Mahabharata

Bhishma Parva, Adhyaya 115

Containing 65 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Bhishma Parva, Adhyaya 115, Verse 1

कथमासंस्तदा योधा हीना भीष्मेण संजय

बलिना देवकल्पेन गुर्वर्थे ब्रह्मचारिणा

Mahabharata

Bhishma Parva, Adhyaya 115, Verse 2

तदैव निहतान्मन्ये कुरूनन्यांश्च पार्थिवान्

न प्राहरद्यदा भीष्मो घृणित्वाद्द्रुपदात्मजे

Mahabharata

Bhishma Parva, Adhyaya 115, Verse 3

ततो दुःखतरं मन्ये किमन्यत्प्रभविष्यति

यदद्य पितरं श्रुत्वा निहतं मम दुर्मतेः

Mahabharata

Bhishma Parva, Adhyaya 115, Verse 4

अश्मसारमयं नूनं हृदयं मम संजय

श्रुत्वा विनिहतं भीष्मं शतधा यन्न दीर्यते

Mahabharata

Bhishma Parva, Adhyaya 115, Verse 5

पुनः पुनर्न मृष्यामि हतं देवव्रतं रणे

न हतो जामदग्न्येन दिव्यैरस्त्रैः स्म यः पुरा

Mahabharata

Bhishma Parva, Adhyaya 115, Verse 6

यदद्य निहतेनाजौ भीष्मेण जयमिच्छता

चेष्टितं नरसिंहेन तन्मे कथय संजय

Mahabharata

Bhishma Parva, Adhyaya 115, Verse 7

सायाह्ने न्यपतद्भूमौ धार्तराष्ट्रान्विषादयन्

पाञ्चालानां ददद्धर्षं कुरुवृद्धः पितामहः

Mahabharata

Bhishma Parva, Adhyaya 115, Verse 8

स शेते शरतल्पस्थो मेदिनीमस्पृशंस्तदा

भीष्मो रथात्प्रपतितः प्रच्युतो धरणीतले

Mahabharata

Bhishma Parva, Adhyaya 115, Verse 9

हा हेति तुमुलः शब्दो भूतानां समपद्यत

सीमावृक्षे निपतिते कुरूणां समितिक्षये

Mahabharata

Bhishma Parva, Adhyaya 115, Verse 10

उभयोः सेनयो राजन्क्षत्रियान्भयमाविशत्

भीष्मं शंतनवं दृष्ट्वा विशीर्णकवचध्वजम्

कुरवः पर्यवर्तन्त पाण्डवाश्च विशां पते

Mahabharata

Bhishma Parva, Adhyaya 115, Verse 11

खं तमोवृतमासीच्च नासीद्भानुमतः प्रभा

ररास पृथिवी चैव भीष्मे शांतनवे हते

Mahabharata

Bhishma Parva, Adhyaya 115, Verse 12

अयं ब्रह्मविदां श्रेष्ठो अयं ब्रह्मविदां गतिः

इत्यभाषन्त भूतानि शयानं भरतर्षभम्

Mahabharata

Bhishma Parva, Adhyaya 115, Verse 13

अयं पितरमाज्ञाय कामार्तं शंतनुं पुरा

ऊर्ध्वरेतसमात्मानं चकार पुरुषर्षभः

Mahabharata

Bhishma Parva, Adhyaya 115, Verse 14

इति स्म शरतल्पस्थं भरतानाममध्यमम्

ऋषयः पर्यधावन्त सहिताः सिद्धचारणैः

Mahabharata

Bhishma Parva, Adhyaya 115, Verse 15

हते शांतनवे भीष्मे भरतानां पितामहे

न किंचित्प्रत्यपद्यन्त पुत्रास्तव च भारत

Mahabharata

Bhishma Parva, Adhyaya 115, Verse 16

विवर्णवदनाश्चासन्गतश्रीकाश्च भारत

अतिष्ठन्व्रीडिताश्चैव ह्रिया युक्ता ह्यधोमुखाः

Mahabharata

Bhishma Parva, Adhyaya 115, Verse 17

पाण्डवाश्च जयं लब्ध्वा संग्रामशिरसि स्थिताः

सर्वे दध्मुर्महाशङ्खान्हेमजालपरिष्कृतान्

Mahabharata

Bhishma Parva, Adhyaya 115, Verse 18

भृशं तूर्यनिनादेषु वाद्यमानेषु चानघ

अपश्याम रणे राजन्भीमसेनं महाबलम्

आक्रीडमानं कौन्तेयं हर्षेण महता युतम्

Mahabharata

Bhishma Parva, Adhyaya 115, Verse 19

निहत्य समरे शत्रून्महाबलसमन्वितान्

संमोहश्चापि तुमुलः कुरूणामभवत्तदा

Mahabharata

Bhishma Parva, Adhyaya 115, Verse 20

कर्णदुर्योधनौ चापि निःश्वसेतां मुहुर्मुहुः

तथा निपतिते भीष्मे कौरवाणां धुरंधरे

हाहाकारमभूत्सर्वं निर्मर्यादमवर्तत

Mahabharata

Bhishma Parva, Adhyaya 115, Verse 21

दृष्ट्वा च पतितं भीष्मं पुत्रो दुःशासनस्तव

उत्तमं जवमास्थाय द्रोणानीकं समाद्रवत्

Mahabharata

Bhishma Parva, Adhyaya 115, Verse 22

भ्रात्रा प्रस्थापितो वीरः स्वेनानीकेन दंशितः

प्रययौ पुरुषव्याघ्रः स्वसैन्यमभिचोदयन्

Mahabharata

Bhishma Parva, Adhyaya 115, Verse 23

तमायान्तमभिप्रेक्ष्य कुरवः पर्यवारयन्

दुःशासनं महाराज किमयं वक्ष्यतीति वै

Mahabharata

Bhishma Parva, Adhyaya 115, Verse 24

ततो द्रोणाय निहतं भीष्ममाचष्ट कौरवः

द्रोणस्तदप्रियं श्रुत्वा सहसा न्यपतद्रथात्

Mahabharata

Bhishma Parva, Adhyaya 115, Verse 25

स संज्ञामुपलभ्याथ भारद्वाजः प्रतापवान्

निवारयामास तदा स्वान्यनीकानि मारिष

Mahabharata

Bhishma Parva, Adhyaya 115, Verse 26

विनिवृत्तान्कुरून्दृष्ट्वा पाण्डवापि स्वसैनिकान्

दूतैः शीघ्राश्वसंयुक्तैरवहारमकारयन्

Mahabharata

Bhishma Parva, Adhyaya 115, Verse 27

विनिवृत्तेषु सैन्येषु पारंपर्येण सर्वशः

विमुक्तकवचाः सर्वे भीष्ममीयुर्नराधिपाः

Mahabharata

Bhishma Parva, Adhyaya 115, Verse 28

व्युपारम्य ततो युद्धाद्योधाः शतसहस्रशः

उपतस्थुर्महात्मानं प्रजापतिमिवामराः

Mahabharata

Bhishma Parva, Adhyaya 115, Verse 29

ते तु भीष्मं समासाद्य शयानं भरतर्षभम्

अभिवाद्य व्यतिष्ठन्त पाण्डवाः कुरुभिः सह

Mahabharata

Bhishma Parva, Adhyaya 115, Verse 30

अथ पाण्डून्कुरूंश्चैव प्रणिपत्याग्रतः स्थितान्

अभ्यभाषत धर्मात्मा भीष्मः शांतनवस्तदा