Mahabharata

Bhishma Parva, Adhyaya 102

Containing 78 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Bhishma Parva, Adhyaya 102, Verse 1

ततः पिता तव क्रुद्धो निशितैः सायकोत्तमैः

आजघान रणे पार्थान्सहसेनान्समन्ततः

Mahabharata

Bhishma Parva, Adhyaya 102, Verse 2

भीमं द्वादशभिर्विद्ध्वा सात्यकिं नवभिः शरैः

नकुलं च त्रिभिर्बाणैः सहदेवं च सप्तभिः

Mahabharata

Bhishma Parva, Adhyaya 102, Verse 3

युधिष्ठिरं द्वादशभिर्बाह्वोरुरसि चार्पयत्

धृष्टद्युम्नं ततो विद्ध्वा विननाद महाबलः

Mahabharata

Bhishma Parva, Adhyaya 102, Verse 4

तं द्वादशार्धैर्नकुलो माधवश्च त्रिभिः शरैः

धृष्टद्युम्नश्च सप्तत्या भीमसेनश्च पञ्चभिः

युधिष्ठिरो द्वादशभिः प्रत्यविध्यत्पितामहम्

Mahabharata

Bhishma Parva, Adhyaya 102, Verse 5

द्रोणस्तु सात्यकिं विद्ध्वा भीमसेनमविध्यत

एकैकं पञ्चभिर्बाणैर्यमदण्डोपमैः शितैः

Mahabharata

Bhishma Parva, Adhyaya 102, Verse 6

तौ च तं प्रत्यविध्येतां त्रिभिस्त्रिभिरजिह्मगैः

तोत्त्रैरिव महानागं द्रोणं ब्राह्मणपुंगवम्

Mahabharata

Bhishma Parva, Adhyaya 102, Verse 7

सौवीराः कितवाः प्राच्याः प्रतीच्योदीच्यमालवाः

अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः

संग्रामे नाजहुर्भीष्मं वध्यमानाः शितैः शरैः

Mahabharata

Bhishma Parva, Adhyaya 102, Verse 8

तथैवान्ये वध्यमानाः पाण्डवेयैर्महात्मभिः

पाण्डवानभ्यवर्तन्त विविधायुधपाणयः

तथैव पाण्डवा राजन्परिवव्रुः पितामहम्

Mahabharata

Bhishma Parva, Adhyaya 102, Verse 9

स समन्तात्परिवृतो रथौघैरपराजितः

गहनेऽग्निरिवोत्सृष्टः प्रजज्वाल दहन्परान्

Mahabharata

Bhishma Parva, Adhyaya 102, Verse 10

रथाग्न्यगारश्चापार्चिरसिशक्तिगदेन्धनः

शरस्फुलिङ्गो भीष्माग्निर्ददाह क्षत्रियर्षभान्

Mahabharata

Bhishma Parva, Adhyaya 102, Verse 11

सुवर्णपुङ्खैरिषुभिर्गार्ध्रपक्षैः सुतेजनैः

कर्णिनालीकनाराचैश्छादयामास तद्बलम्

Mahabharata

Bhishma Parva, Adhyaya 102, Verse 12

अपातयद्ध्वजांश्चैव रथिनश्च शितैः शरैः

मुण्डतालवनानीव चकार स रथव्रजान्

Mahabharata

Bhishma Parva, Adhyaya 102, Verse 13

निर्मनुष्यान्रथान्राजन्गजानश्वांश्च संयुगे

अकरोत्स महाबाहुः सर्वशस्त्रभृतां वरः

Mahabharata

Bhishma Parva, Adhyaya 102, Verse 14

तस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः

निशम्य सर्वभूतानि समकम्पन्त भारत

Mahabharata

Bhishma Parva, Adhyaya 102, Verse 15

अमोघा ह्यपतन्बाणाः पितुस्ते भरतर्षभ

नासज्जन्त तनुत्रेषु भीष्मचापच्युताः शराः

Mahabharata

Bhishma Parva, Adhyaya 102, Verse 16

हतवीरान्रथान्राजन्संयुक्ताञ्जवनैर्हयैः

अपश्याम महाराज ह्रियमाणान्रणाजिरे

Mahabharata

Bhishma Parva, Adhyaya 102, Verse 17

चेदिकाशिकरूषाणां सहस्राणि चतुर्दश

महारथाः समाख्याताः कुलपुत्रास्तनुत्यजः

अपरावर्तिनः सर्वे सुवर्णविकृतध्वजाः

Mahabharata

Bhishma Parva, Adhyaya 102, Verse 18

संग्रामे भीष्ममासाद्य व्यादितास्यमिवान्तकम्

निमग्नाः परलोकाय सवाजिरथकुञ्जराः

Mahabharata

Bhishma Parva, Adhyaya 102, Verse 19

भग्नाक्षोपस्करान्कांश्चिद्भग्नचक्रांश्च सर्वशः

अपश्याम रथान्राजञ्शतशोऽथ सहस्रशः

Mahabharata

Bhishma Parva, Adhyaya 102, Verse 20

सवरूथै रथैर्भग्नै रथिभिश्च निपातितैः

शरैः सुकवचैश्छिन्नैः पट्टिशैश्च विशां पते

Mahabharata

Bhishma Parva, Adhyaya 102, Verse 21

गदाभिर्मुसलैश्चैव निस्त्रिंशैश्च शिलीमुखैः

अनुकर्षैरुपासङ्गैश्चक्रैर्भग्नैश्च मारिष

Mahabharata

Bhishma Parva, Adhyaya 102, Verse 22

बाहुभिः कार्मुकैः खड्गैः शिरोभिश्च सकुण्डलैः

तलत्रैरङ्गुलित्रैश्च ध्वजैश्च विनिपातितैः

चापैश्च बहुधा छिन्नैः समास्तीर्यत मेदिनी

Mahabharata

Bhishma Parva, Adhyaya 102, Verse 23

हतारोहा गजा राजन्हयाश्च हतसादिनः

परिपेतुर्द्रुतं तत्र शतशोऽथ सहस्रशः

Mahabharata

Bhishma Parva, Adhyaya 102, Verse 24

यतमानाश्च ते वीरा द्रवमाणान्महारथान्

नाशक्नुवन्वारयितुं भीष्मबाणप्रपीडितान्

Mahabharata

Bhishma Parva, Adhyaya 102, Verse 25

महेन्द्रसमवीर्येण वध्यमाना महाचमूः

अभज्यत महाराज न च द्वौ सह धावतः

Mahabharata

Bhishma Parva, Adhyaya 102, Verse 26

आविद्धरथनागाश्वं पतितध्वजकूबरम्

अनीकं पाण्डुपुत्राणां हाहाभूतमचेतनम्

Mahabharata

Bhishma Parva, Adhyaya 102, Verse 27

जघानात्र पिता पुत्रं पुत्रश्च पितरं तथा

प्रियं सखायं चाक्रन्दे सखा दैवबलात्कृतः

Mahabharata

Bhishma Parva, Adhyaya 102, Verse 28

विमुच्य कवचानन्ये पाण्डुपुत्रस्य सैनिकाः

प्रकीर्य केशान्धावन्तः प्रत्यदृश्यन्त भारत

Mahabharata

Bhishma Parva, Adhyaya 102, Verse 29

तद्गोकुलमिवोद्भ्रान्तमुद्भ्रान्तरथकुञ्जरम्

ददृशे पाण्डुपुत्रस्य सैन्यमार्तस्वरं तदा

Mahabharata

Bhishma Parva, Adhyaya 102, Verse 30

प्रभज्यमानं सैन्यं तु दृष्ट्वा यादवनन्दनः

उवाच पार्थं बीभत्सुं निगृह्य रथमुत्तमम्