Bhishma Parva, Adhyaya 108, Verse 1
अथ वीरो महेष्वासो मत्तवारणविक्रमः
समादाय महच्चापं मत्तवारणवारणम्
Containing 41 sacred Sanskrit shlokas with multi-author commentaries and translations.
अथ वीरो महेष्वासो मत्तवारणविक्रमः
समादाय महच्चापं मत्तवारणवारणम्
विधुन्वानो धनुः श्रेष्ठं द्रावयाणो महारथान्
पृतनां पाण्डवेयानां पातयानो महारथः
निमित्तानि निमित्तज्ञः सर्वतो वीक्ष्य वीर्यवान्
प्रतपन्तमनीकानि द्रोणः पुत्रमभाषत
अयं स दिवसस्तात यत्र पार्थो महारथः
जिघांसुः समरे भीष्मं परं यत्नं करिष्यति
उत्पतन्ति हि मे बाणा धनुः प्रस्फुरतीव मे
योगमस्त्राणि गच्छन्ति क्रूरे मे वर्तते मतिः
दिक्षु शान्तासु घोराणि व्याहरन्ति मृगद्विजाः
नीचैर्गृध्रा निलीयन्ते भारतानां चमूं प्रति
नष्टप्रभ इवादित्यः सर्वतो लोहिता दिशः
रसते व्यथते भूमिरनुष्टनति वाहनम्
कङ्का गृध्रा बलाकाश्च व्याहरन्ति मुहुर्मुहुः
शिवाश्चाशिवनिर्घोषा वेदयन्त्यो महद्भयम्
पपात महती चोल्का मध्येनादित्यमण्डलात्
सकबन्धश्च परिघो भानुमावृत्य तिष्ठति
परिवेषस्तथा घोरश्चन्द्रभास्करयोरभूत्
वेदयानो भयं घोरं राज्ञां देहावकर्तनम्
देवतायतनस्थाश्च कौरवेन्द्रस्य देवताः
कम्पन्ते च हसन्ते च नृत्यन्ति च रुदन्ति च
अपसव्यं ग्रहाश्चक्रुरलक्ष्माणं निशाकरम्
अवाक्शिराश्च भगवानुदतिष्ठत चन्द्रमाः
वपूंषि च नरेन्द्राणां विगतानीव लक्षये
धार्तराष्ट्रस्य सैन्येषु न च भ्राजन्ति दंशिताः
सेनयोरुभयोश्चैव समन्ताच्छ्रूयते महान्
पाञ्चजन्यस्य निर्घोषो गाण्डीवस्य च निस्वनः
ध्रुवमास्थाय बीभत्सुरुत्तमास्त्राणि संयुगे
अपास्यान्यान्रणे योधानभ्यस्यति पितामहम्
हृष्यन्ति रोमकूपानि सीदतीव च मे मनः
चिन्तयित्वा महाबाहो भीष्मार्जुनसमागमम्
तं चैव निकृतिप्रज्ञं पाञ्चाल्यं पापचेतसम्
पुरस्कृत्य रणे पार्थो भीष्मस्यायोधनं गतः
अब्रवीच्च पुरा भीष्मो नाहं हन्यां शिखण्डिनम्
स्त्री ह्येषा विहिता धात्रा दैवाच्च स पुनः पुमान्
अमङ्गल्यध्वजश्चैव याज्ञसेनिर्महारथः
न चामङ्गलकेतोः स प्रहरेदापगासुतः
एतद्विचिन्तयानस्य प्रज्ञा सीदति मे भृशम्
अद्यैव तु रणे पार्थः कुरुवृद्धमुपाद्रवत्
युधिष्ठिरस्य च क्रोधो भीष्मार्जुनसमागमः
मम चास्त्राभिसंरम्भः प्रजानामशुभं ध्रुवम्
मनस्वी बलवाञ्शूरः कृतास्त्रो दृढविक्रमः
दूरपाती दृढेषुश्च निमित्तज्ञश्च पाण्डवः
अजेयः समरे चैव देवैरपि सवासवैः
बलवान्बुद्धिमांश्चैव जितक्लेशो युधां वरः
विजयी च रणे नित्यं भैरवास्त्रश्च पाण्डवः
तस्य मार्गं परिहरन्द्रुतं गच्छ यतव्रतम्
पश्य चैतन्महाबाहो वैशसं समुपस्थितम्
हेमचित्राणि शूराणां महान्ति च शुभानि च
कवचान्यवदीर्यन्ते शरैः संनतपर्वभिः
छिद्यन्ते च ध्वजाग्राणि तोमराणि धनूंषि च
प्रासाश्च विमलास्तीक्ष्णाः शक्त्यश्च कनकोज्ज्वलाः
वैजयन्त्यश्च नागानां संक्रुद्धेन किरीटिना
नायं संरक्षितुं कालः प्राणान्पुत्रोपजीविभिः
याहि स्वर्गं पुरस्कृत्य यशसे विजयाय च
हयनागरथावर्तां महाघोरां सुदुस्तराम्
रथेन संग्रामनदीं तरत्येष कपिध्वजः
ब्रह्मण्यता दमो दानं तपश्च चरितं महत्
इहैव दृश्यते राज्ञो भ्राता यस्य धनंजयः