Bhishma Parva, Adhyaya 116, Verse 1
व्युष्टायां तु महाराज रजन्यां सर्वपार्थिवाः
पाण्डवा धार्तराष्ट्राश्च अभिजग्मुः पितामहम्
Containing 51 sacred Sanskrit shlokas with multi-author commentaries and translations.
व्युष्टायां तु महाराज रजन्यां सर्वपार्थिवाः
पाण्डवा धार्तराष्ट्राश्च अभिजग्मुः पितामहम्
तं वीरशयने वीरं शयानं कुरुसत्तमम्
अभिवाद्योपतस्थुर्वै क्षत्रियाः क्षत्रियर्षभम्
कन्याश्चन्दनचूर्णैश्च लाजैर्माल्यैश्च सर्वशः
स्त्रियो बालास्तथा वृद्धाः प्रेक्षकाश्च पृथग्जनाः
समभ्ययुः शांतनवं भूतानीव तमोनुदम्
तूर्याणि गणिका वारास्तथैव नटनर्तकाः
उपानृत्यञ्जगुश्चैव वृद्धं कुरुपितामहम्
उपारम्य च युद्धेभ्यः संनाहान्विप्रमुच्य च
आयुधानि च निक्षिप्य सहिताः कुरुपाण्डवाः
अन्वासत दुराधर्षं देवव्रतमरिंदमम्
अन्योन्यं प्रीतिमन्तस्ते यथापूर्वं यथावयः
सा पार्थिवशताकीर्णा समितिर्भीष्मशोभिता
शुशुभे भारती दीप्ता दिवीवादित्यमण्डलम्
विबभौ च नृपाणां सा पितामहमुपासताम्
देवानामिव देवेशं पितामहमुपासताम्
भीष्मस्तु वेदनां धैर्यान्निगृह्य भरतर्षभ
अभितप्तः शरैश्चैव नातिहृष्टमनाब्रवीत्
शराभितप्तकायोऽहं शरसंतापमूर्छितः
पानीयमभिकाङ्क्षेऽहं राज्ञस्तान्प्रत्यभाषत
ततस्ते क्षत्रिया राजन्समाजह्रुः समन्ततः
भक्ष्यानुच्चावचांस्तत्र वारिकुम्भांश्च शीतलान्
उपनीतं च तद्दृष्ट्वा भीष्मः शांतनवोऽब्रवीत्
नाद्य तात मया शक्यं भोगान्कांश्चन मानुषान्
उपभोक्तुं मनुष्येभ्यः शरशय्यागतो ह्यहम्
प्रतीक्षमाणस्तिष्ठामि निवृत्तिं शशिसूर्ययोः
एवमुक्त्वा शांतनवो दीनवाक्सर्वपार्थिवान्
धनंजयं महाबाहुमभ्यभाषत भारत
अथोपेत्य महाबाहुरभिवाद्य पितामहम्
अतिष्ठत्प्राञ्जलिः प्रह्वः किं करोमीति चाब्रवीत्
तं दृष्ट्वा पाण्डवं राजन्नभिवाद्याग्रतः स्थितम्
अभ्यभाषत धर्मात्मा भीष्मः प्रीतो धनंजयम्
दह्यतेऽदः शरीरं मे संस्यूतोऽस्मि महेषुभिः
मर्माणि परिदूयन्ते वदनं मम शुष्यति
ह्लादनार्थं शरीरस्य प्रयच्छापो ममार्जुन
त्वं हि शक्तो महेष्वास दातुमम्भो यथाविधि
अर्जुनस्तु तथेत्युक्त्वा रथमारुह्य वीर्यवान्
अधिज्यं बलवत्कृत्वा गाण्डीवं व्याक्षिपद्धनुः
तस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः
वित्रेसुः सर्वभूतानि श्रुत्वा सर्वे च पार्थिवाः
ततः प्रदक्षिणं कृत्वा रथेन रथिनां वरः
शयानं भरतश्रेष्ठं सर्वशस्त्रभृतां वरम्
संधाय च शरं दीप्तमभिमन्त्र्य महायशाः
पर्जन्यास्त्रेण संयोज्य सर्वलोकस्य पश्यतः
अविध्यत्पृथिवीं पार्थः पार्श्वे भीष्मस्य दक्षिणे
उत्पपात ततो धारा विमला वारिणः शिवा
शीतस्यामृतकल्पस्य दिव्यगन्धरसस्य च
अतर्पयत्ततः पार्थः शीतया वारिधारया
भीष्मं कुरूणामृषभं दिव्यकर्मपराक्रमः
कर्मणा तेन पार्थस्य शक्रष्येव विकुर्वतः
विस्मयं परमं जग्मुस्ततस्ते वसुधाधिपाः
तत्कर्म प्रेक्ष्य बीभत्सोरतिमानुषमद्भुतम्
संप्रावेपन्त कुरवो गावः शीतार्दिता इव
विस्मयाच्चोत्तरीयाणि व्याविध्यन्सर्वतो नृपाः
शङ्खदुन्दुभिनिर्घोषैस्तुमुलं सर्वतोऽभवत्
तृप्तः शांतनवश्चापि राजन्बीभत्सुमब्रवीत्
सर्वपार्थिववीराणां संनिधौ पूजयन्निव
नैतच्चित्रं महाबाहो त्वयि कौरवनन्दन
कथितो नारदेनासि पूर्वर्षिरमितद्युतिः
वासुदेवसहायस्त्वं महत्कर्म करिष्यसि
यन्नोत्सहति देवेन्द्रः सह देवैरपि ध्रुवम्