Bhishma Parva, Adhyaya 92, Verse 1
पुत्रं तु निहतं श्रुत्वा इरावन्तं धनंजयः
दुःखेन महताविष्टो निःश्वसन्पन्नगो यथा
Containing 79 sacred Sanskrit shlokas with multi-author commentaries and translations.
पुत्रं तु निहतं श्रुत्वा इरावन्तं धनंजयः
दुःखेन महताविष्टो निःश्वसन्पन्नगो यथा
अब्रवीत्समरे राजन्वासुदेवमिदं वचः
इदं नूनं महाप्राज्ञो विदुरो दृष्टवान्पुरा
कुरूणां पाण्डवानां च क्षयं घोरं महामतिः
ततो निवारयितवान्धृतराष्ट्रं जनेश्वरम्
अवध्या बहवो वीराः संग्रामे मधुसूदन
निहताः कौरवैः संख्ये तथास्माभिश्च ते हताः
अर्थहेतोर्नरश्रेष्ठ क्रियते कर्म कुत्सितम्
धिगर्थान्यत्कृते ह्येवं क्रियते ज्ञातिसंक्षयः
अधनस्य मृतं श्रेयो न च ज्ञातिवधाद्धनम्
किं नु प्राप्स्यामहे कृष्ण हत्वा ज्ञातीन्समागतान्
दुर्योधनापराधेन शकुनेः सौबलस्य च
क्षत्रिया निधनं यान्ति कर्णदुर्मन्त्रितेन च
इदानीं च विजानामि सुकृतं मधुसूदन
कृतं राज्ञा महाबाहो याचता स्म सुयोधनम्
राज्यार्धं पञ्च वा ग्रामान्नाकार्षीत्स च दुर्मतिः
दृष्ट्वा हि क्षत्रियाञ्शूराञ्शयानान्धरणीतले
निन्दामि भृशमात्मानं धिगस्तु क्षत्रजीविकाम्
अशक्तमिति मामेते ज्ञास्यन्ति क्षत्रिया रणे
युद्धं ममैभिरुचितं ज्ञातिभिर्मधुसूदन
संचोदय हयान्क्षिप्रं धार्तराष्ट्रचमूं प्रति
प्रतरिष्ये महापारं भुजाभ्यां समरोदधिम्
नायं क्लीबयितुं कालो विद्यते माधव क्वचित्
एवमुक्तस्तु पार्थेन केशवः परवीरहा
चोदयामास तानश्वान्पाण्डुरान्वातरंहसः
अथ शब्दो महानासीत्तव सैन्यस्य भारत
मारुतोद्धूतवेगस्य सागरस्येव पर्वणि
अपराह्णे महाराज संग्रामः समपद्यत
पर्जन्यसमनिर्घोषो भीष्मस्य सह पाण्डवैः
ततो राजंस्तव सुता भीमसेनमुपाद्रवन्
परिवार्य रणे द्रोणं वसवो वासवं यथा
ततः शांतनवो भीष्मः कृपश्च रथिनां वरः
भगदत्तः सुशर्मा च धनंजयमुपाद्रवन्
हार्दिक्यो बाह्लिकश्चैव सात्यकिं समभिद्रुतौ
अम्बष्ठकस्तु नृपतिरभिमन्युमवारयत्
शेषास्त्वन्ये महाराज शेषानेव महारथान्
ततः प्रववृते युद्धं घोररूपं भयावहम्
भीमसेनस्तु संप्रेक्ष्य पुत्रांस्तव जनेश्वर
प्रजज्वाल रणे क्रुद्धो हविषा हव्यवाडिव
पुत्रास्तु तव कौन्तेयं छादयां चक्रिरे शरैः
प्रावृषीव महाराज जलदाः पर्वतं यथा
स च्छाद्यमानो बहुधा पुत्रैस्तव विशां पते
सृक्किणी विलिहन्वीरः शार्दूल इव दर्पितः
व्यूढोरस्कं ततो भीमः पातयामास पार्थिव
क्षुरप्रेण सुतीक्ष्णेन सोऽभवद्गतजीवितः
अपरेण तु भल्लेन पीतेन निशितेन च
अपातयत्कुण्डलिनं सिंहः क्षुद्रमृगं यथा
ततः सुनिशितान्पीतान्समादत्त शिलीमुखान्
स सप्त त्वरया युक्तः पुत्रांस्ते प्राप्य मारिष
प्रेषिता भीमसेनेन शरास्ते दृढधन्वना
अपातयन्त पुत्रांस्ते रथेभ्यः सुमहारथान्
अनाधृष्टिं कुण्डभेदं वैराटं दीर्घलोचनम्
दीर्घबाहुं सुबाहुं च तथैव कनकध्वजम्
प्रपतन्त स्म ते वीरा विरेजुर्भरतर्षभ
वसन्ते पुष्पशबलाश्चूताः प्रपतिता इव
ततः प्रदुद्रुवुः शेषाः पुत्रास्तव विशां पते
तं कालमिव मन्यन्तो भीमसेनं महाबलम्
द्रोणस्तु समरे वीरं निर्दहन्तं सुतांस्तव
यथाद्रिं वारिधाराभिः समन्ताद्व्यकिरच्छरैः
तत्राद्भुतमपश्याम कुन्तीपुत्रस्य पौरुषम्
द्रोणेन वार्यमाणोऽपि निजघ्ने यत्सुतांस्तव