Mahabharata

Drona Parva, Adhyaya 2

Containing 37 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Drona Parva, Adhyaya 2, Verse 1

हतं भीष्ममाधिरथिर्विदित्वा; भिन्नां नावमिवात्यगाधे कुरूणाम्

सोदर्यवद्व्यसनात्सूतपुत्रः; संतारयिष्यंस्तव पुत्रस्य सेनाम्

Mahabharata

Drona Parva, Adhyaya 2, Verse 2

श्रुत्वा तु कर्णः पुरुषेन्द्रमच्युतं; निपातितं शांतनवं महारथम्

अथोपायात्तूर्णममित्रकर्शनो; धनुर्धराणां प्रवरस्तदा वृषः

Mahabharata

Drona Parva, Adhyaya 2, Verse 3

हते तु भीष्मे रथसत्तमे परै;र्निमज्जतीं नावमिवार्णवे कुरून्

पितेव पुत्रांस्त्वरितोऽभ्ययात्ततः; संतारयिष्यंस्तव पुत्रस्य सेनाम्

Mahabharata

Drona Parva, Adhyaya 2, Verse 4

यस्मिन्धृतिर्बुद्धिपराक्रमौजो; दमः सत्यं वीरगुणाश्च सर्वे

अस्त्राणि दिव्यान्यथ संनतिर्ह्रीः; प्रिया च वागनपायीनि भीष्मे

Mahabharata

Drona Parva, Adhyaya 2, Verse 5

ब्रह्मद्विषघ्ने सततं कृतज्ञे; सनातनं चन्द्रमसीव लक्ष्म

स चेत्प्रशान्तः परवीरहन्ता; मन्ये हतानेव हि सर्वयोधान्

Mahabharata

Drona Parva, Adhyaya 2, Verse 6

नेह ध्रुवं किंचन जातु विद्यते; अस्मिँल्लोके कर्मणोऽनित्ययोगात्

सूर्योदये को हि विमुक्तसंशयो; भावं कुर्वीताद्य महाव्रते हते

Mahabharata

Drona Parva, Adhyaya 2, Verse 7

वसुप्रभावे वसुवीर्यसंभवे; गते वसूनेव वसुंधराधिपे

वसूनि पुत्रांश्च वसुंधरां तथा; कुरूंश्च शोचध्वमिमां च वाहिनीम्

Mahabharata

Drona Parva, Adhyaya 2, Verse 8

महाप्रभावे वरदे निपातिते; लोकश्रेष्ठे शांतनवे महौजसि

पराजितेषु भरतेषु दुर्मनाः; कर्णो भृशं न्यश्वसदश्रु वर्तयन्

Mahabharata

Drona Parva, Adhyaya 2, Verse 9

इदं तु राधेयवचो निशम्य ते; सुताश्च राजंस्तव सैनिकाश्च ह

परस्परं चुक्रुशुरार्तिजं भृशं; तदाश्रु नेत्रैर्मुमुचुर्हि शब्दवत्

Mahabharata

Drona Parva, Adhyaya 2, Verse 10

प्रवर्तमाने तु पुनर्महाहवे; विगाह्यमानासु चमूषु पार्थिवैः

अथाब्रवीद्धर्षकरं वचस्तदा; रथर्षभान्सर्वमहारथर्षभः

Mahabharata

Drona Parva, Adhyaya 2, Verse 11

जगत्यनित्ये सततं प्रधावति; प्रचिन्तयन्नस्थिरमद्य लक्षये

भवत्सु तिष्ठत्स्विह पातितो रणे; गिरिप्रकाशः कुरुपुंगवः कथम्

Mahabharata

Drona Parva, Adhyaya 2, Verse 12

निपातिते शांतनवे महारथे; दिवाकरे भूतलमास्थिते यथा

न पार्थिवाः सोढुमलं धनंजयं; गिरिप्रवोढारमिवानिलं द्रुमाः

Mahabharata

Drona Parva, Adhyaya 2, Verse 13

हतप्रधानं त्विदमार्तरूपं; परैर्हतोत्साहमनाथमद्य वै

मया कुरूणां परिपाल्यमाहवे; बलं यथा तेन महात्मना तथा

Mahabharata

Drona Parva, Adhyaya 2, Verse 14

समाहितं चात्मनि भारमीदृशं; जगत्तथानित्यमिदं च लक्षये

निपातितं चाहवशौण्डमाहवे; कथं नु कुर्यामहमाहवे भयम्

Mahabharata

Drona Parva, Adhyaya 2, Verse 15

अहं तु तान्कुरुवृषभानजिह्मगैः; प्रवेरयन्यमसदनं रणे चरन्

यशः परं जगति विभाव्य वर्तिता; परैर्हतो युधि शयिताथ वा पुनः

Mahabharata

Drona Parva, Adhyaya 2, Verse 16

युधिष्ठिरो धृतिमतिधर्मतत्त्ववा;न्वृकोदरो गजशततुल्यविक्रमः

तथार्जुनस्त्रिदशवरात्मजो यतो; न तद्बलं सुजयमथामरैरपि

Mahabharata

Drona Parva, Adhyaya 2, Verse 17

यमौ रणे यत्र यमोपमौ बले; ससात्यकिर्यत्र च देवकीसुतः

न तद्बलं कापुरुषोऽभ्युपेयिवा;न्निवर्तते मृत्युमुखादिवासकृत्

Mahabharata

Drona Parva, Adhyaya 2, Verse 18

तपोऽभ्युदीर्णं तपसैव गम्यते; बलं बलेनापि तथा मनस्विभिः

मनश्च मे शत्रुनिवारणे ध्रुवं; स्वरक्षणे चाचलवद्व्यवस्थितम्

Mahabharata

Drona Parva, Adhyaya 2, Verse 19

एवं चैषां बुध्यमानः प्रभावं; गत्वैवाहं ताञ्जयाम्यद्य सूत

मित्रद्रोहो मर्षणीयो न मेऽयं; भग्ने सैन्ये यः सहायः स मित्रम्

Mahabharata

Drona Parva, Adhyaya 2, Verse 20

कर्तास्म्येतत्सत्पुरुषार्यकर्म; त्यक्त्वा प्राणाननुयास्यामि भीष्मम्

सर्वान्संख्ये शत्रुसंघान्हनिष्ये; हतस्तैर्वा वीरलोकं गमिष्ये

Mahabharata

Drona Parva, Adhyaya 2, Verse 21

संप्राक्रुष्टे रुदितस्त्रीकुमारे; पराभूते पौरुषे धार्तराष्ट्रे

मया कृत्यमिति जानामि सूत; तस्माच्छत्रून्धार्तराष्ट्रस्य जेष्ये

Mahabharata

Drona Parva, Adhyaya 2, Verse 22

कुरून्रक्षन्पाण्डुपुत्राञ्जिघांसं;स्त्यक्त्वा प्राणान्घोररूपे रणेऽस्मिन्

सर्वान्संख्ये शत्रुसंघान्निहत्य; दास्याम्यहं धार्तराष्ट्राय राज्यम्

Mahabharata

Drona Parva, Adhyaya 2, Verse 23

निबध्यतां मे कवचं विचित्रं; हैमं शुभ्रं मणिरत्नावभासि

शिरस्त्राणं चार्कसमानभासं; धनुः शरांश्चापि विषाहिकल्पान्

Mahabharata

Drona Parva, Adhyaya 2, Verse 24

उपासङ्गान्षोडश योजयन्तु; धनूंषि दिव्यानि तथाहरन्तु

असींश्च शक्तीश्च गदाश्च गुर्वीः; शङ्खं च जाम्बूनदचित्रभासम्

Mahabharata

Drona Parva, Adhyaya 2, Verse 25

एतां रौक्मीं नागकक्ष्यां च जैत्रीं; जैत्रं च मे ध्वजमिन्दीवराभम्

श्लक्ष्णैर्वस्त्रैर्विप्रमृज्यानयस्व; चित्रां मालां चात्र बद्ध्वा सजालाम्

Mahabharata

Drona Parva, Adhyaya 2, Verse 26

अश्वानग्र्यान्पाण्डुराभ्रप्रकाशा;न्पुष्टान्स्नातान्मन्त्रपूताभिरद्भिः

तप्तैर्भाण्डैः काञ्चनैरभ्युपेता;ञ्शीघ्राञ्शीघ्रं सूतपुत्रानयस्व

Mahabharata

Drona Parva, Adhyaya 2, Verse 27

रथं चाग्र्यं हेमजालावनद्धं; रत्नैश्चित्रं चन्द्रसूर्यप्रकाशैः

द्रव्यैर्युक्तं संप्रहारोपपन्नै;र्वाहैर्युक्तं तूर्णमावर्तयस्व

Mahabharata

Drona Parva, Adhyaya 2, Verse 28

चित्राणि चापानि च वेगवन्ति; ज्याश्चोत्तमाः संहननोपपन्नाः

तूणांश्च पूर्णान्महतः शराणा;मासज्य गात्रावरणानि चैव

Mahabharata

Drona Parva, Adhyaya 2, Verse 29

प्रायात्रिकं चानयताशु सर्वं; कन्याः पूर्णं वीरकांस्यं च हैमम्

आनीय मालामवबध्य चाङ्गे; प्रवादयन्त्वाशु जयाय भेरीः

Mahabharata

Drona Parva, Adhyaya 2, Verse 30

प्रयाहि सूताशु यतः किरीटी; वृकोदरो धर्मसुतो यमौ च

तान्वा हनिष्यामि समेत्य संख्ये; भीष्माय वैष्यामि हतो द्विषद्भिः