Mahabharata

Drona Parva, Adhyaya 3

Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Drona Parva, Adhyaya 3, Verse 1

शरतल्पे महात्मानं शयानममितौजसम्

महावातसमूहेन समुद्रमिव शोषितम्

Mahabharata

Drona Parva, Adhyaya 3, Verse 2

दिव्यैरस्त्रैर्महेष्वासं पातितं सव्यसाचिना

जयाशां तव पुत्राणां संभग्नां शर्म वर्म च

Mahabharata

Drona Parva, Adhyaya 3, Verse 3

अपाराणामिव द्वीपमगाधे गाधमिच्छताम्

स्रोतसा यामुनेनेव शरौघेण परिप्लुतम्

Mahabharata

Drona Parva, Adhyaya 3, Verse 4

महान्तमिव मैनाकमसह्यं भुवि पातितम्

नभश्च्युतमिवादित्यं पतितं धरणीतले

Mahabharata

Drona Parva, Adhyaya 3, Verse 5

शतक्रतोरिवाचिन्त्यं पुरा वृत्रेण निर्जयम्

मोहनं सर्वसैन्यस्य युधि भीष्मस्य पातनम्

Mahabharata

Drona Parva, Adhyaya 3, Verse 6

ककुदं सर्वसैन्यानां लक्ष्म सर्वधनुष्मताम्

धनंजयशरव्याप्तं पितरं ते महाव्रतम्

Mahabharata

Drona Parva, Adhyaya 3, Verse 7

तं वीरशयने वीरं शयानं पुरुषर्षभम्

भीष्ममाधिरथिर्दृष्ट्वा भरतानाममध्यमम्

Mahabharata

Drona Parva, Adhyaya 3, Verse 8

अवतीर्य रथादार्तो बाष्पव्याकुलिताक्षरम्

अभिवाद्याञ्जलिं बद्ध्वा वन्दमानोऽभ्यभाषत

Mahabharata

Drona Parva, Adhyaya 3, Verse 9

कर्णोऽहमस्मि भद्रं ते अद्य मा वद भारत

पुण्यया क्षेमया वाचा चक्षुषा चावलोकय

Mahabharata

Drona Parva, Adhyaya 3, Verse 10

न नूनं सुकृतस्येह फलं कश्चित्समश्नुते

यत्र धर्मपरो वृद्धः शेते भुवि भवानिह

Mahabharata

Drona Parva, Adhyaya 3, Verse 11

कोशसंजनने मन्त्रे व्यूहप्रहरणेषु च

नाथमन्यं न पश्यामि कुरूणां कुरुसत्तम

Mahabharata

Drona Parva, Adhyaya 3, Verse 12

बुद्ध्या विशुद्धया युक्तो यः कुरूंस्तारयेद्भयात्

योधांस्त्वमप्लवे हित्वा पितृलोकं गमिष्यसि

Mahabharata

Drona Parva, Adhyaya 3, Verse 13

अद्य प्रभृति संक्रुद्धा व्याघ्रा इव मृगक्षयम्

पाण्डवा भरतश्रेष्ठ करिष्यन्ति कुरुक्षयम्

Mahabharata

Drona Parva, Adhyaya 3, Verse 14

अद्य गाण्डीवघोषस्य वीर्यज्ञाः सव्यसाचिनः

कुरवः संत्रसिष्यन्ति वज्रपाणेरिवासुराः

Mahabharata

Drona Parva, Adhyaya 3, Verse 15

अद्य गाण्डीवमुक्तानामशनीनामिव स्वनः

त्रासयिष्यति संग्रामे कुरूनन्यांश्च पार्थिवान्

Mahabharata

Drona Parva, Adhyaya 3, Verse 16

समिद्धोऽग्निर्यथा वीर महाज्वालो द्रुमान्दहेत्

धार्तराष्ट्रान्प्रधक्ष्यन्ति तथा बाणाः किरीटिनः

Mahabharata

Drona Parva, Adhyaya 3, Verse 17

येन येन प्रसरतो वाय्वग्नी सहितौ वने

तेन तेन प्रदहतो भगवन्तौ यदिच्छतः

Mahabharata

Drona Parva, Adhyaya 3, Verse 18

यादृशोऽग्निः समिद्धो हि तादृक्पार्थो न संशयः

यथा वायुर्नरव्याघ्र तथा कृष्णो न संशयः

Mahabharata

Drona Parva, Adhyaya 3, Verse 19

नदतः पाञ्चजन्यस्य रसतो गाण्डिवस्य च

श्रुत्वा सर्वाणि सैन्यानि त्रासं यास्यन्ति भारत

Mahabharata

Drona Parva, Adhyaya 3, Verse 20

कपिध्वजस्य चोत्पाते रथस्यामित्रकर्शिनः

शब्दं सोढुं न शक्ष्यन्ति त्वामृते वीर पार्थिवाः

Mahabharata

Drona Parva, Adhyaya 3, Verse 21

को ह्यर्जुनं रणे योद्धुं त्वदन्यः पार्थिवोऽर्हति

यस्य दिव्यानि कर्माणि प्रवदन्ति मनीषिणः

Mahabharata

Drona Parva, Adhyaya 3, Verse 22

अमानुषश्च संग्रामस्त्र्यम्बकेन च धीमतः

तस्माच्चैव वरः प्राप्तो दुष्प्रापश्चाकृतात्मभिः

Mahabharata

Drona Parva, Adhyaya 3, Verse 23

तमद्याहं पाण्डवं युद्धशौण्ड;ममृष्यमाणो भवतानुशिष्टः

आशीविषं दृष्टिहरं सुघोर;मियां पुरस्कृत्य वधं जयं वा