Mahabharata

Drona Parva, Adhyaya 5

Containing 40 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Drona Parva, Adhyaya 5, Verse 1

रथस्थं पुरुषव्याघ्रं दृष्ट्वा कर्णमवस्थितम्

हृष्टो दुर्योधनो राजन्निदं वचनमब्रवीत्

Mahabharata

Drona Parva, Adhyaya 5, Verse 2

सनाथमिदमत्यर्थं भवता पालितं बलम्

मन्ये किं तु समर्थं यद्धितं तत्संप्रधार्यताम्

Mahabharata

Drona Parva, Adhyaya 5, Verse 3

ब्रूहि तत्पुरुषव्याघ्र त्वं हि प्राज्ञतमो नृप

यथा चार्थपतिः कृत्यं पश्यते न तथेतरः

Mahabharata

Drona Parva, Adhyaya 5, Verse 4

ते स्म सर्वे तव वचः श्रोतुकामा नरेश्वर

नान्याय्यं हि भवान्वाक्यं ब्रूयादिति मतिर्मम

Mahabharata

Drona Parva, Adhyaya 5, Verse 5

भीष्मः सेनाप्रणेतासीद्वयसा विक्रमेण च

श्रुतेन च सुसंपन्नः सर्वैर्योधगुणैस्तथा

Mahabharata

Drona Parva, Adhyaya 5, Verse 6

तेनातियशसा कर्ण घ्नता शत्रुगणान्मम

सुयुद्धेन दशाहानि पालिताः स्मो महात्मना

Mahabharata

Drona Parva, Adhyaya 5, Verse 7

तस्मिन्नसुकरं कर्म कृतवत्यास्थिते दिवम्

कं नु सेनाप्रणेतारं मन्यसे तदनन्तरम्

Mahabharata

Drona Parva, Adhyaya 5, Verse 8

न ऋते नायकं सेना मुहूर्तमपि तिष्ठति

आहवेष्वाहवश्रेष्ठ नेतृहीनेव नौर्जले

Mahabharata

Drona Parva, Adhyaya 5, Verse 9

यथा ह्यकर्णधारा नौ रथश्चासारथिर्यथा

द्रवेद्यथेष्टं तद्वत्स्यादृते सेनापतिं बलम्

Mahabharata

Drona Parva, Adhyaya 5, Verse 10

स भवान्वीक्ष्य सर्वेषु मामकेषु महात्मसु

पश्य सेनापतिं युक्तमनु शांतनवादिह

Mahabharata

Drona Parva, Adhyaya 5, Verse 11

यं हि सेनाप्रणेतारं भवान्वक्ष्यति संयुगे

तं वयं सहिताः सर्वे प्रकरिष्याम मारिष

Mahabharata

Drona Parva, Adhyaya 5, Verse 12

सर्व एव महात्मान इमे पुरुषसत्तमाः

सेनापतित्वमर्हन्ति नात्र कार्या विचारणा

Mahabharata

Drona Parva, Adhyaya 5, Verse 13

कुलसंहननज्ञानैर्बलविक्रमबुद्धिभिः

युक्ताः कृतज्ञा ह्रीमन्त आहवेष्वनिवर्तिनः

Mahabharata

Drona Parva, Adhyaya 5, Verse 14

युगपन्न तु ते शक्याः कर्तुं सर्वे पुरःसराः

एक एवात्र कर्तव्यो यस्मिन्वैशेषिका गुणाः

Mahabharata

Drona Parva, Adhyaya 5, Verse 15

अन्योन्यस्पर्धिनां तेषां यद्येकं सत्करिष्यसि

शेषा विमनसो व्यक्तं न योत्स्यन्ते हि भारत

Mahabharata

Drona Parva, Adhyaya 5, Verse 16

अयं तु सर्वयोधानामाचार्यः स्थविरो गुरुः

युक्तः सेनापतिः कर्तुं द्रोणः शस्त्रभृतां वरः

Mahabharata

Drona Parva, Adhyaya 5, Verse 17

को हि तिष्ठति दुर्धर्षे द्रोणे ब्रह्मविदुत्तमे

सेनापतिः स्यादन्योऽस्माच्छुक्राङ्गिरसदर्शनात्

Mahabharata

Drona Parva, Adhyaya 5, Verse 18

न च स ह्यस्ति ते योधः सर्वराजसु भारत

यो द्रोणं समरे यान्तं नानुयास्यति संयुगे

Mahabharata

Drona Parva, Adhyaya 5, Verse 19

एष सेनाप्रणेतॄणामेष शस्त्रभृतामपि

एष बुद्धिमतां चैव श्रेष्ठो राजन्गुरुश्च ते

Mahabharata

Drona Parva, Adhyaya 5, Verse 20

एवं दुर्योधनाचार्यमाशु सेनापतिं कुरु

जिगीषन्तोऽसुरान्संख्ये कार्त्तिकेयमिवामराः

Mahabharata

Drona Parva, Adhyaya 5, Verse 21

कर्णस्य वचनं श्रुत्वा राजा दुर्योधनस्तदा

सेनामध्यगतं द्रोणमिदं वचनमब्रवीत्

Mahabharata

Drona Parva, Adhyaya 5, Verse 22

वर्णश्रैष्ठ्यात्कुलोत्पत्त्या श्रुतेन वयसा धिया

वीर्याद्दाक्ष्यादधृष्यत्वादर्थज्ञानान्नयाज्जयात्

Mahabharata

Drona Parva, Adhyaya 5, Verse 23

तपसा च कृतज्ञत्वाद्वृद्धः सर्वगुणैरपि

युक्तो भवत्समो गोप्ता राज्ञामन्यो न विद्यते

Mahabharata

Drona Parva, Adhyaya 5, Verse 24

स भवान्पातु नः सर्वान्विबुधानिव वासवः

भवन्नेत्राः पराञ्जेतुमिच्छामो द्विजसत्तम

Mahabharata

Drona Parva, Adhyaya 5, Verse 25

रुद्राणामिव कापाली वसूनामिव पावकः

कुबेर इव यक्षाणां मरुतामिव वासवः

Mahabharata

Drona Parva, Adhyaya 5, Verse 26

वसिष्ठ इव विप्राणां तेजसामिव भास्करः

पितॄणामिव धर्मोऽथ आदित्यानामिवाम्बुराट्

Mahabharata

Drona Parva, Adhyaya 5, Verse 27

नक्षत्राणामिव शशी दितिजानामिवोशनाः

श्रेष्ठः सेनाप्रणेतॄणां स नः सेनापतिर्भव

Mahabharata

Drona Parva, Adhyaya 5, Verse 28

अक्षौहिण्यो दशैका च वशगाः सन्तु तेऽनघ

ताभिः शत्रून्प्रतिव्यूह्य जहीन्द्रो दानवानिव

Mahabharata

Drona Parva, Adhyaya 5, Verse 29

प्रयातु नो भवानग्रे देवानामिव पावकिः

अनुयास्यामहे त्वाजौ सौरभेया इवर्षभम्

Mahabharata

Drona Parva, Adhyaya 5, Verse 30

उग्रधन्वा महेष्वासो दिव्यं विस्फारयन्धनुः

अग्रे भवन्तं दृष्ट्वा नो नार्जुनः प्रसहिष्यते