Mahabharata

Bhishma Parva, Adhyaya 114

Containing 112 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Bhishma Parva, Adhyaya 114, Verse 1

एवं ते पाण्डवाः सर्वे पुरस्कृत्य शिखण्डिनम्

विव्यधुः समरे भीष्मं परिवार्य समन्ततः

Mahabharata

Bhishma Parva, Adhyaya 114, Verse 2

शतघ्नीभिः सुघोराभिः पट्टिशैः सपरश्वधैः

मुद्गरैर्मुसलैः प्रासैः क्षेपणीभिश्च सर्वशः

Mahabharata

Bhishma Parva, Adhyaya 114, Verse 3

शरैः कनकपुङ्खैश्च शक्तितोमरकम्पनैः

नाराचैर्वत्सदन्तैश्च भुशुण्डीभिश्च भारत

अताडयन्रणे भीष्मं सहिताः सर्वसृञ्जयाः

Mahabharata

Bhishma Parva, Adhyaya 114, Verse 4

स विशीर्णतनुत्राणः पीडितो बहुभिस्तदा

विव्यथे नैव गाङ्गेयो भिद्यमानेषु मर्मसु

Mahabharata

Bhishma Parva, Adhyaya 114, Verse 5

स दीप्तशरचापार्चिरस्त्रप्रसृतमारुतः

नेमिनिर्ह्रादसंनादो महास्त्रोदयपावकः

Mahabharata

Bhishma Parva, Adhyaya 114, Verse 6

चित्रचापमहाज्वालो वीरक्षयमहेन्धनः

युगान्ताग्निसमो भीष्मः परेषां समपद्यत

Mahabharata

Bhishma Parva, Adhyaya 114, Verse 7

निपत्य रथसंघानामन्तरेण विनिःसृतः

दृश्यते स्म नरेन्द्राणां पुनर्मध्यगतश्चरन्

Mahabharata

Bhishma Parva, Adhyaya 114, Verse 8

ततः पाञ्चालराजं च धृष्टकेतुमतीत्य च

पाण्डवानीकिनीमध्यमाससाद स वेगितः

Mahabharata

Bhishma Parva, Adhyaya 114, Verse 9

ततः सात्यकिभीमौ च पाण्डवं च धनंजयम्

द्रुपदं च विराटं च धृष्टद्युम्नं च पार्षतम्

Mahabharata

Bhishma Parva, Adhyaya 114, Verse 10

भीमघोषैर्महावेगैर्वैरिवारणभेदिभिः

षडेतान्षड्भिरानर्छद्भास्करप्रतिमैः शरैः

Mahabharata

Bhishma Parva, Adhyaya 114, Verse 11

तस्य ते निशितान्बाणान्संनिवार्य महारथाः

दशभिर्दशभिर्भीष्ममर्दयामासुरोजसा

Mahabharata

Bhishma Parva, Adhyaya 114, Verse 12

शिखण्डी तु रणे बाणान्यान्मुमोच महाव्रते

ते भीष्मं विविशुस्तूर्णं स्वर्णपुङ्खाः शिलाशिताः

Mahabharata

Bhishma Parva, Adhyaya 114, Verse 13

ततः किरीटी संरब्धो भीष्ममेवाभ्यवर्तत

शिखण्डिनं पुरस्कृत्य धनुश्चास्य समाच्छिनत्

Mahabharata

Bhishma Parva, Adhyaya 114, Verse 14

भीष्मस्य धनुषश्छेदं नामृष्यन्त महारथाः

द्रोणश्च कृतवर्मा च सैन्धवश्च जयद्रथः

Mahabharata

Bhishma Parva, Adhyaya 114, Verse 15

भूरिश्रवाः शलः शल्यो भगदत्तस्तथैव च

सप्तैते परमक्रुद्धाः किरीटिनमभिद्रुताः

Mahabharata

Bhishma Parva, Adhyaya 114, Verse 16

उत्तमास्त्राणि दिव्यानि दर्शयन्तो महारथाः

अभिपेतुर्भृशं क्रुद्धाश्छादयन्त स्म पाण्डवान्

Mahabharata

Bhishma Parva, Adhyaya 114, Verse 17

तेषामापततां शब्दः शुश्रुवे फल्गुनं प्रति

उद्वृत्तानां यथा शब्दः समुद्राणां युगक्षये

Mahabharata

Bhishma Parva, Adhyaya 114, Verse 18

हतानयत गृह्णीत युध्यतापि च कृन्तत

इत्यासीत्तुमुलः शब्दः फल्गुनस्य रथं प्रति

Mahabharata

Bhishma Parva, Adhyaya 114, Verse 19

तं शब्दं तुमुलं श्रुत्वा पाण्डवानां महारथाः

अभ्यधावन्परीप्सन्तः फल्गुनं भरतर्षभ

Mahabharata

Bhishma Parva, Adhyaya 114, Verse 20

सात्यकिर्भीमसेनश्च धृष्टद्युम्नश्च पार्षतः

विराटद्रुपदौ चोभौ राक्षसश्च घटोत्कचः

Mahabharata

Bhishma Parva, Adhyaya 114, Verse 21

अभिमन्युश्च संक्रुद्धः सप्तैते क्रोधमूर्छिताः

समभ्यधावंस्त्वरिताश्चित्रकार्मुकधारिणः

Mahabharata

Bhishma Parva, Adhyaya 114, Verse 22

तेषां समभवद्युद्धं तुमुलं लोमहर्षणम्

संग्रामे भरतश्रेष्ठ देवानां दानवैरिव

Mahabharata

Bhishma Parva, Adhyaya 114, Verse 23

शिखण्डी तु रथश्रेष्ठो रक्ष्यमाणः किरीटिना

अविध्यद्दशभिर्भीष्मं छिन्नधन्वानमाहवे

सारथिं दशभिश्चास्य ध्वजं चैकेन चिच्छिदे

Mahabharata

Bhishma Parva, Adhyaya 114, Verse 24

सोऽन्यत्कार्मुकमादाय गाङ्गेयो वेगवत्तरम्

तदप्यस्य शितैर्भल्लैस्त्रिभिश्चिच्छेद फल्गुनः

Mahabharata

Bhishma Parva, Adhyaya 114, Verse 25

एवं स पाण्डवः क्रुद्ध आत्तमात्तं पुनः पुनः

धनुर्भीष्मस्य चिच्छेद सव्यसाची परंतपः

Mahabharata

Bhishma Parva, Adhyaya 114, Verse 26

स च्छिन्नधन्वा संक्रुद्धः सृक्किणी परिसंलिहन्

शक्तिं जग्राह संक्रुद्धो गिरीणामपि दारणीम्

तां च चिक्षेप संक्रुद्धः फल्गुनस्य रथं प्रति

Mahabharata

Bhishma Parva, Adhyaya 114, Verse 27

तामापतन्तीं संप्रेक्ष्य ज्वलन्तीमशनीमिव

समादत्त शितान्भल्लान्पञ्च पाण्डवनन्दनः

Mahabharata

Bhishma Parva, Adhyaya 114, Verse 28

तस्य चिच्छेद तां शक्तिं पञ्चधा पञ्चभिः शरैः

संक्रुद्धो भरतश्रेष्ठ भीष्मबाहुबलेरिताम्

Mahabharata

Bhishma Parva, Adhyaya 114, Verse 29

सा पपात परिच्छिन्ना संक्रुद्धेन किरीटिना

मेघवृन्दपरिभ्रष्टा विच्छिन्नेव शतह्रदा

Mahabharata

Bhishma Parva, Adhyaya 114, Verse 30

छिन्नां तां शक्तिमालोक्य भीष्मः क्रोधसमन्वितः

अचिन्तयद्रणे वीरो बुद्ध्या परपुरंजयः