Mahabharata

Bhishma Parva, Adhyaya 94

Containing 20 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Bhishma Parva, Adhyaya 94, Verse 1

वाक्शल्यैस्तव पुत्रेण सोऽतिविद्धः पितामहः

दुःखेन महताविष्टो नोवाचाप्रियमण्वपि

Mahabharata

Bhishma Parva, Adhyaya 94, Verse 2

स ध्यात्वा सुचिरं कालं दुःखरोषसमन्वितः

श्वसमानो यथा नागः प्रणुन्नो वै शलाकया

Mahabharata

Bhishma Parva, Adhyaya 94, Verse 3

उद्वृत्य चक्षुषी कोपान्निर्दहन्निव भारत

सदेवासुरगन्धर्वं लोकं लोकविदां वरः

अब्रवीत्तव पुत्रं तु सामपूर्वमिदं वचः

Mahabharata

Bhishma Parva, Adhyaya 94, Verse 4

किं नु दुर्योधनैवं मां वाक्शल्यैरुपविध्यसि

घटमानं यथाशक्ति कुर्वाणं च तव प्रियम्

जुह्वानं समरे प्राणांस्तवैव हितकाम्यया

Mahabharata

Bhishma Parva, Adhyaya 94, Verse 5

यदा तु पाण्डवः शूरः खाण्डवेऽग्निमतर्पयत्

पराजित्य रणे शक्रं पर्याप्तं तन्निदर्शनम्

Mahabharata

Bhishma Parva, Adhyaya 94, Verse 6

यदा च त्वां महाबाहो गन्धर्वैर्हृतमोजसा

अमोचयत्पाण्डुसुतः पर्याप्तं तन्निदर्शनम्

Mahabharata

Bhishma Parva, Adhyaya 94, Verse 7

द्रवमाणेषु शूरेषु सोदरेषु तथाभिभो

सूतपुत्रे च राधेये पर्याप्तं तन्निदर्शनम्

Mahabharata

Bhishma Parva, Adhyaya 94, Verse 8

यच्च नः सहितान्सर्वान्विराटनगरे तदा

एक एव समुद्यातः पर्याप्तं तन्निदर्शनम्

Mahabharata

Bhishma Parva, Adhyaya 94, Verse 9

द्रोणं च युधि संरब्धं मां च निर्जित्य संयुगे

कर्णं च त्वां च द्रौणिं च कृपं च सुमहारथम्

वासांसि स समादत्त पर्याप्तं तन्निदर्शनम्

Mahabharata

Bhishma Parva, Adhyaya 94, Verse 10

निवातकवचान्युद्धे वासवेनापि दुर्जयान्

जितवान्समरे पार्थः पर्याप्तं तन्निदर्शनम्

Mahabharata

Bhishma Parva, Adhyaya 94, Verse 11

को हि शक्तो रणे जेतुं पाण्डवं रभसं रणे

त्वं तु मोहान्न जानीषे वाच्यावाच्यं सुयोधन

Mahabharata

Bhishma Parva, Adhyaya 94, Verse 12

मुमूर्षुर्हि नरः सर्वान्वृक्षान्पश्यति काञ्चनान्

तथा त्वमपि गान्धारे विपरीतानि पश्यसि

Mahabharata

Bhishma Parva, Adhyaya 94, Verse 13

स्वयं वैरं महत्कृत्वा पाण्डवैः सहसृञ्जयैः

युध्यस्व तानद्य रणे पश्यामः पुरुषो भव

Mahabharata

Bhishma Parva, Adhyaya 94, Verse 14

अहं तु सोमकान्सर्वान्सपाञ्चालान्समागतान्

निहनिष्ये नरव्याघ्र वर्जयित्वा शिखण्डिनम्

Mahabharata

Bhishma Parva, Adhyaya 94, Verse 15

तैर्वाहं निहतः संख्ये गमिष्ये यमसादनम्

तान्वा निहत्य संग्रामे प्रीतिं दास्यामि वै तव

Mahabharata

Bhishma Parva, Adhyaya 94, Verse 16

पूर्वं हि स्त्री समुत्पन्ना शिखण्डी राजवेश्मनि

वरदानात्पुमाञ्जातः सैषा वै स्त्री शिखण्डिनी

Mahabharata

Bhishma Parva, Adhyaya 94, Verse 17

तामहं न हनिष्यामि प्राणत्यागेऽपि भारत

यासौ प्राङ्निर्मिता धात्रा सैषा वै स्त्री शिखण्डिनी

Mahabharata

Bhishma Parva, Adhyaya 94, Verse 18

सुखं स्वपिहि गान्धारे श्वोऽस्मि कर्ता महारणम्

यज्जनाः कथयिष्यन्ति यावत्स्थास्यति मेदिनी

Mahabharata

Bhishma Parva, Adhyaya 94, Verse 19

एवमुक्तस्तव सुतो निर्जगाम जनेश्वर

अभिवाद्य गुरुं मूर्ध्ना प्रययौ स्वं निवेशनम्

Mahabharata

Bhishma Parva, Adhyaya 94, Verse 20

आगम्य तु ततो राजा विसृज्य च महाजनम्

प्रविवेश ततस्तूर्णं क्षयं शत्रुक्षयंकरः

प्रविष्टः स निशां तां च गमयामास पार्थिवः