Mahabharata

Bhishma Parva, Adhyaya 112

Containing 138 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Bhishma Parva, Adhyaya 112, Verse 1

अभिमन्युर्महाराज तव पुत्रमयोधयत्

महत्या सेनया युक्तो भीष्महेतोः पराक्रमी

Mahabharata

Bhishma Parva, Adhyaya 112, Verse 2

दुर्योधनो रणे कार्ष्णिं नवभिर्नतपर्वभिः

आजघान रणे क्रुद्धः पुनश्चैनं त्रिभिः शरैः

Mahabharata

Bhishma Parva, Adhyaya 112, Verse 3

तस्य शक्तिं रणे कार्ष्णिर्मृत्योर्घोरामिव स्वसाम्

प्रेषयामास संक्रुद्धो दुर्योधनरथं प्रति

Mahabharata

Bhishma Parva, Adhyaya 112, Verse 4

तामापतन्तीं सहसा घोररूपां विशां पते

द्विधा चिच्छेद ते पुत्रः क्षुरप्रेण महारथः

Mahabharata

Bhishma Parva, Adhyaya 112, Verse 5

तां शक्तिं पतितां दृष्ट्वा कार्ष्णिः परमकोपनः

दुर्योधनं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत्

Mahabharata

Bhishma Parva, Adhyaya 112, Verse 6

पुनश्चैनं शरैर्घोरैराजघान स्तनान्तरे

दशभिर्भरतश्रेष्ठ दुर्योधनममर्षणम्

Mahabharata

Bhishma Parva, Adhyaya 112, Verse 7

तद्युद्धमभवद्घोरं चित्ररूपं च भारत

ईक्षितृप्रीतिजननं सर्वपार्थिवपूजितम्

Mahabharata

Bhishma Parva, Adhyaya 112, Verse 8

भीष्मस्य निधनार्थाय पार्थस्य विजयाय च

युयुधाते रणे वीरौ सौभद्रकुरुपुंगवौ

Mahabharata

Bhishma Parva, Adhyaya 112, Verse 9

सात्यकिं रभसं युद्धे द्रौणिर्ब्राह्मणपुंगवः

आजघानोरसि क्रुद्धो नाराचेन परंतपः

Mahabharata

Bhishma Parva, Adhyaya 112, Verse 10

शैनेयोऽपि गुरोः पुत्रं सर्वमर्मसु भारत

अताडयदमेयात्मा नवभिः कङ्कपत्रिभिः

Mahabharata

Bhishma Parva, Adhyaya 112, Verse 11

अश्वत्थामा तु समरे सात्यकिं नवभिः शरैः

त्रिंशता च पुनस्तूर्णं बाह्वोरुरसि चार्पयत्

Mahabharata

Bhishma Parva, Adhyaya 112, Verse 12

सोऽतिविद्धो महेष्वासो द्रोणपुत्रेण सात्वतः

द्रोणपुत्रं त्रिभिर्बाणैराजघान महायशाः

Mahabharata

Bhishma Parva, Adhyaya 112, Verse 13

पौरवो धृष्टकेतुं च शरैरासाद्य संयुगे

बहुधा दारयां चक्रे महेष्वासं महारथम्

Mahabharata

Bhishma Parva, Adhyaya 112, Verse 14

तथैव पौरवं युद्धे धृष्टकेतुर्महारथः

त्रिंशता निशितैर्बाणैर्विव्याध सुमहाबलः

Mahabharata

Bhishma Parva, Adhyaya 112, Verse 15

पौरवस्तु धनुश्छित्त्वा धृष्टकेतोर्महारथः

ननाद बलवन्नादं विव्याध दशभिः शरैः

Mahabharata

Bhishma Parva, Adhyaya 112, Verse 16

सोऽन्यत्कार्मुकमादाय पौरवं निशितैः शरैः

आजघान महाराज त्रिसप्तत्या शिलीमुखैः

Mahabharata

Bhishma Parva, Adhyaya 112, Verse 17

तौ तु तत्र महेष्वासौ महामात्रौ महारथौ

महता शरवर्षेण परस्परमवर्षताम्

Mahabharata

Bhishma Parva, Adhyaya 112, Verse 18

अन्योन्यस्य धनुश्छित्त्वा हयान्हत्वा च भारत

विरथावसियुद्धाय संगतौ तौ महारथौ

Mahabharata

Bhishma Parva, Adhyaya 112, Verse 19

आर्षभे चर्मणी चित्रे शतचन्द्रपरिष्कृते

तारकाशतचित्रौ च निस्त्रिंशौ सुमहाप्रभौ

Mahabharata

Bhishma Parva, Adhyaya 112, Verse 20

प्रगृह्य विमलौ राजंस्तावन्योन्यमभिद्रुतौ

वाशितासंगमे यत्तौ सिंहाविव महावने

Mahabharata

Bhishma Parva, Adhyaya 112, Verse 21

मण्डलानि विचित्राणि गतप्रत्यागतानि च

चेरतुर्दर्शयन्तौ च प्रार्थयन्तौ परस्परम्

Mahabharata

Bhishma Parva, Adhyaya 112, Verse 22

पौरवो धृष्टकेतुं तु शङ्खदेशे महासिना

ताडयामास संक्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत्

Mahabharata

Bhishma Parva, Adhyaya 112, Verse 23

चेदिराजोऽपि समरे पौरवं पुरुषर्षभम्

आजघान शिताग्रेण जत्रुदेशे महासिना

Mahabharata

Bhishma Parva, Adhyaya 112, Verse 24

तावन्योन्यं महाराज समासाद्य महाहवे

अन्योन्यवेगाभिहतौ निपेततुररिंदमौ

Mahabharata

Bhishma Parva, Adhyaya 112, Verse 25

ततः स्वरथमारोप्य पौरवं तनयस्तव

जयत्सेनो रथे राजन्नपोवाह रणाजिरात्

Mahabharata

Bhishma Parva, Adhyaya 112, Verse 26

धृष्टकेतुं च समरे माद्रीपुत्रः परंतपः

अपोवाह रणे राजन्सहदेवः प्रतापवान्

Mahabharata

Bhishma Parva, Adhyaya 112, Verse 27

चित्रसेनः सुशर्माणं विद्ध्वा नवभिराशुगैः

पुनर्विव्याध तं षष्ट्या पुनश्च नवभिः शरैः

Mahabharata

Bhishma Parva, Adhyaya 112, Verse 28

सुशर्मा तु रणे क्रुद्धस्तव पुत्रं विशां पते

दशभिर्दशभिश्चैव विव्याध निशितैः शरैः

Mahabharata

Bhishma Parva, Adhyaya 112, Verse 29

चित्रसेनश्च तं राजंस्त्रिंशता नतपर्वणाम्

आजघान रणे क्रुद्धः स च तं प्रत्यविध्यत

भीष्मस्य समरे राजन्यशो मानं च वर्धयन्

Mahabharata

Bhishma Parva, Adhyaya 112, Verse 30

सौभद्रो राजपुत्रं तु बृहद्बलमयोधयत्

आर्जुनिं कोसलेन्द्रस्तु विद्ध्वा पञ्चभिरायसैः

पुनर्विव्याध विंशत्या शरैः संनतपर्वभिः