Bhishma Parva, Adhyaya 107, Verse 1
सात्यकिं दंशितं युद्धे भीष्मायाभ्युद्यतं तदा
आर्श्यशृङ्गिर्महेष्वासो वारयामास संयुगे
Containing 55 sacred Sanskrit shlokas with multi-author commentaries and translations.
सात्यकिं दंशितं युद्धे भीष्मायाभ्युद्यतं तदा
आर्श्यशृङ्गिर्महेष्वासो वारयामास संयुगे
माधवस्तु सुसंक्रुद्धो राक्षसं नवभिः शरैः
आजघान रणे राजन्प्रहसन्निव भारत
तथैव राक्षसो राजन्माधवं निशितैः शरैः
अर्दयामास राजेन्द्र संक्रुद्धः शिनिपुंगवम्
शैनेयः शरसंघं तु प्रेषयामास संयुगे
राक्षसाय सुसंक्रुद्धो माधवः परवीरहा
ततो रक्षो महाबाहुं सात्यकिं सत्यविक्रमम्
विव्याध विशिखैस्तीक्ष्णैः सिंहनादं ननाद च
माधवस्तु भृशं विद्धो राक्षसेन रणे तदा
धैर्यमालम्ब्य तेजस्वी जहास च ननाद च
भगदत्तस्ततः क्रुद्धो माधवं निशितैः शरैः
ताडयामास समरे तोत्त्रैरिव महागजम्
विहाय राक्षसं युद्धे शैनेयो रथिनां वरः
प्राग्ज्योतिषाय चिक्षेप शरान्संनतपर्वणः
तस्य प्राग्ज्योतिषो राजा माधवस्य महद्धनुः
चिच्छेद शितधारेण भल्लेन कृतहस्तवत्
अथान्यद्धनुरादाय वेगवत्परवीरहा
भगदत्तं रणे क्रुद्धो विव्याध निशितैः शरैः
सोऽतिविद्धो महेष्वासः सृक्किणी संलिहन्मुहुः
शक्तिं कनकवैडूर्यभूषितामायसीं दृढाम्
यमदण्डोपमां घोरां प्राहिणोत्सात्यकाय वै
तामापतन्तीं सहसा तस्य बाहोर्बलेरिताम्
सात्यकिः समरे राजंस्त्रिधा चिच्छेद सायकैः
सा पपात तदा भूमौ महोल्केव हतप्रभा
शक्तिं विनिहतां दृष्ट्वा पुत्रस्तव विशां पते
महता रथवंशेन वारयामास माधवम्
तथा परिवृतं दृष्ट्वा वार्ष्णेयानां महारथम्
दुर्योधनो भृशं हृष्टो भ्रातॄन्सर्वानुवाच ह
तथा कुरुत कौरव्या यथा वः सात्यको युधि
न जीवन्प्रतिनिर्याति महतोऽस्माद्रथव्रजात्
अस्मिन्हते हतं मन्ये पाण्डवानां महद्बलम्
तत्तथेति वचस्तस्य परिगृह्य महारथाः
शैनेयं योधयामासुर्भीष्मस्य प्रमुखे तदा
अभिमन्युं तदायान्तं भीष्मायाभ्युद्यतं मृधे
काम्बोजराजो बलवान्वारयामास संयुगे
आर्जुनिर्नृपतिं विद्ध्वा शरैः संनतपर्वभिः
पुनरेव चतुःषष्ट्या राजन्विव्याध तं नृपम्
सुदक्षिणस्तु समरे कार्ष्णिं विव्याध पञ्चभिः
सारथिं चास्य नवभिरिच्छन्भीष्मस्य जीवितम्
तद्युद्धमासीत्सुमहत्तयोस्तत्र पराक्रमे
यदभ्यधावद्गाङ्गेयं शिखण्डी शत्रुतापनः
विराटद्रुपदौ वृद्धौ वारयन्तौ महाचमूम्
भीष्मं च युधि संरब्धावाद्रवन्तौ महारथौ
अश्वत्थामा ततः क्रुद्धः समायाद्रथसत्तमः
ततः प्रववृते युद्धं तव तेषां च भारत
विराटो दशभिर्भल्लैराजघान परंतप
यतमानं महेष्वासं द्रौणिमाहवशोभिनम्
द्रुपदश्च त्रिभिर्बाणैर्विव्याध निशितैस्तथा
गुरुपुत्रं समासाद्य भीष्मस्य पुरतः स्थितम्
अश्वत्थामा ततस्तौ तु विव्याध दशभिः शरैः
विराटद्रुपदौ वृद्धौ भीष्मं प्रति समुद्यतौ
तत्राद्भुतमपश्याम वृद्धयोश्चरितं महत्
यद्द्रौणेः सायकान्घोरान्प्रत्यवारयतां युधि
सहदेवं तथा यान्तं कृपः शारद्वतोऽभ्ययात्
यथा नागो वने नागं मत्तो मत्तमुपाद्रवत्
कृपश्च समरे राजन्माद्रीपुत्रं महारथम्
आजघान शरैस्तूर्णं सप्तत्या रुक्मभूषणैः
तस्य माद्रीसुतश्चापं द्विधा चिच्छेद सायकैः
अथैनं छिन्नधन्वानं विव्याध नवभिः शरैः
सोऽन्यत्कार्मुकमादाय समरे भारसाधनम्
माद्रीपुत्रं सुसंहृष्टो दशभिर्निशितैः शरैः
आजघानोरसि क्रुद्ध इच्छन्भीष्मस्य जीवितम्