Mahabharata

Bhishma Parva, Adhyaya 83

Containing 39 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Bhishma Parva, Adhyaya 83, Verse 1

परिणाम्य निशां तां तु सुखसुप्ता जनेश्वराः

कुरवः पाण्डवाश्चैव पुनर्युद्धाय निर्ययुः

Mahabharata

Bhishma Parva, Adhyaya 83, Verse 2

ततः शब्दो महानासीत्सेनयोरुभयोरपि

निर्गच्छमानयोः संख्ये सागरप्रतिमो महान्

Mahabharata

Bhishma Parva, Adhyaya 83, Verse 3

ततो दुर्योधनो राजा चित्रसेनो विविंशतिः

भीष्मश्च रथिनां श्रेष्ठो भारद्वाजश्च वै द्विजः

Mahabharata

Bhishma Parva, Adhyaya 83, Verse 4

एकीभूताः सुसंयत्ताः कौरवाणां महाचमूः

व्यूहाय विदधू राजन्पाण्डवान्प्रति दंशिताः

Mahabharata

Bhishma Parva, Adhyaya 83, Verse 5

भीष्मः कृत्वा महाव्यूहं पिता तव विशां पते

सागरप्रतिमं घोरं वाहनोर्मितरङ्गिणम्

Mahabharata

Bhishma Parva, Adhyaya 83, Verse 6

अग्रतः सर्वसैन्यानां भीष्मः शांतनवो ययौ

मालवैर्दाक्षिणात्यैश्च आवन्त्यैश्च समन्वितः

Mahabharata

Bhishma Parva, Adhyaya 83, Verse 7

ततोऽनन्तरमेवासीद्भारद्वाजः प्रतापवान्

पुलिन्दैः पारदैश्चैव तथा क्षुद्रकमालवैः

Mahabharata

Bhishma Parva, Adhyaya 83, Verse 8

द्रोणादनन्तरं यत्तो भगदत्तः प्रतापवान्

मागधैश्च कलिङ्गैश्च पिशाचैश्च विशां पते

Mahabharata

Bhishma Parva, Adhyaya 83, Verse 9

प्राग्ज्योतिषादनु नृपः कौसल्योऽथ बृहद्बलः

मेकलैस्त्रैपुरैश्चैव चिच्छिलैश्च समन्वितः

Mahabharata

Bhishma Parva, Adhyaya 83, Verse 10

बृहद्बलात्ततः शूरस्त्रिगर्तः प्रस्थलाधिपः

काम्बोजैर्बहुभिः सार्धं यवनैश्च सहस्रशः

Mahabharata

Bhishma Parva, Adhyaya 83, Verse 11

द्रौणिस्तु रभसः शूरस्त्रिगर्तादनु भारत

प्रययौ सिंहनादेन नादयानो धरातलम्

Mahabharata

Bhishma Parva, Adhyaya 83, Verse 12

तथा सर्वेण सैन्येन राजा दुर्योधनस्तदा

द्रौणेरनन्तरं प्रायात्सोदर्यैः परिवारितः

Mahabharata

Bhishma Parva, Adhyaya 83, Verse 13

दुर्योधनादनु कृपस्ततः शारद्वतो ययौ

एवमेष महाव्यूहः प्रययौ सागरोपमः

Mahabharata

Bhishma Parva, Adhyaya 83, Verse 14

रेजुस्तत्र पताकाश्च श्वेतच्छत्राणि चाभिभो

अङ्गदान्यथ चित्राणि महार्हाणि धनूंषि च

Mahabharata

Bhishma Parva, Adhyaya 83, Verse 15

तं तु दृष्ट्वा महाव्यूहं तावकानां महारथः

युधिष्ठिरोऽब्रवीत्तूर्णं पार्षतं पृतनापतिम्

Mahabharata

Bhishma Parva, Adhyaya 83, Verse 16

पश्य व्यूहं महेष्वास निर्मितं सागरोपमम्

प्रतिव्यूहं त्वमपि हि कुरु पार्षत माचिरम्

Mahabharata

Bhishma Parva, Adhyaya 83, Verse 17

ततः स पार्षतः शूरो व्यूहं चक्रे सुदारुणम्

शृङ्गाटकं महाराज परव्यूहविनाशनम्

Mahabharata

Bhishma Parva, Adhyaya 83, Verse 18

शृङ्गेभ्यो भीमसेनश्च सात्यकिश्च महारथः

रथैरनेकसाहस्रैस्तथा हयपदातिभिः

Mahabharata

Bhishma Parva, Adhyaya 83, Verse 19

नाभ्यामभून्नरश्रेष्ठः श्वेताश्वो वानरध्वजः

मध्ये युधिष्ठिरो राजा माद्रीपुत्रौ च पाण्डवौ

Mahabharata

Bhishma Parva, Adhyaya 83, Verse 20

अथेतरे महेष्वासाः सहसैन्या नराधिपाः

व्यूहं तं पूरयामासुर्व्यूहशास्त्रविशारदाः

Mahabharata

Bhishma Parva, Adhyaya 83, Verse 21

अभिमन्युस्ततः पश्चाद्विराटश्च महारथः

द्रौपदेयाश्च संहृष्टा राक्षसश्च घटोत्कचः

Mahabharata

Bhishma Parva, Adhyaya 83, Verse 22

एवमेतं महाव्यूहं व्यूह्य भारत पाण्डवाः

अतिष्ठन्समरे शूरा योद्धुकामा जयैषिणः

Mahabharata

Bhishma Parva, Adhyaya 83, Verse 23

भेरीशब्दाश्च तुमुला विमिश्राः शङ्खनिस्वनैः

क्ष्वेडितास्फोटितोत्क्रुष्टैः सुभीमाः सर्वतोदिशम्

Mahabharata

Bhishma Parva, Adhyaya 83, Verse 24

ततः शूराः समासाद्य समरे ते परस्परम्

नेत्रैरनिमिषै राजन्नवैक्षन्त प्रकोपिताः

Mahabharata

Bhishma Parva, Adhyaya 83, Verse 25

मनोभिस्ते मनुष्येन्द्र पूर्वं योधाः परस्परम्

युद्धाय समवर्तन्त समाहूयेतरेतरम्

Mahabharata

Bhishma Parva, Adhyaya 83, Verse 26

ततः प्रववृते युद्धं घोररूपं भयावहम्

तावकानां परेषां च निघ्नतामितरेतरम्

Mahabharata

Bhishma Parva, Adhyaya 83, Verse 27

नाराचा निशिताः संख्ये संपतन्ति स्म भारत

व्यात्तानना भयकरा उरगा इव संघशः

Mahabharata

Bhishma Parva, Adhyaya 83, Verse 28

निष्पेतुर्विमलाः शक्त्यस्तैलधौताः सुतेजनाः

अम्बुदेभ्यो यथा राजन्भ्राजमानाः शतह्रदाः

Mahabharata

Bhishma Parva, Adhyaya 83, Verse 29

गदाश्च विमलैः पट्टैः पिनद्धाः स्वर्णभूषिताः

पतन्त्यस्तत्र दृश्यन्ते गिरिशृङ्गोपमाः शुभाः

निस्त्रिंशाश्च व्यराजन्त विमलाम्बरसंनिभाः

Mahabharata

Bhishma Parva, Adhyaya 83, Verse 30

आर्षभाणि च चर्माणि शतचन्द्राणि भारत

अशोभन्त रणे राजन्पतमानानि सर्वशः