे धनंजये
फल्गुनस्य समक्षं तु न हि पार्थो युधिष्ठिरः
ग्रहीतुं समरे शक्यः सेन्द्रैरपि सुरासुरैः
सान्तरं तु प्रतिज्ञाते राज्ञो द्रोणेन निग्रहे
गृहीतं तममन्यन्त तव पुत्राः सुबालिशाः
पाण्डवेषु हि सापेक्षं द्रोणं जानाति ते सुतः
ततः प्रतिज्ञास्थैर्यार्थं स मन्त्रो बहुलीकृतः