Mahabharata

Bhishma Parva, Adhyaya 85

Containing 36 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Bhishma Parva, Adhyaya 85, Verse 1

दृष्ट्वा मम हतान्पुत्रान्बहूनेकेन संजय

भीष्मो द्रोणः कृपश्चैव किमकुर्वत संयुगे

Mahabharata

Bhishma Parva, Adhyaya 85, Verse 2

अहन्यहनि मे पुत्राः क्षयं गच्छन्ति संजय

मन्येऽहं सर्वथा सूत दैवेनोपहता भृशम्

Mahabharata

Bhishma Parva, Adhyaya 85, Verse 3

यत्र मे तनयाः सर्वे जीयन्ते न जयन्त्युत

यत्र भीष्मस्य द्रोणस्य कृपस्य च महात्मनः

Mahabharata

Bhishma Parva, Adhyaya 85, Verse 4

सौमदत्तेश्च वीरस्य भगदत्तस्य चोभयोः

अश्वत्थाम्नस्तथा तात शूराणां सुमहात्मनाम्

Mahabharata

Bhishma Parva, Adhyaya 85, Verse 5

अन्येषां चैव वीराणां मध्यगास्तनया मम

यदहन्यन्त संग्रामे किमन्यद्भागधेयतः

Mahabharata

Bhishma Parva, Adhyaya 85, Verse 6

न हि दुर्योधनो मन्दः पुरा प्रोक्तमबुध्यत

वार्यमाणो मया तात भीष्मेण विदुरेण च

Mahabharata

Bhishma Parva, Adhyaya 85, Verse 7

गान्धार्या चैव दुर्मेधाः सततं हितकाम्यया

नावबुध्यत्पुरा मोहात्तस्य प्राप्तमिदं फलम्

Mahabharata

Bhishma Parva, Adhyaya 85, Verse 8

यद्भीमसेनः समरे पुत्रान्मम विचेतसः

अहन्यहनि संक्रुद्धो नयते यमसादनम्

Mahabharata

Bhishma Parva, Adhyaya 85, Verse 9

इदं तत्समनुप्राप्तं क्षत्तुर्वचनमुत्तमम्

न बुद्धवानसि विभो प्रोच्यमानं हितं तदा

Mahabharata

Bhishma Parva, Adhyaya 85, Verse 10

निवारय सुतान्द्यूतात्पाण्डवान्मा द्रुहेति च

सुहृदां हितकामानां ब्रुवतां तत्तदेव च

Mahabharata

Bhishma Parva, Adhyaya 85, Verse 11

न शुश्रूषसि यद्वाक्यं मर्त्यः पथ्यमिवौषधम्

तदेव त्वामनुप्राप्तं वचनं साधु भाषितम्

Mahabharata

Bhishma Parva, Adhyaya 85, Verse 12

विदुरद्रोणभीष्माणां तथान्येषां हितैषिणाम्

अकृत्वा वचनं पथ्यं क्षयं गच्छन्ति कौरवाः

Mahabharata

Bhishma Parva, Adhyaya 85, Verse 13

तदेतत्समतिक्रान्तं पूर्वमेव विशां पते

तस्मान्मे शृणु तत्त्वेन यथा युद्धमवर्तत

Mahabharata

Bhishma Parva, Adhyaya 85, Verse 14

मध्याह्ने सुमहारौद्रः संग्रामः समपद्यत

लोकक्षयकरो राजंस्तन्मे निगदतः शृणु

Mahabharata

Bhishma Parva, Adhyaya 85, Verse 15

ततः सर्वाणि सैन्यानि धर्मपुत्रस्य शासनात्

संरब्धान्यभ्यधावन्त भीष्ममेव जिघांसया

Mahabharata

Bhishma Parva, Adhyaya 85, Verse 16

धृष्टद्युम्नः शिखण्डी च सात्यकिश्च महारथः

युक्तानीका महाराज भीष्ममेव समभ्ययुः

Mahabharata

Bhishma Parva, Adhyaya 85, Verse 17

अर्जुनो द्रौपदेयाश्च चेकितानश्च संयुगे

दुर्योधनसमादिष्टान्राज्ञः सर्वान्समभ्ययुः

Mahabharata

Bhishma Parva, Adhyaya 85, Verse 18

अभिमन्युस्तथा वीरो हैडिम्बश्च महारथः

भीमसेनश्च संक्रुद्धस्तेऽभ्यधावन्त कौरवान्

Mahabharata

Bhishma Parva, Adhyaya 85, Verse 19

त्रिधाभूतैरवध्यन्त पाण्डवैः कौरवा युधि

तथैव कौरवे राजन्नवध्यन्त परे रणे

Mahabharata

Bhishma Parva, Adhyaya 85, Verse 20

द्रोणस्तु रथिनां श्रेष्ठः सोमकान्सृञ्जयैः सह

अभ्यद्रवत संक्रुद्धः प्रेषयिष्यन्यमक्षयम्

Mahabharata

Bhishma Parva, Adhyaya 85, Verse 21

तत्राक्रन्दो महानासीत्सृञ्जयानां महात्मनाम्

वध्यतां समरे राजन्भारद्वाजेन धन्विना

Mahabharata

Bhishma Parva, Adhyaya 85, Verse 22

द्रोणेन निहतास्तत्र क्षत्रिया बहवो रणे

विवेष्टन्तः स्म दृश्यन्ते व्याधिक्लिष्टा नरा इव

Mahabharata

Bhishma Parva, Adhyaya 85, Verse 23

कूजतां क्रन्दतां चैव स्तनतां चैव संयुगे

अनिशं श्रूयते शब्दः क्षुत्कृशानां नृणामिव

Mahabharata

Bhishma Parva, Adhyaya 85, Verse 24

तथैव कौरवेयाणां भीमसेनो महाबलः

चकार कदनं घोरं क्रुद्धः काल इवापरः

Mahabharata

Bhishma Parva, Adhyaya 85, Verse 25

वध्यतां तत्र सैन्यानामन्योन्येन महारणे

प्रावर्तत नदी घोरा रुधिरौघप्रवाहिनी

Mahabharata

Bhishma Parva, Adhyaya 85, Verse 26

स संग्रामो महाराज घोररूपोऽभवन्महान्

कुरूणां पाण्डवानां च यमराष्ट्रविवर्धनः

Mahabharata

Bhishma Parva, Adhyaya 85, Verse 27

ततो भीमो रणे क्रुद्धो रभसश्च विशेषतः

गजानीकं समासाद्य प्रेषयामास मृत्यवे

Mahabharata

Bhishma Parva, Adhyaya 85, Verse 28

तत्र भारत भीमेन नाराचाभिहता गजाः

पेतुः सेदुश्च नेदुश्च दिशश्च परिबभ्रमुः

Mahabharata

Bhishma Parva, Adhyaya 85, Verse 29

छिन्नहस्ता महानागाश्छिन्नपादाश्च मारिष

क्रौञ्चवद्व्यनदन्भीताः पृथिवीमधिशिश्यिरे

Mahabharata

Bhishma Parva, Adhyaya 85, Verse 30

नकुलः सहदेवश्च हयानीकमभिद्रुतौ

ते हयाः काञ्चनापीडा रुक्मभाण्डपरिच्छदाः

वध्यमाना व्यदृश्यन्त शतशोऽथ सहस्रशः