Bhishma Parva, Adhyaya 90, Verse 1
स्वसैन्यं निहतं दृष्ट्वा राजा दुर्योधनः स्वयम्
अभ्यधावत संक्रुद्धो भीमसेनमरिंदमम्
Containing 46 sacred Sanskrit shlokas with multi-author commentaries and translations.
स्वसैन्यं निहतं दृष्ट्वा राजा दुर्योधनः स्वयम्
अभ्यधावत संक्रुद्धो भीमसेनमरिंदमम्
प्रगृह्य सुमहच्चापमिन्द्राशनिसमस्वनम्
महता शरवर्षेण पाण्डवं समवाकिरत्
अर्धचन्द्रं च संधाय सुतीक्ष्णं लोमवाहिनम्
भीमसेनस्य चिच्छेद चापं क्रोधसमन्वितः
तदन्तरं च संप्रेक्ष्य त्वरमाणो महारथः
संदधे निशितं बाणं गिरीणामपि दारणम्
तेनोरसि महाबाहुर्भीमसेनमताडयत्
स गाढविद्धो व्यथितः सृक्किणी परिसंलिहन्
समाललम्बे तेजस्वी ध्वजं हेमपरिष्कृतम्
तथा विमनसं दृष्ट्वा भीमसेनं घटोत्कचः
क्रोधेनाभिप्रजज्वाल दिधक्षन्निव पावकः
अभिमन्युमुखाश्चैव पाण्डवानां महारथाः
समभ्यधावन्क्रोशन्तो राजानं जातसंभ्रमाः
संप्रेक्ष्य तानापततः संक्रुद्धाञ्जातसंभ्रमान्
भारद्वाजोऽब्रवीद्वाक्यं तावकानां महारथान्
क्षिप्रं गच्छत भद्रं वो राजानं परिरक्षत
संशयं परमं प्राप्तं मज्जन्तं व्यसनार्णवे
एते क्रुद्धा महेष्वासाः पाण्डवानां महारथाः
भीमसेनं पुरस्कृत्य दुर्योधनमुपद्रुताः
नानाविधानि शस्त्राणि विसृजन्तो जये रताः
नदन्तो भैरवान्नादांस्त्रासयन्तश्च भूमिमाम्
तदाचार्यवचः श्रुत्वा सोमदत्तपुरोगमाः
तावकाः समवर्तन्त पाण्डवानामनीकिनीम्
कृपो भूरिश्रवाः शल्यो द्रोणपुत्रो विविंशतिः
चित्रसेनो विकर्णश्च सैन्धवोऽथ बृहद्बलः
आवन्त्यौ च महेष्वासौ कौरवं पर्यवारयन्
ते विंशतिपदं गत्वा संप्रहारं प्रचक्रिरे
पाण्डवा धार्तराष्ट्राश्च परस्परजिघांसवः
एवमुक्त्वा महाबाहुर्महद्विस्फार्य कार्मुकम्
भारद्वाजस्ततो भीमं षड्विंशत्या समार्पयत्
भूयश्चैनं महाबाहुः शरैः शीघ्रमवाकिरत्
पर्वतं वारिधाराभिः शरदीव बलाहकः
तं प्रत्यविध्यद्दशभिर्भीमसेनः शिलीमुखैः
त्वरमाणो महेष्वासः सव्ये पार्श्वे महाबलः
स गाढविद्धो व्यथितो वयोवृद्धश्च भारत
प्रनष्टसंज्ञः सहसा रथोपस्थ उपाविशत्
गुरुं प्रव्यथितं दृष्ट्वा राजा दुर्योधनः स्वयम्
द्रौणायनिश्च संक्रुद्धौ भीमसेनमभिद्रुतौ
तावापतन्तौ संप्रेक्ष्य कालान्तकयमोपमौ
भीमसेनो महाबाहुर्गदामादाय सत्वरः
अवप्लुत्य रथात्तूर्णं तस्थौ गिरिरिवाचलः
समुद्यम्य गदां गुर्वीं यमदण्डोपमां रणे
तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम्
कौरवो द्रोणपुत्रश्च सहितावभ्यधावताम्
तावापतन्तौ सहितौ त्वरितौ बलिनां वरौ
अभ्यधावत वेगेन त्वरमाणो वृकोदरः
तमापतन्तं संप्रेक्ष्य संक्रुद्धं भीमदर्शनम्
समभ्यधावंस्त्वरिताः कौरवाणां महारथाः
भारद्वाजमुखाः सर्वे भीमसेनजिघांसया
नानाविधानि शस्त्राणि भीमस्योरस्यपातयन्
सहिताः पाण्डवं सर्वे पीडयन्तः समन्ततः
तं दृष्ट्वा संशयं प्राप्तं पीड्यमानं महारथम्
अभिमन्युप्रभृतयः पाण्डवानां महारथाः
अभ्यधावन्परीप्सन्तः प्राणांस्त्यक्त्वा सुदुस्त्यजान्
अनूपाधिपतिः शूरो भीमस्य दयितः सखा
नीलो नीलाम्बुदप्रख्यः संक्रुद्धो द्रौणिमभ्ययात्
स्पर्धते हि महेष्वासो नित्यं द्रोणसुतेन यः
स विस्फार्य महच्चापं द्रौणिं विव्याध पत्रिणा
यथा शक्रो महाराज पुरा विव्याध दानवम्
विप्रचित्तिं दुराधर्षं देवतानां भयंकरम्
येन लोकत्रयं क्रोधात्त्रासितं स्वेन तेजसा
तथा नीलेन निर्भिन्नः सुमुखेन पतत्रिणा
संजातरुधिरोत्पीडो द्रौणिः क्रोधसमन्वितः