Bhishma Parva, Adhyaya 109, Verse 1
भगदत्तः कृपः शल्यः कृतवर्मा च सात्वतः
विन्दानुविन्दावावन्त्यौ सैन्धवश्च जयद्रथः
Containing 48 sacred Sanskrit shlokas with multi-author commentaries and translations.
भगदत्तः कृपः शल्यः कृतवर्मा च सात्वतः
विन्दानुविन्दावावन्त्यौ सैन्धवश्च जयद्रथः
चित्रसेनो विकर्णश्च तथा दुर्मर्षणो युवा
दशैते तावका योधा भीमसेनमयोधयन्
महत्या सेनया युक्ता नानादेशसमुत्थया
भीष्मस्य समरे राजन्प्रार्थयाना महद्यशः
शल्यस्तु नवभिर्बाणैर्भीमसेनमताडयत्
कृतवर्मा त्रिभिर्बाणैः कृपश्च नवभिः शरैः
चित्रसेनो विकर्णश्च भगदत्तश्च मारिष
दशभिर्दशभिर्भल्लैर्भीमसेनमताडयन्
सैन्धवश्च त्रिभिर्बाणैर्जत्रुदेशेऽभ्यताडयत्
विन्दानुविन्दावावन्त्यौ पञ्चभिः पञ्चभिः शरैः
दुर्मर्षणश्च विंशत्या पाण्डवं निशितैः शरैः
स तान्सर्वान्महाराज भ्राजमानान्पृथक्पृथक्
प्रवीरान्सर्वलोकस्य धार्तराष्ट्रान्महारथान्
विव्याध बहुभिर्बाणैर्भीमसेनो महाबलः
शल्यं पञ्चाशता विद्ध्वा कृतवर्माणमष्टभिः
कृपस्य सशरं चापं मध्ये चिच्छेद भारत
अथैनं छिन्नधन्वानं पुनर्विव्याध पञ्चभिः
विन्दानुविन्दौ च तथा त्रिभिस्त्रिभिरताडयत्
दुर्मर्षणं च विंशत्या चित्रसेनं च पञ्चभिः
विकर्णं दशभिर्बाणैः पञ्चभिश्च जयद्रथम्
विद्ध्वा भीमोऽनदद्धृष्टः सैन्धवं च पुनस्त्रिभिः
अथान्यद्धनुरादाय गौतमो रथिनां वरः
भीमं विव्याध संरब्धो दशभिर्निशितैः शरैः
स विद्धो बहुभिर्बाणैस्तोत्त्रैरिव महाद्विपः
ततः क्रुद्धो महाबाहुर्भीमसेनः प्रतापवान्
गौतमं ताडयामास शरैर्बहुभिराहवे
सैन्धवस्य तथाश्वांश्च सारथिं च त्रिभिः शरैः
प्राहिणोन्मृत्युलोकाय कालान्तकसमद्युतिः
हताश्वात्तु रथात्तूर्णमवप्लुत्य महारथः
शरांश्चिक्षेप निशितान्भीमसेनस्य संयुगे
तस्य भीमो धनुर्मध्ये द्वाभ्यां चिच्छेद भारत
भल्लाभ्यां भरतश्रेष्ठ सैन्धवस्य महात्मनः
स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः
चित्रसेनरथं राजन्नारुरोह त्वरान्वितः
अत्यद्भुतं रणे कर्म कृतवांस्तत्र पाण्डवः
महारथाञ्शरैर्विद्ध्वा वारयित्वा महारथः
विरथं सैन्धवं चक्रे सर्वलोकस्य पश्यतः
नातीव ममृषे शल्यो भीमसेनस्य विक्रमम्
स संधाय शरांस्तीक्ष्णान्कर्मारपरिमार्जितान्
भीमं विव्याध सप्तत्या तिष्ठ तिष्ठेति चाब्रवीत्
कृपश्च कृतवर्मा च भगदत्तश्च मारिष
विन्दानुविन्दावावन्त्यौ चित्रसेनश्च संयुगे
दुर्मर्षणो विकर्णश्च सिन्धुराजश्च वीर्यवान्
भीमं ते विव्यधुस्तूर्णं शल्यहेतोररिंदमाः
स तु तान्प्रतिविव्याध पञ्चभिः पञ्चभिः शरैः
शल्यं विव्याध सप्तत्या पुनश्च दशभिः शरैः
तं शल्यो नवभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः
सारथिं चास्य भल्लेन गाढं विव्याध मर्मणि
विशोकं वीक्ष्य निर्भिन्नं भीमसेनः प्रतापवान्
मद्रराजं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत्
तथेतरान्महेष्वासांस्त्रिभिस्त्रिभिरजिह्मगैः
ताडयामास समरे सिंहवच्च ननाद च
ते हि यत्ता महेष्वासाः पाण्डवं युद्धदुर्मदम्
त्रिभिस्त्रिभिरकुण्ठाग्रैर्भृशं मर्मस्वताडयन्
सोऽतिविद्धो महेष्वासो भीमसेनो न विव्यथे
पर्वतो वारिधाराभिर्वर्षमाणैरिवाम्बुदैः
शल्यं च नवभिर्बाणैर्भृशं विद्ध्वा महायशाः
प्राग्ज्योतिषं शतेनाजौ राजन्विव्याध वै दृढम्
ततस्तु सशरं चापं सात्वतस्य महात्मनः
क्षुरप्रेण सुतीक्ष्णेन चिच्छेद कृतहस्तवत्
अथान्यद्धनुरादाय कृतवर्मा वृकोदरम्
आजघान भ्रुवोर्मध्ये नाराचेन परंतप
भीमस्तु समरे विद्ध्वा शल्यं नवभिरायसैः
भगदत्तं त्रिभिश्चैव कृतवर्माणमष्टभिः