Bhishma Parva, Adhyaya 88, Verse 1
ततस्तद्बाणवर्षं तु दुःसहं दानवैरपि
दधार युधि राजेन्द्रो यथा वर्षं महाद्विपः
Containing 38 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततस्तद्बाणवर्षं तु दुःसहं दानवैरपि
दधार युधि राजेन्द्रो यथा वर्षं महाद्विपः
ततः क्रोधसमाविष्टो निःश्वसन्निव पन्नगः
संशयं परमं प्राप्तः पुत्रस्ते भरतर्षभ
मुमोच निशितांस्तीक्ष्णान्नाराचान्पञ्चविंशतिम्
तेऽपतन्सहसा राजंस्तस्मिन्राक्षसपुंगवे
आशीविषा इव क्रुद्धाः पर्वते गन्धमादने
स तैर्विद्धः स्रवन्रक्तं प्रभिन्न इव कुञ्जरः
दध्रे मतिं विनाशाय राज्ञः स पिशिताशनः
जग्राह च महाशक्तिं गिरीणामपि दारणीम्
संप्रदीप्तां महोल्काभामशनीं मघवानिव
समुद्यच्छन्महाबाहुर्जिघांसुस्तनयं तव
तामुद्यतामभिप्रेक्ष्य वङ्गानामधिपस्त्वरन्
कुञ्जरं गिरिसंकाशं राक्षसं प्रत्यचोदयत्
स नागप्रवरेणाजौ बलिना शीघ्रगामिना
यतो दुर्योधनरथस्तं मार्गं प्रत्यपद्यत
रथं च वारयामास कुञ्जरेण सुतस्य ते
मार्गमावारितं दृष्ट्वा राज्ञा वङ्गेन धीमता
घटोत्कचो महाराज क्रोधसंरक्तलोचनः
उद्यतां तां महाशक्तिं तस्मिंश्चिक्षेप वारणे
स तयाभिहतो राजंस्तेन बाहुविमुक्तया
संजातरुधिरोत्पीडः पपात च ममार च
पतत्यथ गजे चापि वङ्गानामीश्वरो बली
जवेन समभिद्रुत्य जगाम धरणीतलम्
दुर्योधनोऽपि संप्रेक्ष्य पातितं वरवारणम्
प्रभग्नं च बलं दृष्ट्वा जगाम परमां व्यथाम्
क्षत्रधर्मं पुरस्कृत्य आत्मनश्चाभिमानिताम्
प्राप्तेऽपक्रमणे राजा तस्थौ गिरिरिवाचलः
संधाय च शितं बाणं कालाग्निसमतेजसम्
मुमोच परमक्रुद्धस्तस्मिन्घोरे निशाचरे
तमापतन्तं संप्रेक्ष्य बाणमिन्द्राशनिप्रभम्
लाघवाद्वञ्चयामास महाकायो घटोत्कचः
भूय एव ननादोग्रः क्रोधसंरक्तलोचनः
त्रासयन्सर्वभूतानि युगान्ते जलदो यथा
तं श्रुत्वा निनदं घोरं तस्य भीष्मस्य रक्षसः
आचार्यमुपसंगम्य भीष्मः शांतनवोऽब्रवीत्
यथैष निनदो घोरः श्रूयते राक्षसेरितः
हैडिम्बो युध्यते नूनं राज्ञा दुर्योधनेन ह
नैष शक्यो हि संग्रामे जेतुं भूतेन केनचित्
तत्र गच्छत भद्रं वो राजानं परिरक्षत
अभिद्रुतं महाभागं राक्षसेन दुरात्मना
एतद्धि परमं कृत्यं सर्वेषां नः परंतपाः
पितामहवचः श्रुत्वा त्वरमाणा महारथाः
उत्तमं जवमास्थाय प्रययुर्यत्र कौरवः
द्रोणश्च सोमदत्तश्च बाह्लिकश्च जयद्रथः
कृपो भूरिश्रवाः शल्यश्चित्रसेनो विविंशतिः
अश्वत्थामा विकर्णश्च आवन्त्यश्च बृहद्बलः
रथाश्चानेकसाहस्रा ये तेषामनुयायिनः
अभिद्रुतं परीप्सन्तः पुत्रं दुर्योधनं तव
तदनीकमनाधृष्यं पालितं लोकसत्तमैः
आततायिनमायान्तं प्रेक्ष्य राक्षससत्तमः
नाकम्पत महाबाहुर्मैनाक इव पर्वतः
प्रगृह्य विपुलं चापं ज्ञातिभिः परिवारितः
शूलमुद्गरहस्तैश्च नानाप्रहरणैरपि
ततः समभवद्युद्धं तुमुलं लोमहर्षणम्
राक्षसानां च मुख्यस्य दुर्योधनबलस्य च
धनुषां कूजतां शब्दः सर्वतस्तुमुलोऽभवत्
अश्रूयत महाराज वंशानां दह्यतामिव
शस्त्राणां पात्यमानानां कवचेषु शरीरिणाम्
शब्दः समभवद्राजन्नद्रीणामिव दीर्यताम्
वीरबाहुविसृष्टानां तोमराणां विशां पते
रूपमासीद्वियत्स्थानां सर्पाणां सर्पतामिव
ततः परमसंक्रुद्धो विस्फार्य सुमहद्धनुः
राक्षसेन्द्रो महाबाहुर्विनदन्भैरवं रवम्
आचार्यस्यार्धचन्द्रेण क्रुद्धश्चिच्छेद कार्मुकम्
सोमदत्तस्य भल्लेन ध्वजमुन्मथ्य चानदत्