Bhishma Parva, Adhyaya 96, Verse 1
अभिमन्यू रथोदारः पिशङ्गैस्तुरगोत्तमैः
अभिदुद्राव तेजस्वी दुर्योधनबलं महत्
विकिरञ्शरवर्षाणि वारिधारा इवाम्बुदः
Containing 51 sacred Sanskrit shlokas with multi-author commentaries and translations.
अभिमन्यू रथोदारः पिशङ्गैस्तुरगोत्तमैः
अभिदुद्राव तेजस्वी दुर्योधनबलं महत्
विकिरञ्शरवर्षाणि वारिधारा इवाम्बुदः
न शेकुः समरे क्रुद्धं सौभद्रमरिसूदनम्
शस्त्रौघिणं गाहमानं सेनासागरमक्षयम्
निवारयितुमप्याजौ त्वदीयाः कुरुपुंगवाः
तेन मुक्ता रणे राजञ्शराः शत्रुनिबर्हणाः
क्षत्रियाननयञ्शूरान्प्रेतराजनिवेशनम्
यमदण्डोपमान्घोराञ्ज्वलनाशीविषोपमान्
सौभद्रः समरे क्रुद्धः प्रेषयामास सायकान्
रथिनं च रथात्तूर्णं हयपृष्ठाच्च सादिनम्
गजारोहांश्च सगजान्पातयामास फाल्गुनिः
तस्य तत्कुर्वतः कर्म महत्संख्येऽद्भुतं नृपाः
पूजयां चक्रिरे हृष्टाः प्रशशंसुश्च फाल्गुनिम्
तान्यनीकानि सौभद्रो द्रावयन्बह्वशोभत
तूलराशिमिवाधूय मारुतः सर्वतोदिशम्
तेन विद्राव्यमाणानि तव सैन्यानि भारत
त्रातारं नाध्यगच्छन्त पङ्के मग्ना इव द्विपाः
विद्राव्य सर्वसैन्यानि तावकानि नरोत्तमः
अभिमन्युः स्थितो राजन्विधूमोऽग्निरिव ज्वलन्
न चैनं तावकाः सर्वे विषेहुररिघातिनम्
प्रदीप्तं पावकं यद्वत्पतंगाः कालचोदिताः
प्रहरन्सर्वशत्रुभ्यः पाण्डवानां महारथः
अदृश्यत महेष्वासः सवज्र इव वज्रभृत्
हेमपृष्ठं धनुश्चास्य ददृशे चरतो दिशः
तोयदेषु यथा राजन्भ्राजमानाः शतह्रदाः
शराश्च निशिताः पीता निश्चरन्ति स्म संयुगे
वनात्फुल्लद्रुमाद्राजन्भ्रमराणामिव व्रजाः
तथैव चरतस्तस्य सौभद्रस्य महात्मनः
रथेन मेघघोषेण ददृशुर्नान्तरं जनाः
मोहयित्वा कृपं द्रोणं द्रौणिं च स बृहद्बलम्
सैन्धवं च महेष्वासं व्यचरल्लघु सुष्ठु च
मण्डलीकृतमेवास्य धनुः पश्याम मारिष
सूर्यमण्डलसंकाशं तपतस्तव वाहिनीम्
तं दृष्ट्वा क्षत्रियाः शूराः प्रतपन्तं शरार्चिभिः
द्विफल्गुनमिमं लोकं मेनिरे तस्य कर्मभिः
तेनार्दिता महाराज भारती सा महाचमूः
बभ्राम तत्र तत्रैव योषिन्मदवशादिव
द्रावयित्वा च तत्सैन्यं कम्पयित्वा महारथान्
नन्दयामास सुहृदो मयं जित्वेव वासवः
तेन विद्राव्यमाणानि तव सैन्यानि संयुगे
चक्रुरार्तस्वरं घोरं पर्जन्यनिनदोपमम्
तं श्रुत्वा निनदं घोरं तव सैन्यस्य मारिष
मारुतोद्धूतवेगस्य समुद्रस्येव पर्वणि
दुर्योधनस्तदा राजा आर्श्यशृङ्गिमभाषत
एष कार्ष्णिर्महेष्वासो द्वितीय इव फल्गुनः
चमूं द्रावयते क्रोधाद्वृत्रो देवचमूमिव
तस्य नान्यं प्रपश्यामि संयुगे भेषजं महत्
ऋते त्वां राक्षसश्रेष्ठ सर्वविद्यासु पारगम्
स गत्वा त्वरितं वीरं जहि सौभद्रमाहवे
वयं पार्थान्हनिष्यामो भीष्मद्रोणपुरःसराः
स एवमुक्तो बलवान्राक्षसेन्द्रः प्रतापवान्
प्रययौ समरे तूर्णं तव पुत्रस्य शासनात्
नर्दमानो महानादं प्रावृषीव बलाहकः
तस्य शब्देन महता पाण्डवानां महद्बलम्
प्राचलत्सर्वतो राजन्पूर्यमाण इवार्णवः
बहवश्च नरा राजंस्तस्य नादेन भीषिताः
प्रियान्प्राणान्परित्यज्य निपेतुर्धरणीतले
कार्ष्णिश्चापि मुदा युक्तः प्रगृहीतशरासनः
नृत्यन्निव रथोपस्थे तद्रक्षः समुपाद्रवत्
ततः स राक्षसः क्रुद्धः संप्राप्यैवार्जुनिं रणे
नातिदूरे स्थितस्तस्य द्रावयामास वै चमूम्
सा वध्यमाना समरे पाण्डवानां महाचमूः
प्रत्युद्ययौ रणे रक्षो देवसेना यथा बलिम्