Bhishma Parva, Adhyaya 103, Verse 1
युध्यतामेव तेषां तु भास्करेऽस्तमुपागते
संध्या समभवद्घोरा नापश्याम ततो रणम्
Containing 101 sacred Sanskrit shlokas with multi-author commentaries and translations.
युध्यतामेव तेषां तु भास्करेऽस्तमुपागते
संध्या समभवद्घोरा नापश्याम ततो रणम्
ततो युधिष्ठिरो राजा संध्यां संदृश्य भारत
वध्यमानं बलं चापि भीष्मेणामित्रघातिना
मुक्तशस्त्रं परावृत्तं पलायनपरायणम्
भीष्मं च युधि संरब्धमनुयान्तं महारथान्
सोमकांश्च जितान्दृष्ट्वा निरुत्साहान्महारथान्
चिन्तयित्वा चिरं ध्यात्वा अवहारमरोचयत्
ततोऽवहारं सैन्यानां चक्रे राजा युधिष्ठिरः
तथैव तव सैन्यानामवहारो ह्यभूत्तदा
ततोऽवहारं सैन्यानां कृत्वा तत्र महारथाः
न्यविशन्त कुरुश्रेष्ठ संग्रामे क्षतविक्षताः
भीष्मस्य समरे कर्म चिन्तयानास्तु पाण्डवाः
नालभन्त तदा शान्तिं भृशं भीष्मेण पीडिताः
भीष्मोऽपि समरे जित्वा पाण्डवान्सह सृञ्जयैः
पूज्यमानस्तव सुतैर्वन्द्यमानश्च भारत
न्यविशत्कुरुभिः सार्धं हृष्टरूपैः समन्ततः
ततो रात्रिः समभवत्सर्वभूतप्रमोहिनी
तस्मिन्रात्रिमुखे घोरे पाण्डवा वृष्णिभिः सह
सृञ्जयाश्च दुराधर्षा मन्त्राय समुपाविशन्
आत्मनिःश्रेयसं सर्वे प्राप्तकालं महाबलाः
मन्त्रयामासुरव्यग्रा मन्त्रनिश्चयकोविदाः
ततो युधिष्ठिरो राजा मन्त्रयित्वा चिरं नृप
वासुदेवं समुद्वीक्ष्य वाक्यमेतदुवाच ह
पश्य कृष्ण महात्मानं भीष्मं भीमपराक्रमम्
गजं नलवनानीव विमृद्नन्तं बलं मम
न चैवैनं महात्मानमुत्सहामो निरीक्षितुम्
लेलिह्यमानं सैन्येषु प्रवृद्धमिव पावकम्
यथा घोरो महानागस्तक्षको वै विषोल्बणः
तथा भीष्मो रणे कृष्ण तीक्ष्णशस्त्रः प्रतापवान्
गृहीतचापः समरे विमुञ्चंश्च शिताञ्शरान्
शक्यो जेतुं यमः क्रुद्धो वज्रपाणिश्च देवराट्
वरुणः पाशभृद्वापि सगदो वा धनेश्वरः
न तु भीष्मः सुसंक्रुद्धः शक्यो जेतुं महाहवे
सोऽहमेवं गते कृष्ण निमग्नः शोकसागरे
आत्मनो बुद्धिदौर्बल्याद्भीष्ममासाद्य संयुगे
वनं यास्यामि दुर्धर्ष श्रेयो मे तत्र वै गतम्
न युद्धं रोचये कृष्ण हन्ति भीष्मो हि नः सदा
यथा प्रज्वलितं वह्निं पतंगः समभिद्रवन्
एकतो मृत्युमभ्येति तथाहं भीष्ममीयिवान्
क्षयं नीतोऽस्मि वार्ष्णेय राज्यहेतोः पराक्रमी
भ्रातरश्चैव मे शूराः सायकैर्भृशपीडिताः
मत्कृते भ्रातृसौहार्दाद्राज्यात्प्रभ्रंशनं गताः
परिक्लिष्टा तथा कृष्णा मत्कृते मधुसूदन
जीवितं बहु मन्येऽहं जीवितं ह्यद्य दुर्लभम्
जीवितस्याद्य शेषेण चरिष्ये धर्ममुत्तमम्
यदि तेऽहमनुग्राह्यो भ्रातृभिः सह केशव
स्वधर्मस्याविरोधेन तदुदाहर केशव
एतच्छ्रुत्वा वचस्तस्य कारुण्याद्बहुविस्तरम्
प्रत्युवाच ततः कृष्णः सान्त्वयानो युधिष्ठिरम्
धर्मपुत्र विषादं त्वं मा कृथाः सत्यसंगर
यस्य ते भ्रातरः शूरा दुर्जयाः शत्रुसूदनाः
अर्जुनो भीमसेनश्च वाय्वग्निसमतेजसौ
माद्रीपुत्रौ च विक्रान्तौ त्रिदशानामिवेश्वरौ
मां वा नियुङ्क्ष्व सौहार्दाद्योत्स्ये भीष्मेण पाण्डव
त्वत्प्रयुक्तो ह्यहं राजन्किं न कुर्यां महाहवे
हनिष्यामि रणे भीष्ममाहूय पुरुषर्षभम्
पश्यतां धार्तराष्ट्राणां यदि नेच्छति फल्गुनः
यदि भीष्मे हते राजञ्जयं पश्यसि पाण्डव
हन्तास्म्येकरथेनाद्य कुरुवृद्धं पितामहम्