Bhishma Parva, Adhyaya 117, Verse 1
ततस्ते पार्थिवाः सर्वे जग्मुः स्वानालयान्पुनः
तूष्णींभूते महाराज भीष्मे शंतनुनन्दने
Containing 34 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततस्ते पार्थिवाः सर्वे जग्मुः स्वानालयान्पुनः
तूष्णींभूते महाराज भीष्मे शंतनुनन्दने
श्रुत्वा तु निहतं भीष्मं राधेयः पुरुषर्षभः
ईषदागतसंत्रासः त्वरयोपजगाम ह
स ददर्श महात्मानं शरतल्पगतं तदा
जन्मशय्यागतं देवं कार्त्तिकेयमिव प्रभुम्
निमीलिताक्षं तं वीरं साश्रुकण्ठस्तदा वृषः
अभ्येत्य पादयोस्तस्य निपपात महाद्युतिः
राधेयोऽहं कुरुश्रेष्ठ नित्यं चाक्षिगतस्तव
द्वेष्योऽत्यन्तमनागाः सन्निति चैनमुवाच ह
तच्छ्रुत्वा कुरुवृद्धः स बलात्संवृत्तलोचनः
शनैरुद्वीक्ष्य सस्नेहमिदं वचनमब्रवीत्
रहितं धिष्ण्यमालोक्य समुत्सार्य च रक्षिणः
पितेव पुत्रं गाङ्गेयः परिष्वज्यैकबाहुना
एह्येहि मे विप्रतीप स्पर्धसे त्वं मया सह
यदि मां नाभिगच्छेथा न ते श्रेयो भवेद्ध्रुवम्
कौन्तेयस्त्वं न राधेयो विदितो नारदान्मम
कृष्णद्वैपायनाच्चैव केशवाच्च न संशयः
न च द्वेषोऽस्ति मे तात त्वयि सत्यं ब्रवीमि ते
तेजोवधनिमित्तं तु परुषाण्यहमुक्तवान्
अकस्मात्पाण्डवान्हि त्वं द्विषसीति मतिर्मम
येनासि बहुशो रूक्षं चोदितः सूर्यनन्दन
जानामि समरे वीर्यं शत्रुभिर्दुःसहं तव
ब्रह्मण्यतां च शौर्यं च दाने च परमां गतिम्
न त्वया सदृशः कश्चित्पुरुषेष्वमरोपम
कुलभेदं च मत्वाहं सदा परुषमुक्तवान्
इष्वस्त्रे भारसंधाने लाघवेऽस्त्रबले तथा
सदृशः फल्गुनेनासि कृष्णेन च महात्मना
कर्ण राजपुरं गत्वा त्वयैकेन धनुष्मता
तस्यार्थे कुरुराजस्य राजानो मृदिता युधि
तथा च बलवान्राजा जरासंधो दुरासदः
समरे समरश्लाघी त्वया न सदृशोऽभवत्
ब्रह्मण्यः सत्यवादी च तेजसार्क इवापरः
देवगर्भोऽजितः संख्ये मनुष्यैरधिको भुवि
व्यपनीतोऽद्य मन्युर्मे यस्त्वां प्रति पुरा कृतः
दैवं पुरुषकारेण न शक्यमतिवर्तितुम्
सोदर्याः पाण्डवा वीरा भ्रातरस्तेऽरिसूदन
संगच्छ तैर्महाबाहो मम चेदिच्छसि प्रियम्
मया भवतु निर्वृत्तं वैरमादित्यनन्दन
पृथिव्यां सर्वराजानो भवन्त्वद्य निरामयाः
जानाम्यहं महाप्राज्ञ सर्वमेतन्न संशयः
यथा वदसि दुर्धर्ष कौन्तेयोऽहं न सूतजः
अवकीर्णस्त्वहं कुन्त्या सूतेन च विवर्धितः
भुक्त्वा दुर्योधनैश्वर्यं न मिथ्या कर्तुमुत्सहे
वसु चैव शरीरं च यदुदारं तथा यशः
सर्वं दुर्योधनस्यार्थे त्यक्तं मे भूरिदक्षिण
कोपिताः पाण्डवा नित्यं मयाश्रित्य सुयोधनम्
अवश्यभावी वै योऽर्थो न स शक्यो निवर्तितुम्
दैवं पुरुषकारेण को निवर्तितुमुत्सहेत्
पृथिवीक्षयशंसीनि निमित्तानि पितामह
भवद्भिरुपलब्धानि कथितानि च संसदि
पाण्डवा वासुदेवश्च विदिता मम सर्वशः
अजेयाः पुरुषैरन्यैरिति तांश्चोत्सहामहे
अनुजानीष्व मां तात युद्धे प्रीतमनाः सदा
अनुज्ञातस्त्वया वीर युध्येयमिति मे मतिः
दुरुक्तं विप्रतीपं वा संरम्भाच्चापलात्तथा
यन्मयापकृतं किंचित्तदनुक्षन्तुमर्हसि
न चेच्छक्यमथोत्स्रष्टुं वैरमेतत्सुदारुणम्
अनुजानामि कर्ण त्वां युध्यस्व स्वर्गकाम्यया
विमन्युर्गतसंरम्भः कुरु कर्म नृपस्य हि
यथाशक्ति यथोत्साहं सतां वृत्तेषु वृत्तवान्