Bhishma Parva, Adhyaya 86, Verse 1
वर्तमाने तथा रौद्रे राजन्वीरवरक्षये
शकुनिः सौबलः श्रीमान्पाण्डवान्समुपाद्रवत्
Containing 86 sacred Sanskrit shlokas with multi-author commentaries and translations.
वर्तमाने तथा रौद्रे राजन्वीरवरक्षये
शकुनिः सौबलः श्रीमान्पाण्डवान्समुपाद्रवत्
तथैव सात्वतो राजन्हार्दिक्यः परवीरहा
अभ्यद्रवत संग्रामे पाण्डवानामनीकिनीम्
ततः काम्बोजमुख्यानां नदीजानां च वाजिनाम्
आरट्टानां महीजानां सिन्धुजानां च सर्वशः
वनायुजानां शुभ्राणां तथा पर्वतवासिनाम्
ये चापरे तित्तिरजा जवना वातरंहसः
सुवर्णालंकृतैरेतैर्वर्मवद्भिः सुकल्पितैः
हयैर्वातजवैर्मुख्यैः पाण्डवस्य सुतो बली
अभ्यवर्तत तत्सैन्यं हृष्टरूपः परंतपः
अर्जुनस्याथ दायाद इरावान्नाम वीर्यवान्
सुतायां नागराजस्य जातः पार्थेन धीमता
ऐरावतेन सा दत्ता अनपत्या महात्मना
पत्यौ हते सुपर्णेन कृपणा दीनचेतना
भार्यार्थं तां च जग्राह पार्थः कामवशानुगाम्
एवमेष समुत्पन्नः परक्षेत्रेऽर्जुनात्मजः
स नागलोके संवृद्धो मात्रा च परिरक्षितः
पितृव्येण परित्यक्तः पार्थद्वेषाद्दुरात्मना
रूपवान्वीर्यसंपन्नो गुणवान्सत्यविक्रमः
इन्द्रलोकं जगामाशु श्रुत्वा तत्रार्जुनं गतम्
सोऽभिगम्य महात्मानं पितरं सत्यविक्रमम्
अभ्यवादयदव्यग्रो विनयेन कृताञ्जलिः
इरावानस्मि भद्रं ते पुत्रश्चाहं तवाभिभो
मातुः समागमो यश्च तत्सर्वं प्रत्यवेदयत्
तच्च सर्वं यथावृत्तमनुसस्मार पाण्डवः
परिष्वज्य सुतं चापि सोऽऽत्मनः सदृशं गुणैः
प्रीतिमानभवत्पार्थो देवराजनिवेशने
सोऽर्जुनेन समाज्ञप्तो देवलोके तदा नृप
प्रीतिपूर्वं महाबाहुः स्वकार्यं प्रति भारत
युद्धकाले त्वयास्माकं साह्यं देयमिति प्रभो
बाढमित्येवमुक्त्वा च युद्धकाल उपागतः
कामवर्णजवैरश्वैः संवृतो बहुभिर्नृप
ते हयाः काञ्चनापीडा नानावर्णा मनोजवाः
उत्पेतुः सहसा राजन्हंसा इव महोदधौ
ते त्वदीयान्समासाद्य हयसंघान्महाजवान्
क्रोडैः क्रोडानभिघ्नन्तो घोणाभिश्च परस्परम्
निपेतुः सहसा राजन्सुवेगाभिहता भुवि
निपतद्भिस्तथा तैश्च हयसंघैः परस्परम्
शुश्रुवे दारुणः शब्दः सुपर्णपतने यथा
तथैव च महाराज समेत्यान्योन्यमाहवे
परस्परवधं घोरं चक्रुस्ते हयसादिनः
तस्मिंस्तथा वर्तमाने संकुले तुमुले भृशम्
उभयोरपि संशान्ता हयसंघाः समन्ततः
प्रक्षीणसायकाः शूरा निहताश्वाः श्रमातुराः
विलयं समनुप्राप्तास्तक्षमाणाः परस्परम्
ततः क्षीणे हयानीके किंचिच्छेषे च भारत
सौबलस्यात्मजाः शूरा निर्गता रणमूर्धनि
वायुवेगसमस्पर्शा जवे वायुसमांस्तथा
आरुह्य शीलसंपन्नान्वयःस्थांस्तुरगोत्तमान्
गजो गवाक्षो वृषकश्चर्मवानार्जवः शुकः
षडेते बलसंपन्ना निर्ययुर्महतो बलात्
वार्यमाणाः शकुनिना स्वैश्च योधैर्महाबलैः
संनद्धा युद्धकुशला रौद्ररूपा महाबलाः
तदनीकं महाबाहो भित्त्वा परमदुर्जयम्
बलेन महता युक्ताः स्वर्गाय विजयैषिणः
विविशुस्ते तदा हृष्टा गान्धारा युद्धदुर्मदाः
तान्प्रविष्टांस्तदा दृष्ट्वा इरावानपि वीर्यवान्
अब्रवीत्समरे योधान्विचित्राभरणायुधान्
यथैते धार्तराष्ट्रस्य योधाः सानुगवाहनाः
हन्यन्ते समरे सर्वे तथा नीतिर्विधीयताम्
बाढमित्येवमुक्त्वा ते सर्वे योधा इरावतः
जघ्नुस्ते वै परानीकं दुर्जयं समरे परैः
तदनीकमनीकेन समरे वीक्ष्य पातितम्
अमृष्यमाणास्ते सर्वे सुबलस्यात्मजा रणे
इरावन्तमभिद्रुत्य सर्वतः पर्यवारयन्