Bhishma Parva, Adhyaya 89, Verse 1
विमुखीकृत्य तान्सर्वांस्तावकान्युधि राक्षसः
जिघांसुर्भरतश्रेष्ठ दुर्योधनमुपाद्रवत्
Containing 41 sacred Sanskrit shlokas with multi-author commentaries and translations.
विमुखीकृत्य तान्सर्वांस्तावकान्युधि राक्षसः
जिघांसुर्भरतश्रेष्ठ दुर्योधनमुपाद्रवत्
तमापतन्तं संप्रेक्ष्य राजानं प्रति वेगितम्
अभ्यधावञ्जिघांसन्तस्तावका युद्धदुर्मदाः
तालमात्राणि चापानि विकर्षन्तो महाबलाः
तमेकमभ्यधावन्त नदन्तः सिंहसंघवत्
अथैनं शरवर्षेण समन्तात्पर्यवारयन्
पर्वतं वारिधाराभिः शरदीव बलाहकाः
स गाढविद्धो व्यथितस्तोत्त्रार्दित इव द्विपः
उत्पपात तदाकाशं समन्ताद्वैनतेयवत्
व्यनदत्सुमहानादं जीमूत इव शारदः
दिशः खं प्रदिशश्चैव नादयन्भैरवस्वनः
राक्षसस्य तु तं शब्दं श्रुत्वा राजा युधिष्ठिरः
उवाच भरतश्रेष्ठो भीमसेनमिदं वचः
युध्यते राक्षसो नूनं धार्तराष्ट्रैर्महारथैः
यथास्य श्रूयते शब्दो नदतो भैरवं स्वनम्
अतिभारं च पश्यामि तत्र तात समाहितम्
पितामहश्च संक्रुद्धः पाञ्चालान्हन्तुमुद्यतः
तेषां च रक्षणार्थाय युध्यते फल्गुनः परैः
एतच्छ्रुत्वा महाबाहो कार्यद्वयमुपस्थितम्
गच्छ रक्षस्व हैडिम्बं संशयं परमं गतम्
भ्रातुर्वचनमाज्ञाय त्वरमाणो वृकोदरः
प्रययौ सिंहनादेन त्रासयन्सर्वपार्थिवान्
वेगेन महता राजन्पर्वकाले यथोदधिः
तमन्वयात्सत्यधृतिः सौचित्तिर्युद्धदुर्मदः
श्रेणिमान्वसुदानश्च पुत्रः काश्यस्य चाभिभूः
अभिमन्युमुखाश्चैव द्रौपदेया महारथाः
क्षत्रदेवश्च विक्रान्तः क्षत्रधर्मा तथैव च
अनूपाधिपतिश्चैव नीलः स्वबलमास्थितः
महता रथवंशेन हैडिम्बं पर्यवारयन्
कुञ्जरैश्च सदा मत्तैः षट्सहस्रैः प्रहारिभिः
अभ्यरक्षन्त सहिता राक्षसेन्द्रं घटोत्कचम्
सिंहनादेन महता नेमिघोषेण चैव हि
खुरशब्दनिनादैश्च कम्पयन्तो वसुंधराम्
तेषामापततां श्रुत्वा शब्दं तं तावकं बलम्
भीमसेनभयोद्विग्नं विवर्णवदनं तथा
परिवृत्तं महाराज परित्यज्य घटोत्कचम्
ततः प्रववृते युद्धं तत्र तत्र महात्मनाम्
तावकानां परेषां च संग्रामेष्वनिवर्तिनाम्
नानारूपाणि शस्त्राणि विसृजन्तो महारथाः
अन्योन्यमभिधावन्तः संप्रहारं प्रचक्रिरे
व्यतिषक्तं महारौद्रं युद्धं भीरुभयावहम्
हया गजैः समाजग्मुः पादाता रथिभिः सह
अन्योन्यं समरे राजन्प्रार्थयाना महद्यशः
सहसा चाभवत्तीव्रं संनिपातान्महद्रजः
रथाश्वगजपत्तीनां पदनेमिसमुद्धतम्
धूम्रारुणं रजस्तीव्रं रणभूमिं समावृणोत्
नैव स्वे न परे राजन्समजानन्परस्परम्
पिता पुत्रं न जानीते पुत्रो वा पितरं तथा
निर्मर्यादे तथा भूते वैशसे लोमहर्षणे
शस्त्राणां भरतश्रेष्ठ मनुष्याणां च गर्जताम्
सुमहानभवच्छब्दो वंशानामिव दह्यताम्
गजवाजिमनुष्याणां शोणितान्त्रतरङ्गिणी
प्रावर्तत नदी तत्र केशशैवलशाद्वला
नराणां चैव कायेभ्यः शिरसां पततां रणे
शुश्रुवे सुमहाञ्शब्दः पततामश्मनामिव
विशिरस्कैर्मनुष्यैश्च छिन्नगात्रैश्च वारणैः
अश्वैः संभिन्नदेहैश्च संकीर्णाभूद्वसुंधरा
नानाविधानि शस्त्राणि विसृजन्तो महारथाः
अन्योन्यमभिधावन्तः संप्रहारं प्रचक्रिरे
हया हयान्समासाद्य प्रेषिता हयसादिभिः
समाहत्य रणेऽन्योन्यं निपेतुर्गतजीविताः
नरा नरान्समासाद्य क्रोधरक्तेक्षणा भृशम्
उरांस्युरोभिरन्योन्यं समाश्लिष्य निजघ्निरे