Mahabharata

Drona Parva, Adhyaya 1

Containing 49 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Drona Parva, Adhyaya 1, Verse 1

तमप्रतिमसत्त्वौजोबलवीर्यपराक्रमम्

हतं देवव्रतं श्रुत्वा पाञ्चाल्येन शिखण्डिना

Mahabharata

Drona Parva, Adhyaya 1, Verse 2

धृतराष्ट्रस्तदा राजा शोकव्याकुलचेतनः

किमचेष्टत विप्रर्षे हते पितरि वीर्यवान्

Mahabharata

Drona Parva, Adhyaya 1, Verse 3

तस्य पुत्रो हि भगवन्भीष्मद्रोणमुखै रथैः

पराजित्य महेष्वासान्पाण्डवान्राज्यमिच्छति

Mahabharata

Drona Parva, Adhyaya 1, Verse 4

तस्मिन्हते तु भगवन्केतौ सर्वधनुष्मताम्

यदचेष्टत कौरव्यस्तन्मे ब्रूहि द्विजोत्तम

Mahabharata

Drona Parva, Adhyaya 1, Verse 5

निहतं पितरं श्रुत्वा धृतराष्ट्रो जनाधिपः

लेभे न शान्तिं कौरव्यश्चिन्ताशोकपरायणः

Mahabharata

Drona Parva, Adhyaya 1, Verse 6

तस्य चिन्तयतो दुःखमनिशं पार्थिवस्य तत्

आजगाम विशुद्धात्मा पुनर्गावल्गणिस्तदा

Mahabharata

Drona Parva, Adhyaya 1, Verse 7

शिबिरात्संजयं प्राप्तं निशि नागाह्वयं पुरम्

आम्बिकेयो महाराज धृतराष्ट्रोऽन्वपृच्छत

Mahabharata

Drona Parva, Adhyaya 1, Verse 8

श्रुत्वा भीष्मस्य निधनमप्रहृष्टमना भृशम्

पुत्राणां जयमाकाङ्क्षन्विललापातुरो यथा

Mahabharata

Drona Parva, Adhyaya 1, Verse 9

संसाध्य तु महात्मानं भीष्मं भीमपराक्रमम्

किमकार्षुः परं तात कुरवः कालचोदिताः

Mahabharata

Drona Parva, Adhyaya 1, Verse 10

तस्मिन्विनिहते शूरे दुराधर्षे महौजसि

किं नु स्वित्कुरवोऽकार्षुर्निमग्नाः शोकसागरे

Mahabharata

Drona Parva, Adhyaya 1, Verse 11

तदुदीर्णं महत्सैन्यं त्रैलोक्यस्यापि संजय

भयमुत्पादयेत्तीव्रं पाण्डवानां महात्मनाम्

Mahabharata

Drona Parva, Adhyaya 1, Verse 12

देवव्रते तु निहते कुरूणामृषभे तदा

यदकार्षुर्नृपतयस्तन्ममाचक्ष्व संजय

Mahabharata

Drona Parva, Adhyaya 1, Verse 13

शृणु राजन्नेकमना वचनं ब्रुवतो मम

यत्ते पुत्रास्तदाकार्षुर्हते देवव्रते मृधे

Mahabharata

Drona Parva, Adhyaya 1, Verse 14

निहते तु तदा भीष्मे राजन्सत्यपराक्रमे

तावकाः पाण्डवेयाश्च प्राध्यायन्त पृथक्पृथक्

Mahabharata

Drona Parva, Adhyaya 1, Verse 15

विस्मिताश्च प्रहृष्टाश्च क्षत्रधर्मं निशाम्य ते

स्वधर्मं निन्दमानाश्च प्रणिपत्य महात्मने

Mahabharata

Drona Parva, Adhyaya 1, Verse 16

शयनं कल्पयामासुर्भीष्मायामिततेजसे

सोपधानं नरव्याघ्र शरैः संनतपर्वभिः

Mahabharata

Drona Parva, Adhyaya 1, Verse 17

विधाय रक्षां भीष्माय समाभाष्य परस्परम्

अनुमान्य च गाङ्गेयं कृत्वा चापि प्रदक्षिणम्

Mahabharata

Drona Parva, Adhyaya 1, Verse 18

क्रोधसंरक्तनयनाः समवेक्ष्य परस्परम्

पुनर्युद्धाय निर्जग्मुः क्षत्रियाः कालचोदिताः

Mahabharata

Drona Parva, Adhyaya 1, Verse 19

ततस्तूर्यनिनादैश्च भेरीणां च महास्वनैः

तावकानामनीकानि परेषां चापि निर्ययुः

Mahabharata

Drona Parva, Adhyaya 1, Verse 20

व्यावृत्तेऽहनि राजेन्द्र पतिते जाह्नवीसुते

अमर्षवशमापन्नाः कालोपहतचेतसः

Mahabharata

Drona Parva, Adhyaya 1, Verse 21

अनादृत्य वचः पथ्यं गाङ्गेयस्य महात्मनः

निर्ययुर्भरतश्रेष्ठाः शस्त्राण्यादाय सर्वशः

Mahabharata

Drona Parva, Adhyaya 1, Verse 22

मोहात्तव सपुत्रस्य वधाच्छांतनवस्य च

कौरव्या मृत्युसाद्भूताः सहिताः सर्वराजभिः

Mahabharata

Drona Parva, Adhyaya 1, Verse 23

अजावय इवागोपा वने श्वापदसंकुले

भृशमुद्विग्नमनसो हीना देवव्रतेन ते

Mahabharata

Drona Parva, Adhyaya 1, Verse 24

पतिते भरतश्रेष्ठे बभूव कुरुवाहिनी

द्यौरिवापेतनक्षत्रा हीनं खमिव वायुना

Mahabharata

Drona Parva, Adhyaya 1, Verse 25

विपन्नसस्येव मही वाक्चैवासंस्कृता यथा

आसुरीव यथा सेना निगृहीते पुरा बलौ

Mahabharata

Drona Parva, Adhyaya 1, Verse 26

विधवेव वरारोहा शुष्कतोयेव निम्नगा

वृकैरिव वने रुद्धा पृषती हतयूथपा

Mahabharata

Drona Parva, Adhyaya 1, Verse 27

स्वाधर्षा हतसिंहेव महती गिरिकन्दरा

भारती भरतश्रेष्ठ पतिते जाह्नवीसुते

Mahabharata

Drona Parva, Adhyaya 1, Verse 28

विष्वग्वातहता रुग्णा नौरिवासीन्महार्णवे

बलिभिः पाण्डवैर्वीरैर्लब्धलक्षैर्भृशार्दिता

Mahabharata

Drona Parva, Adhyaya 1, Verse 29

सा तदासीद्भृशं सेना व्याकुलाश्वरथद्विपा

विषण्णभूयिष्ठनरा कृपणा द्रष्टुमाबभौ

Mahabharata

Drona Parva, Adhyaya 1, Verse 30

तस्यां त्रस्ता नृपतयः सैनिकाश्च पृथग्विधाः

पाताल इव मज्जन्तो हीना देवव्रतेन ते

कर्णं हि कुरवोऽस्मार्षुः स हि देवव्रतोपमः