Mahabharata

Bhishma Parva, Adhyaya 100

Containing 37 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Bhishma Parva, Adhyaya 100, Verse 1

अर्जुनस्तु नरव्याघ्र सुशर्मप्रमुखान्नृपान्

अनयत्प्रेतराजस्य भवनं सायकैः शितैः

Mahabharata

Bhishma Parva, Adhyaya 100, Verse 2

सुशर्मापि ततो बाणैः पार्थं विव्याध संयुगे

वासुदेवं च सप्तत्या पार्थं च नवभिः पुनः

Mahabharata

Bhishma Parva, Adhyaya 100, Verse 3

तान्निवार्य शरौघेण शक्रसूनुर्महारथः

सुशर्मणो रणे योधान्प्राहिणोद्यमसादनम्

Mahabharata

Bhishma Parva, Adhyaya 100, Verse 4

ते वध्यमानाः पार्थेन कालेनेव युगक्षये

व्यद्रवन्त रणे राजन्भये जाते महारथाः

Mahabharata

Bhishma Parva, Adhyaya 100, Verse 5

उत्सृज्य तुरगान्केचिद्रथान्केचिच्च मारिष

गजानन्ये समुत्सृज्य प्राद्रवन्त दिशो दश

Mahabharata

Bhishma Parva, Adhyaya 100, Verse 6

अपरे तुद्यमानास्तु वाजिनागरथा रणात्

त्वरया परया युक्ताः प्राद्रवन्त विशां पते

Mahabharata

Bhishma Parva, Adhyaya 100, Verse 7

पादाताश्चापि शस्त्राणि समुत्सृज्य महारणे

निरपेक्षा व्यधावन्त तेन तेन स्म भारत

Mahabharata

Bhishma Parva, Adhyaya 100, Verse 8

वार्यमाणाः स्म बहुशस्त्रैगर्तेन सुशर्मणा

तथान्यैः पार्थिवश्रेष्ठैर्न व्यतिष्ठन्त संयुगे

Mahabharata

Bhishma Parva, Adhyaya 100, Verse 9

तद्बलं प्रद्रुतं दृष्ट्वा पुत्रो दुर्योधनस्तव

पुरस्कृत्य रणे भीष्मं सर्वसैन्यपुरस्कृतम्

Mahabharata

Bhishma Parva, Adhyaya 100, Verse 10

सर्वोद्योगेन महता धनंजयमुपाद्रवत्

त्रिगर्ताधिपतेरर्थे जीवितस्य विशां पते

Mahabharata

Bhishma Parva, Adhyaya 100, Verse 11

स एकः समरे तस्थौ किरन्बहुविधाञ्शरान्

भ्रातृभिः सहितः सर्वैः शेषा विप्रद्रुता नराः

Mahabharata

Bhishma Parva, Adhyaya 100, Verse 12

तथैव पाण्डवा राजन्सर्वोद्योगेन दंशिताः

प्रययुः फल्गुनार्थाय यत्र भीष्मो व्यवस्थितः

Mahabharata

Bhishma Parva, Adhyaya 100, Verse 13

जानन्तोऽपि रणे शौर्यं घोरं गाण्डीवधन्वनः

हाहाकारकृतोत्साहा भीष्मं जग्मुः समन्ततः

Mahabharata

Bhishma Parva, Adhyaya 100, Verse 14

ततस्तालध्वजः शूरः पाण्डवानामनीकिनीम्

छादयामास समरे शरैः संनतपर्वभिः

Mahabharata

Bhishma Parva, Adhyaya 100, Verse 15

एकीभूतास्ततः सर्वे कुरवः पाण्डवैः सह

अयुध्यन्त महाराज मध्यं प्राप्ते दिवाकरे

Mahabharata

Bhishma Parva, Adhyaya 100, Verse 16

सात्यकिः कृतवर्माणं विद्ध्वा पञ्चभिरायसैः

अतिष्ठदाहवे शूरः किरन्बाणान्सहस्रशः

Mahabharata

Bhishma Parva, Adhyaya 100, Verse 17

तथैव द्रुपदो राजा द्रोणं विद्ध्वा शितैः शरैः

पुनर्विव्याध सप्तत्या सारथिं चास्य सप्तभिः

Mahabharata

Bhishma Parva, Adhyaya 100, Verse 18

भीमसेनस्तु राजानं बाह्लिकं प्रपितामहम्

विद्ध्वानदन्महानादं शार्दूल इव कानने

Mahabharata

Bhishma Parva, Adhyaya 100, Verse 19

आर्जुनिश्चित्रसेनेन विद्धो बहुभिराशुगैः

चित्रसेनं त्रिभिर्बाणैर्विव्याध हृदये भृशम्

Mahabharata

Bhishma Parva, Adhyaya 100, Verse 20

समागतौ तौ तु रणे महामात्रौ व्यरोचताम्

यथा दिवि महाघोरौ राजन्बुधशनैश्चरौ

Mahabharata

Bhishma Parva, Adhyaya 100, Verse 21

तस्याश्वांश्चतुरो हत्वा सूतं च नवभिः शरैः

ननाद बलवन्नादं सौभद्रः परवीरहा

Mahabharata

Bhishma Parva, Adhyaya 100, Verse 22

हताश्वात्तु रथात्तूर्णमवप्लुत्य महारथः

आरुरोह रथं तूर्णं दुर्मुखस्य विशां पते

Mahabharata

Bhishma Parva, Adhyaya 100, Verse 23

द्रोणश्च द्रुपदं विद्ध्वा शरैः संनतपर्वभिः

सारथिं चास्य विव्याध त्वरमाणः पराक्रमी

Mahabharata

Bhishma Parva, Adhyaya 100, Verse 24

पीड्यमानस्ततो राजा द्रुपदो वाहिनीमुखे

अपायाज्जवनैरश्वैः पूर्ववैरमनुस्मरन्

Mahabharata

Bhishma Parva, Adhyaya 100, Verse 25

भीमसेनस्तु राजानं मुहूर्तादिव बाह्लिकम्

व्यश्वसूतरथं चक्रे सर्वसैन्यस्य पश्यतः

Mahabharata

Bhishma Parva, Adhyaya 100, Verse 26

ससंभ्रमो महाराज संशयं परमं गतः

अवप्लुत्य ततो वाहाद्बाह्लिकः पुरुषोत्तमः

आरुरोह रथं तूर्णं लक्ष्मणस्य महारथः

Mahabharata

Bhishma Parva, Adhyaya 100, Verse 27

सात्यकिः कृतवर्माणं वारयित्वा महारथः

शरैर्बहुविधै राजन्नाससाद पितामहम्

Mahabharata

Bhishma Parva, Adhyaya 100, Verse 28

स विद्ध्वा भारतं षष्ट्या निशितैर्लोमवाहिभिः

ननर्तेव रथोपस्थे विधुन्वानो महद्धनुः

Mahabharata

Bhishma Parva, Adhyaya 100, Verse 29

तस्यायसीं महाशक्तिं चिक्षेपाथ पितामहः

हेमचित्रां महावेगां नागकन्योपमां शुभाम्

Mahabharata

Bhishma Parva, Adhyaya 100, Verse 30

तामापतन्तीं सहसा मृत्युकल्पां सुतेजनाम्

ध्वंसयामास वार्ष्णेयो लाघवेन महायशाः