Mahabharata

Drona Parva, Adhyaya 8

Containing 39 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Drona Parva, Adhyaya 8, Verse 1

किं कुर्वाणं रणे द्रोणं जघ्नुः पाण्डवसृञ्जयाः

तथा निपुणमस्त्रेषु सर्वशस्त्रभृतामपि

Mahabharata

Drona Parva, Adhyaya 8, Verse 2

रथभङ्गो बभूवास्य धनुर्वाशीर्यतास्यतः

प्रमत्तो वाभवद्द्रोणस्ततो मृत्युमुपेयिवान्

Mahabharata

Drona Parva, Adhyaya 8, Verse 3

कथं नु पार्षतस्तात शत्रुभिर्दुष्प्रधर्षणम्

किरन्तमिषुसंघातान्रुक्मपुङ्खाननेकशः

Mahabharata

Drona Parva, Adhyaya 8, Verse 4

क्षिप्रहस्तं द्विजश्रेष्ठं कृतिनं चित्रयोधिनम्

दूरेषुपातिनं दान्तमस्त्रयुद्धे च पारगम्

Mahabharata

Drona Parva, Adhyaya 8, Verse 5

पाञ्चालपुत्रो न्यवधीद्दिष्ट्या स वरमच्युतम्

कुर्वाणं दारुणं कर्म रणे यत्तं महारथम्

Mahabharata

Drona Parva, Adhyaya 8, Verse 6

व्यक्तं दिष्टं हि बलवत्पौरुषादिति मे मतिः

यद्द्रोणो निहतः शूरः पार्षतेन महात्मना

Mahabharata

Drona Parva, Adhyaya 8, Verse 7

अस्त्रं चतुर्विधं वीरे यस्मिन्नासीत्प्रतिष्ठितम्

तमिष्वस्त्रवराचार्यं द्रोणं शंससि मे हतम्

Mahabharata

Drona Parva, Adhyaya 8, Verse 8

श्रुत्वा हतं रुक्मरथं वैयाघ्रपरिवारणम्

जातरूपपरिष्कारं नाद्य शोकमपानुदे

Mahabharata

Drona Parva, Adhyaya 8, Verse 9

न नूनं परदुःखेन कश्चिन्म्रियति संजय

यत्र द्रोणमहं श्रुत्वा हतं जीवामि न म्रिये

Mahabharata

Drona Parva, Adhyaya 8, Verse 10

अश्मसारमयं नूनं हृदयं सुदृढं मम

यच्छ्रुत्वा निहतं द्रोणं शतधा न विदीर्यते

Mahabharata

Drona Parva, Adhyaya 8, Verse 11

ब्राह्मे वेदे तथेष्वस्त्रे यमुपासन्गुणार्थिनः

ब्राह्मणा राजपुत्राश्च स कथं मृत्युना हतः

Mahabharata

Drona Parva, Adhyaya 8, Verse 12

शोषणं सागरस्येव मेरोरिव विसर्पणम्

पतनं भास्करस्येव न मृष्ये द्रोणपातनम्

Mahabharata

Drona Parva, Adhyaya 8, Verse 13

दृप्तानां प्रतिषेद्धासीद्धार्मिकानां च रक्षिता

योऽत्याक्षीत्कृपणस्यार्थे प्राणानपि परंतपः

Mahabharata

Drona Parva, Adhyaya 8, Verse 14

मन्दानां मम पुत्राणां जयाशा यस्य विक्रमे

बृहस्पत्युशनस्तुल्यो बुद्ध्या स निहतः कथम्

Mahabharata

Drona Parva, Adhyaya 8, Verse 15

ते च शोणा बृहन्तोऽश्वाः सैन्धवा हेममालिनः

रथे वातजवा युक्ताः सर्वशब्दातिगा रणे

Mahabharata

Drona Parva, Adhyaya 8, Verse 16

बलिनो घोषिणो दान्ताः सैन्धवाः साधुवाहिनः

दृढाः संग्राममध्येषु कच्चिदासन्न विह्वलाः

Mahabharata

Drona Parva, Adhyaya 8, Verse 17

करिणां बृंहतां युद्धे शङ्खदुन्दुभिनिस्वनम्

ज्याक्षेपशरवर्षाणां शस्त्राणां च सहिष्णवः

Mahabharata

Drona Parva, Adhyaya 8, Verse 18

आशंसन्तः पराञ्जेतुं जितश्वासा जितव्यथाः

हयाः प्रजविताः शीघ्रा भारद्वाजरथोद्वहाः

Mahabharata

Drona Parva, Adhyaya 8, Verse 19

ते स्म रुक्मरथे युक्ता नरवीरसमाहिताः

कथं नाभ्यतरंस्तात पाण्डवानामनीकिनीम्

Mahabharata

Drona Parva, Adhyaya 8, Verse 20

जातरूपपरिष्कारमास्थाय रथमुत्तमम्

भारद्वाजः किमकरोच्छूरः संक्रन्दनो युधि

Mahabharata

Drona Parva, Adhyaya 8, Verse 21

विद्यां यस्योपजीवन्ति सर्वलोकधनुर्भृतः

स सत्यसंधो बलवान्द्रोणः किमकरोद्युधि

Mahabharata

Drona Parva, Adhyaya 8, Verse 22

दिवि शक्रमिव श्रेष्ठं महामात्रं धनुर्भृताम्

के नु तं रौद्रकर्माणं युद्धे प्रत्युद्ययू रथाः

Mahabharata

Drona Parva, Adhyaya 8, Verse 23

ननु रुक्मरथं दृष्ट्वा प्रद्रवन्ति स्म पाण्डवाः

दिव्यमस्त्रं विकुर्वाणं सेनां क्षिण्वन्तमव्ययम्

Mahabharata

Drona Parva, Adhyaya 8, Verse 24

उताहो सर्वसैन्येन धर्मराजः सहानुजः

पाञ्चाल्यप्रग्रहो द्रोणं सर्वतः समवारयत्

Mahabharata

Drona Parva, Adhyaya 8, Verse 25

नूनमावारयत्पार्थो रथिनोऽन्यानजिह्मगैः

ततो द्रोणं समारोहत्पार्षतः पापकर्मकृत्

Mahabharata

Drona Parva, Adhyaya 8, Verse 26

न ह्यन्यं परिपश्यामि वधे कंचन शुष्मिणः

धृष्टद्युम्नादृते रौद्रात्पाल्यमानात्किरीटिना

Mahabharata

Drona Parva, Adhyaya 8, Verse 27

तैर्वृतः सर्वतः शूरैः पाञ्चाल्यापसदस्ततः

केकयैश्चेदिकारूषैर्मत्स्यैरन्यैश्च भूमिपैः

Mahabharata

Drona Parva, Adhyaya 8, Verse 28

व्याकुलीकृतमाचार्यं पिपीलैरुरगं यथा

कर्मण्यसुकरे सक्तं जघानेति मतिर्मम

Mahabharata

Drona Parva, Adhyaya 8, Verse 29

योऽधीत्य चतुरो वेदान्सर्वानाख्यानपञ्चमान्

ब्राह्मणानां प्रतिष्ठासीत्स्रोतसामिव सागरः

स कथं ब्राह्मणो वृद्धः शस्त्रेण वधमाप्तवान्

Mahabharata

Drona Parva, Adhyaya 8, Verse 30

अमर्षणो मर्षितवान्क्लिश्यमानः सदा मया

अनर्हमाणः कौन्तेयः कर्मणस्तस्य तत्फलम्