Mahabharata

Bhishma Parva, Adhyaya 93

Containing 41 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Bhishma Parva, Adhyaya 93, Verse 1

ततो दुर्योधनो राजा शकुनिश्चापि सौबलः

दुःशासनश्च पुत्रस्ते सूतपुत्रश्च दुर्जयः

Mahabharata

Bhishma Parva, Adhyaya 93, Verse 2

समागम्य महाराज मन्त्रं चक्रूर्विवक्षितम्

कथं पाण्डुसुता युद्धे जेतव्याः सगणा इति

Mahabharata

Bhishma Parva, Adhyaya 93, Verse 3

ततो दुर्योधनो राजा सर्वांस्तानाह मन्त्रिणः

सूतपुत्रं समाभाष्य सौबलं च महाबलम्

Mahabharata

Bhishma Parva, Adhyaya 93, Verse 4

द्रोणो भीष्मः कृपः शल्यः सौमदत्तिश्च संयुगे

न पार्थान्प्रतिबाधन्ते न जाने तत्र कारणम्

Mahabharata

Bhishma Parva, Adhyaya 93, Verse 5

अवध्यमानास्ते चापि क्षपयन्ति बलं मम

सोऽस्मि क्षीणबलः कर्ण क्षीणशस्त्रश्च संयुगे

Mahabharata

Bhishma Parva, Adhyaya 93, Verse 6

निकृतः पाण्डवैः शूरैरवध्यैर्दैवतैरपि

सोऽहं संशयमापन्नः प्रकरिष्ये कथं रणम्

Mahabharata

Bhishma Parva, Adhyaya 93, Verse 7

तमब्रवीन्महाराज सूतपुत्रो नराधिपम्

मा शुचो भरतश्रेष्ठ प्रकरिष्ये प्रियं तव

Mahabharata

Bhishma Parva, Adhyaya 93, Verse 8

भीष्मः शांतनवस्तूर्णमपयातु महारणात्

निवृत्ते युधि गाङ्गेये न्यस्तशस्त्रे च भारत

Mahabharata

Bhishma Parva, Adhyaya 93, Verse 9

अहं पार्थान्हनिष्यामि सहितान्सर्वसोमकैः

पश्यतो युधि भीष्मस्य शपे सत्येन ते नृप

Mahabharata

Bhishma Parva, Adhyaya 93, Verse 10

पाण्डवेषु दयां राजन्सदा भीष्मः करोति वै

अशक्तश्च रणे भीष्मो जेतुमेतान्महारथान्

Mahabharata

Bhishma Parva, Adhyaya 93, Verse 11

अभिमानी रणे भीष्मो नित्यं चापि रणप्रियः

स कथं पाण्डवान्युद्धे जेष्यते तात संगतान्

Mahabharata

Bhishma Parva, Adhyaya 93, Verse 12

स त्वं शीघ्रमितो गत्वा भीष्मस्य शिबिरं प्रति

अनुमान्य रणे भीष्मं शस्त्रं न्यासय भारत

Mahabharata

Bhishma Parva, Adhyaya 93, Verse 13

न्यस्तशस्त्रे ततो भीष्मे निहतान्पश्य पाण्डवान्

मयैकेन रणे राजन्ससुहृद्गणबान्धवान्

Mahabharata

Bhishma Parva, Adhyaya 93, Verse 14

एवमुक्तस्तु कर्णेन पुत्रो दुर्योधनस्तव

अब्रवीद्भ्रातरं तत्र दुःशासनमिदं वचः

Mahabharata

Bhishma Parva, Adhyaya 93, Verse 15

अनुयात्रं यथा सज्जं सर्वं भवति सर्वतः

दुःशासन तथा क्षिप्रं सर्वमेवोपपादय

Mahabharata

Bhishma Parva, Adhyaya 93, Verse 16

एवमुक्त्वा ततो राजन्कर्णमाह जनेश्वरः

अनुमान्य रणे भीष्ममितोऽहं द्विपदां वरम्

Mahabharata

Bhishma Parva, Adhyaya 93, Verse 17

आगमिष्ये ततः क्षिप्रं त्वत्सकाशमरिंदम

ततस्त्वं पुरुषव्याघ्र प्रकरिष्यसि संयुगम्

Mahabharata

Bhishma Parva, Adhyaya 93, Verse 18

निष्पपात ततस्तूर्णं पुत्रस्तव विशां पते

सहितो भ्रातृभिः सर्वैर्देवैरिव शतक्रतुः

Mahabharata

Bhishma Parva, Adhyaya 93, Verse 19

ततस्तं नृपशार्दूलं शार्दूलसमविक्रमम्

आरोहयद्धयं तूर्णं भ्राता दुःशासनस्तदा

Mahabharata

Bhishma Parva, Adhyaya 93, Verse 20

अङ्गदी बद्धमुकुटो हस्ताभरणवान्नृपः

धार्तराष्ट्रो महाराज विबभौ स महेन्द्रवत्

Mahabharata

Bhishma Parva, Adhyaya 93, Verse 21

भाण्डीपुष्पनिकाशेन तपनीयनिभेन च

अनुलिप्तः परार्ध्येन चन्दनेन सुगन्धिना

Mahabharata

Bhishma Parva, Adhyaya 93, Verse 22

अरजोम्बरसंवीतः सिंहखेलगतिर्नृपः

शुशुभे विमलार्चिष्मञ्शरदीव दिवाकरः

Mahabharata

Bhishma Parva, Adhyaya 93, Verse 23

तं प्रयान्तं नरव्याघ्रं भीष्मस्य शिबिरं प्रति

अनुजग्मुर्महेष्वासाः सर्वलोकस्य धन्विनः

भ्रातरश्च महेष्वासास्त्रिदशा इव वासवम्

Mahabharata

Bhishma Parva, Adhyaya 93, Verse 24

हयानन्ये समारुह्य गजानन्ये च भारत

रथैरन्ये नरश्रेष्ठाः परिवव्रुः समन्ततः

Mahabharata

Bhishma Parva, Adhyaya 93, Verse 25

आत्तशस्त्राश्च सुहृदो रक्षणार्थं महीपतेः

प्रादुर्बभूवुः सहिताः शक्रस्येवामरा दिवि

Mahabharata

Bhishma Parva, Adhyaya 93, Verse 26

संपूज्यमानः कुरुभिः कौरवाणां महारथः

प्रययौ सदनं राजन्गाङ्गेयस्य यशस्विनः

अन्वीयमानः सहितैः सोदरैः सर्वतो नृपः

Mahabharata

Bhishma Parva, Adhyaya 93, Verse 27

दक्षिणं दक्षिणः काले संभृत्य स्वभुजं तदा

हस्तिहस्तोपमं शैक्षं सर्वशत्रुनिबर्हणम्

Mahabharata

Bhishma Parva, Adhyaya 93, Verse 28

प्रगृह्णन्नञ्जलीन्नॄणामुद्यतान्सर्वतोदिशम्

शुश्राव मधुरा वाचो नानादेशनिवासिनाम्

Mahabharata

Bhishma Parva, Adhyaya 93, Verse 29

संस्तूयमानः सूतैश्च मागधैश्च महायशाः

पूजयानश्च तान्सर्वान्सर्वलोकेश्वरेश्वरः

Mahabharata

Bhishma Parva, Adhyaya 93, Verse 30

प्रदीपैः काञ्चनैस्तत्र गन्धतैलावसेचनैः

परिवव्रुर्महात्मानं प्रज्वलद्भिः समन्ततः