Drona Parva, Adhyaya 4, Verse 1
तस्य लालप्यतः श्रुत्वा वृद्धः कुरुपितामहः
देशकालोचितं वाक्यमब्रवीत्प्रीतमानसः
Containing 15 sacred Sanskrit shlokas with multi-author commentaries and translations.
तस्य लालप्यतः श्रुत्वा वृद्धः कुरुपितामहः
देशकालोचितं वाक्यमब्रवीत्प्रीतमानसः
समुद्र इव सिन्धूनां ज्योतिषामिव भास्करः
सत्यस्य च यथा सन्तो बीजानामिव चोर्वरा
पर्जन्य इव भूतानां प्रतिष्ठा सुहृदां भव
बान्धवास्त्वानुजीवन्तु सहस्राक्षमिवामराः
स्वबाहुबलवीर्येण धार्तराष्ट्रप्रियैषिणा
कर्ण राजपुरं गत्वा काम्बोजा निहतास्त्वया
गिरिव्रजगताश्चापि नग्नजित्प्रमुखा नृपाः
अम्बष्ठाश्च विदेहाश्च गान्धाराश्च जितास्त्वया
हिमवद्दुर्गनिलयाः किराता रणकर्कशाः
दुर्योधनस्य वशगाः कृताः कर्ण त्वया पुरा
तत्र तत्र च संग्रामे दुर्योधनहितैषिणा
बहवश्च जिता वीरास्त्वया कर्ण महौजसा
यथा दुर्योधनस्तात सज्ञातिकुलबान्धवः
तथा त्वमपि सर्वेषां कौरवाणां गतिर्भव
शिवेनाभिवदामि त्वां गच्छ युध्यस्व शत्रुभिः
अनुशाधि कुरून्संख्ये धत्स्व दुर्योधने जयम्
भवान्पौत्रसमोऽस्माकं यथा दुर्योधनस्तथा
तवापि धर्मतः सर्वे यथा तस्य वयं तथा
यौनात्संबन्धकाल्लोके विशिष्टं संगतं सताम्
सद्भिः सह नरश्रेष्ठ प्रवदन्ति मनीषिणः
स सत्यसंगरो भूत्वा ममेदमिति निश्चितम्
कुरूणां पालय बलं यथा दुर्योधनस्तथा
इति श्रुत्वा वचः सोऽथ चरणावभिवाद्य च
ययौ वैकर्तनः कर्णस्तूर्णमायोधनं प्रति
सोऽभिवीक्ष्य नरौघाणां स्थानमप्रतिमं महत्
व्यूढप्रहरणोरस्कं सैन्यं तत्समबृंहयत्
कर्णं दृष्ट्वा महेष्वासं युद्धाय समवस्थितम्
क्ष्वेडितास्फोटितरवैः सिंहनादरवैरपि
धनुःशब्दैश्च विविधैः कुरवः समपूजयन्