Bhishma Parva, Adhyaya 111, Verse 1
कथं शांतनवो भीष्मो दशमेऽहनि संजय
अयुध्यत महावीर्यैः पाण्डवैः सहसृञ्जयैः
Containing 43 sacred Sanskrit shlokas with multi-author commentaries and translations.
कथं शांतनवो भीष्मो दशमेऽहनि संजय
अयुध्यत महावीर्यैः पाण्डवैः सहसृञ्जयैः
कुरवश्च कथं युद्धे पाण्डवान्प्रत्यवारयन्
आचक्ष्व मे महायुद्धं भीष्मस्याहवशोभिनः
कुरवः पाण्डवैः सार्धं यथायुध्यन्त भारत
यथा च तदभूद्युद्धं तत्ते वक्ष्यामि शृण्वतः
प्रेषिताः परलोकाय परमास्त्रैः किरीटिना
अहन्यहनि संप्राप्तास्तावकानां रथव्रजाः
यथाप्रतिज्ञं कौरव्यः स चापि समितिंजयः
पार्थानामकरोद्भीष्मः सततं समितिक्षयम्
कुरुभिः सहितं भीष्मं युध्यमानं महारथम्
अर्जुनं च सपाञ्चाल्यं दृष्ट्वा संशयिता जनाः
दशमेऽहनि तस्मिंस्तु भीष्मार्जुनसमागमे
अवर्तत महारौद्रः सततं समितिक्षयः
तस्मिन्नयुतशो राजन्भूयश्च स परंतपः
भीष्मः शांतनवो योधाञ्जघान परमास्त्रवित्
येषामज्ञातकल्पानि नामगोत्राणि पार्थिव
ते हतास्तत्र भीष्मेण शूराः सर्वेऽनिवर्तिनः
दशाहानि ततस्तप्त्वा भीष्मः पाण्डववाहिनीम्
निरविद्यत धर्मात्मा जीवितेन परंतपः
स क्षिप्रं वधमन्विच्छन्नात्मनोऽभिमुखं रणे
न हन्यां मानवश्रेष्ठान्संग्रामेऽभिमुखानिति
चिन्तयित्वा महाबाहुः पिता देवव्रतस्तव
अभ्याशस्थं महाराज पाण्डवं वाक्यमब्रवीत्
युधिष्ठिर महाप्राज्ञ सर्वशास्त्रविशारद
शृणु मे वचनं तात धर्म्यं स्वर्ग्यं च जल्पतः
निर्विण्णोऽस्मि भृशं तात देहेनानेन भारत
घ्नतश्च मे गतः कालः सुबहून्प्राणिनो रणे
तस्मात्पार्थं पुरोधाय पाञ्चालान्सृञ्जयांस्तथा
मद्वधे क्रियतां यत्नो मम चेदिच्छसि प्रियम्
तस्य तन्मतमाज्ञाय पाण्डवः सत्यदर्शनः
भीष्मं प्रतिययौ यत्तः संग्रामे सह सृञ्जयैः
धृष्टद्युम्नस्ततो राजन्पाण्डवश्च युधिष्ठिरः
श्रुत्वा भीष्मस्य तां वाचं चोदयामासतुर्बलम्
अभिद्रवत युध्यध्वं भीष्मं जयत संयुगे
रक्षिताः सत्यसंधेन जिष्णुना रिपुजिष्णुना
अयं चापि महेष्वासः पार्षतो वाहिनीपतिः
भीमसेनश्च समरे पालयिष्यति वो ध्रुवम्
न वै भीष्माद्भयं किंचित्कर्तव्यं युधि सृञ्जयाः
ध्रुवं भीष्मं विजेष्यामः पुरस्कृत्य शिखण्डिनम्
तथा तु समयं कृत्वा दशमेऽहनि पाण्डवाः
ब्रह्मलोकपरा भूत्वा संजग्मुः क्रोधमूर्छिताः
शिखण्डिनं पुरस्कृत्य पाण्डवं च धनंजयम्
भीष्मस्य पातने यत्नं परमं ते समास्थिताः
ततस्तव सुतादिष्टा नानाजनपदेश्वराः
द्रोणेन सहपुत्रेण सहसेना महाबलाः
दुःशासनश्च बलवान्सह सर्वैः सहोदरैः
भीष्मं समरमध्यस्थं पालयां चक्रिरे तदा
ततस्तु तावकाः शूराः पुरस्कृत्य यतव्रतम्
शिखण्डिप्रमुखान्पार्थान्योधयन्ति स्म संयुगे
चेदिभिश्च सपाञ्चालैः सहितो वानरध्वजः
ययौ शांतनवं भीष्मं पुरस्कृत्य शिखण्डिनम्
द्रोणपुत्रं शिनेर्नप्ता धृष्टकेतुस्तु पौरवम्
युधामन्युः सहामात्यं दुर्योधनमयोधयत्
विराटस्तु सहानीकः सहसेनं जयद्रथम्
वृद्धक्षत्रस्य दायादमाससाद परंतपः
मद्रराजं महेष्वासं सहसैन्यं युधिष्ठिरः
भीमसेनाभिगुप्तश्च नागानीकमुपाद्रवत्
अप्रधृष्यमनावार्यं सर्वशस्त्रभृतां वरम्
द्रोणं प्रति ययौ यत्तः पाञ्चाल्यः सह सोमकैः