Bhishma Parva, Adhyaya 101, Verse 1
दृष्ट्वा भीष्मं रणे क्रुद्धं पाण्डवैरभिसंवृतम्
यथा मेघैर्महाराज तपान्ते दिवि भास्करम्
Containing 33 sacred Sanskrit shlokas with multi-author commentaries and translations.
दृष्ट्वा भीष्मं रणे क्रुद्धं पाण्डवैरभिसंवृतम्
यथा मेघैर्महाराज तपान्ते दिवि भास्करम्
दुर्योधनो महाराज दुःशासनमभाषत
एष शूरो महेष्वासो भीष्मः शत्रुनिषूदनः
छादितः पाण्डवैः शूरैः समन्ताद्भरतर्षभ
तस्य कार्यं त्वया वीर रक्षणं सुमहात्मनः
रक्ष्यमाणो हि समरे भीष्मोऽस्माकं पितामहः
निहन्यात्समरे यत्तान्पाञ्चालान्पाण्डवैः सह
तत्र कार्यमहं मन्ये भीष्मस्यैवाभिरक्षणम्
गोप्ता ह्येष महेष्वासो भीष्मोऽस्माकं पितामहः
स भवान्सर्वसैन्येन परिवार्य पितामहम्
समरे दुष्करं कर्म कुर्वाणं परिरक्षतु
एवमुक्तस्तु समरे पुत्रो दुःशासनस्तव
परिवार्य स्थितो भीष्मं सैन्येन महता वृतः
ततः शतसहस्रेण हयानां सुबलात्मजः
विमलप्रासहस्तानामृष्टितोमरधारिणाम्
दर्पितानां सुवेगानां बलस्थानां पताकिनाम्
शिक्षितैर्युद्धकुशलैरुपेतानां नरोत्तमैः
नकुलं सहदेवं च धर्मराजं च पाण्डवम्
न्यवारयन्नरश्रेष्ठं परिवार्य समन्ततः
ततो दुर्योधनो राजा शूराणां हयसादिनाम्
अयुतं प्रेषयामास पाण्डवानां निवारणे
तैः प्रविष्टैर्महावेगैर्गरुत्मद्भिरिवाहवे
खुराहता धरा राजंश्चकम्पे च ननाद च
खुरशब्दश्च सुमहान्वाजिनां शुश्रुवे तदा
महावंशवनस्येव दह्यमानस्य पर्वते
उत्पतद्भिश्च तैस्तत्र समुद्धूतं महद्रजः
दिवाकरपथं प्राप्य छादयामास भास्करम्
वेगवद्भिर्हयैस्तैस्तु क्षोभितं पाण्डवं बलम्
निपतद्भिर्महावेगैर्हंसैरिव महत्सरः
हेषतां चैव शब्देन न प्राज्ञायत किंचन
ततो युधिष्ठिरो राजा माद्रीपुत्रौ च पाण्डवौ
प्रत्यघ्नंस्तरसा वेगं समरे हयसादिनाम्
उद्वृत्तस्य महाराज प्रावृट्कालेन पूर्यतः
पौर्णमास्यामम्बुवेगं यथा वेला महोदधेः
ततस्ते रथिनो राजञ्शरैः संनतपर्वभिः
न्यकृन्तन्नुत्तमाङ्गानि कायेभ्यो हयसादिनाम्
ते निपेतुर्महाराज निहता दृढधन्विभिः
नागैरिव महानागा यथा स्युर्गिरिगह्वरे
तेऽपि प्रासैः सुनिशितैः शरैः संनतपर्वभिः
न्यकृन्तन्नुत्तमाङ्गानि विचरन्तो दिशो दश
अत्यासन्ना हयारोहा ऋष्टिभिर्भरतर्षभ
अच्छिनन्नुत्तमाङ्गानि फलानीव महाद्रुमात्
ससादिनो हया राजंस्तत्र तत्र निषूदिताः
पतिताः पात्यमानाश्च शतशोऽथ सहस्रशः
वध्यमाना हयास्ते तु प्राद्रवन्त भयार्दिताः
यथा सिंहान्समासाद्य मृगाः प्राणपरायणाः
पाण्डवास्तु महाराज जित्वा शत्रून्महाहवे
दध्मुः शङ्खांश्च भेरीश्च ताडयामासुराहवे
ततो दुर्योधनो दृष्ट्वा दीनं सैन्यमवस्थितम्
अब्रवीद्भरतश्रेष्ठ मद्रराजमिदं वचः
एष पाण्डुसुतो ज्येष्ठो जित्वा मातुल मामकान्
पश्यतां नो महाबाहो सेनां द्रावयते बली
तं वारय महाबाहो वेलेव मकरालयम्
त्वं हि संश्रूयसेऽत्यर्थमसह्यबलविक्रमः
पुत्रस्य तव तद्वाक्यं श्रुत्वा शल्यः प्रतापवान्
प्रययौ रथवंशेन यत्र राजा युधिष्ठिरः
तदापतद्वै सहसा शल्यस्य सुमहद्बलम्
महौघवेगं समरे वारयामास पाण्डवः
मद्रराजं च समरे धर्मराजो महारथः
दशभिः सायकैस्तूर्णमाजघान स्तनान्तरे
नकुलः सहदेवश्च त्रिभिस्त्रिभिरजिह्मगैः