Bhishma Parva, Adhyaya 110, Verse 1
अर्जुनस्तु रणे शल्यं यतमानं महारथम्
छादयामास समरे शरैः संनतपर्वभिः
Containing 46 sacred Sanskrit shlokas with multi-author commentaries and translations.
अर्जुनस्तु रणे शल्यं यतमानं महारथम्
छादयामास समरे शरैः संनतपर्वभिः
सुशर्माणं कृपं चैव त्रिभिस्त्रिभिरविध्यत
प्राग्ज्योतिषं च समरे सैन्धवं च जयद्रथम्
चित्रसेनं विकर्णं च कृतवर्माणमेव च
दुर्मर्षणं च राजेन्द्र आवन्त्यौ च महारथौ
एकैकं त्रिभिरानर्छत्कङ्कबर्हिणवाजितैः
शरैरतिरथो युद्धे पीडयन्वाहिनीं तव
जयद्रथो रणे पार्थं भित्त्वा भारत सायकैः
भीमं विव्याध तरसा चित्रसेनरथे स्थितः
शल्यश्च समरे जिष्णुं कृपश्च रथिनां वरः
विव्यधाते महाबाहुं बहुधा मर्मभेदिभिः
चित्रसेनादयश्चैव पुत्रास्तव विशां पते
पञ्चभिः पञ्चभिस्तूर्णं संयुगे निशितैः शरैः
आजघ्नुरर्जुनं संख्ये भीमसेनं च मारिष
तौ तत्र रथिनां श्रेष्ठौ कौन्तेयौ भरतर्षभौ
अपीडयेतां समरे त्रिगर्तानां महद्बलम्
सुशर्मापि रणे पार्थं विद्ध्वा बहुभिरायसैः
ननाद बलवन्नादं नादयन्वै नभस्तलम्
अन्ये च रथिनः शूरा भीमसेनधनंजयौ
विव्यधुर्निशितैर्बाणै रुक्मपुङ्खैरजिह्मगैः
तेषां तु रथिनां मध्ये कौन्तेयौ रथिनां वरौ
क्रीडमानौ रथोदारौ चित्ररूपौ व्यरोचताम्
आमिषेप्सू गवां मध्ये सिंहाविव बलोत्कटौ
छित्त्वा धनूंषि वीराणां शरांश्च बहुधा रणे
पातयामासतुर्वीरौ शिरांसि शतशो नृणाम्
रथाश्च बहवो भग्ना हयाश्च शतशो हताः
गजाश्च सगजारोहाः पेतुरुर्व्यां महामृधे
रथिनः सादिनश्चैव तत्र तत्र निसूदिताः
दृश्यन्ते बहुधा राजन्वेष्टमानाः समन्ततः
हतैर्गजपदात्योघैर्वाजिभिश्च निसूदितैः
रथैश्च बहुधा भग्नैः समास्तीर्यत मेदिनी
छत्रैश्च बहुधा छिन्नैर्ध्वजैश्च विनिपातितैः
अङ्कुशैरपविद्धैश्च परिस्तोमैश्च भारत
केयूरैरङ्गदैर्हारै राङ्कवैर्मृदितैस्तथा
उष्णीषैरपविद्धैश्च चामरव्यजनैरपि
तत्र तत्रापविद्धैश्च बाहुभिश्चन्दनोक्षितैः
ऊरुभिश्च नरेन्द्राणां समास्तीर्यत मेदिनी
तत्राद्भुतमपश्याम रणे पार्थस्य विक्रमम्
शरैः संवार्य तान्वीरान्निजघान बलं तव
पुत्रस्तु तव तं दृष्ट्वा भीमार्जुनसमागमम्
गाङ्गेयस्य रथाभ्याशमुपजग्मे महाभये
कृपश्च कृतवर्मा च सैन्धवश्च जयद्रथः
विन्दानुविन्दावावन्त्यावाजग्मुः संयुगं तदा
ततो भीमो महेष्वासः फल्गुनश्च महारथः
कौरवाणां चमूं घोरां भृशं दुद्रुवतू रणे
ततो बर्हिणवाजानामयुतान्यर्बुदानि च
धनंजयरथे तूर्णं पातयन्ति स्म संयुगे
ततस्ताञ्शरजालेन संनिवार्य महारथान्
पार्थः समन्तात्समरे प्रेषयामास मृत्यवे
शल्यस्तु समरे जिष्णुं क्रीडन्निव महारथः
आजघानोरसि क्रुद्धो भल्लैः संनतपर्वभिः
तस्य पार्थो धनुश्छित्त्वा हस्तावापं च पञ्चभिः
अथैनं सायकैस्तीक्ष्णैर्भृशं विव्याध मर्मणि
अथान्यद्धनुरादाय समरे भारसाधनम्
मद्रेश्वरो रणे जिष्णुं ताडयामास रोषितः
त्रिभिः शरैर्महाराज वासुदेवं च पञ्चभिः
भीमसेनं च नवभिर्बाह्वोरुरसि चार्पयत्
ततो द्रोणो महाराज मागधश्च महारथः
दुर्योधनसमादिष्टौ तं देशमुपजग्मतुः
यत्र पार्थो महाराज भीमसेनश्च पाण्डवः
कौरव्यस्य महासेनां जघ्नतुस्तौ महारथौ