Mahabharata

Drona Parva, Adhyaya 10

Containing 51 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Drona Parva, Adhyaya 10, Verse 1

शृणु दिव्यानि कर्माणि वासुदेवस्य संजय

कृतवान्यानि गोविन्दो यथा नान्यः पुमान्क्वचित्

Mahabharata

Drona Parva, Adhyaya 10, Verse 2

संवर्धता गोपकुले बालेनैव महात्मना

विख्यापितं बलं बाह्वोस्त्रिषु लोकेषु संजय

Mahabharata

Drona Parva, Adhyaya 10, Verse 3

उच्चैःश्रवस्तुल्यबलं वायुवेगसमं जवे

जघान हयराजं यो यमुनावनवासिनम्

Mahabharata

Drona Parva, Adhyaya 10, Verse 4

दानवं घोरकर्माणं गवां मृत्युमिवोत्थितम्

वृषरूपधरं बाल्ये भुजाभ्यां निजघान ह

Mahabharata

Drona Parva, Adhyaya 10, Verse 5

प्रलम्बं नरकं जम्भं पीठं चापि महासुरम्

मुरुं चाचलसंकाशमवधीत्पुष्करेक्षणः

Mahabharata

Drona Parva, Adhyaya 10, Verse 6

तथा कंसो महातेजा जरासंधेन पालितः

विक्रमेणैव कृष्णेन सगणः शातितो रणे

Mahabharata

Drona Parva, Adhyaya 10, Verse 7

सुनामा नाम विक्रान्तः समग्राक्षौहिणीपतिः

भोजराजस्य मध्यस्थो भ्राता कंसस्य वीर्यवान्

Mahabharata

Drona Parva, Adhyaya 10, Verse 8

बलदेवद्वितीयेन कृष्णेनामित्रघातिना

तरस्वी समरे दग्धः ससैन्यः शूरसेनराट्

Mahabharata

Drona Parva, Adhyaya 10, Verse 9

दुर्वासा नाम विप्रर्षिस्तथा परमकोपनः

आराधितः सदारेण स चास्मै प्रददौ वरान्

Mahabharata

Drona Parva, Adhyaya 10, Verse 10

तथा गान्धारराजस्य सुतां वीरः स्वयंवरे

निर्जित्य पृथिवीपालानवहत्पुष्करेक्षणः

Mahabharata

Drona Parva, Adhyaya 10, Verse 11

अमृष्यमाणा राजानो यस्य जात्या हया इव

रथे वैवाहिके युक्ताः प्रतोदेन कृतव्रणाः

Mahabharata

Drona Parva, Adhyaya 10, Verse 12

जरासंधं महाबाहुमुपायेन जनार्दनः

परेण घातयामास पृथगक्षौहिणीपतिम्

Mahabharata

Drona Parva, Adhyaya 10, Verse 13

चेदिराजं च विक्रान्तं राजसेनापतिं बली

अर्घे विवदमानं च जघान पशुवत्तदा

Mahabharata

Drona Parva, Adhyaya 10, Verse 14

सौभं दैत्यपुरं स्वस्थं शाल्वगुप्तं दुरासदम्

समुद्रकुक्षौ विक्रम्य पातयामास माधवः

Mahabharata

Drona Parva, Adhyaya 10, Verse 15

अङ्गान्वङ्गान्कलिङ्गांश्च मागधान्काशिकोसलान्

वत्सगर्गकरूषांश्च पुण्ड्रांश्चाप्यजयद्रणे

Mahabharata

Drona Parva, Adhyaya 10, Verse 16

आवन्त्यान्दाक्षिणात्यांश्च पार्वतीयान्दशेरकान्

काश्मीरकानौरसकान्पिशाचांश्च समन्दरान्

Mahabharata

Drona Parva, Adhyaya 10, Verse 17

काम्बोजान्वाटधानांश्च चोलान्पाण्ड्यांश्च संजय

त्रिगर्तान्मालवांश्चैव दरदांश्च सुदुर्जयान्

Mahabharata

Drona Parva, Adhyaya 10, Verse 18

नानादिग्भ्यश्च संप्राप्तान्व्रातानश्वशकान्प्रति

जितवान्पुण्डरीकाक्षो यवनांश्च सहानुगान्

Mahabharata

Drona Parva, Adhyaya 10, Verse 19

प्रविश्य मकरावासं यादोभिरभिसंवृतम्

जिगाय वरुणं युद्धे सलिलान्तर्गतं पुरा

Mahabharata

Drona Parva, Adhyaya 10, Verse 20

युधि पञ्चजनं हत्वा पातालतलवासिनम्

पाञ्चजन्यं हृषीकेशो दिव्यं शङ्खमवाप्तवान्

Mahabharata

Drona Parva, Adhyaya 10, Verse 21

खाण्डवे पार्थसहितस्तोषयित्वा हुताशनम्

आग्नेयमस्त्रं दुर्धर्षं चक्रं लेभे महाबलः

Mahabharata

Drona Parva, Adhyaya 10, Verse 22

वैनतेयं समारुह्य त्रासयित्वामरावतीम्

महेन्द्रभवनाद्वीरः पारिजातमुपानयत्

Mahabharata

Drona Parva, Adhyaya 10, Verse 23

तच्च मर्षितवाञ्शक्रो जानंस्तस्य पराक्रमम्

राज्ञां चाप्यजितं कंचित्कृष्णेनेह न शुश्रुम

Mahabharata

Drona Parva, Adhyaya 10, Verse 24

यच्च तन्महदाश्चर्यं सभायां मम संजय

कृतवान्पुण्डरीकाक्षः कस्तदन्य इहार्हति

Mahabharata

Drona Parva, Adhyaya 10, Verse 25

यच्च भक्त्या प्रपन्नोऽहमद्राक्षं कृष्णमीश्वरम्

तन्मे सुविदितं सर्वं प्रत्यक्षमिव चागमत्

Mahabharata

Drona Parva, Adhyaya 10, Verse 26

नान्तो विक्रमयुक्तस्य बुद्ध्या युक्तस्य वा पुनः

कर्मणः शक्यते गन्तुं हृषीकेशस्य संजय

Mahabharata

Drona Parva, Adhyaya 10, Verse 27

तथा गदश्च साम्बश्च प्रद्युम्नोऽथ विदूरथः

आगावहोऽनिरुद्धश्च चारुदेष्णश्च सारणः

Mahabharata

Drona Parva, Adhyaya 10, Verse 28

उल्मुको निशठश्चैव झल्ली बभ्रुश्च वीर्यवान्

पृथुश्च विपृथुश्चैव समीकोऽथारिमेजयः

Mahabharata

Drona Parva, Adhyaya 10, Verse 29

एते वै बलवन्तश्च वृष्णिवीराः प्रहारिणः

कथंचित्पाण्डवानीकं श्रयेयुः समरे स्थिताः

Mahabharata

Drona Parva, Adhyaya 10, Verse 30

आहूता वृष्णिवीरेण केशवेन महात्मना

ततः संशयितं सर्वं भवेदिति मतिर्मम