Bhishma Parva, Adhyaya 79, Verse 1
बहूनीह विचित्राणि द्वैरथानि स्म संजय
पाण्डूनां मामकैः सार्धमश्रौषं तव जल्पतः
Containing 55 sacred Sanskrit shlokas with multi-author commentaries and translations.
बहूनीह विचित्राणि द्वैरथानि स्म संजय
पाण्डूनां मामकैः सार्धमश्रौषं तव जल्पतः
न चैव मामकं कंचिद्धृष्टं शंससि संजय
नित्यं पाण्डुसुतान्हृष्टानभग्नांश्चैव शंससि
जीयमानान्विमनसो मामकान्विगतौजसः
वदसे संयुगे सूत दिष्टमेतदसंशयम्
यथाशक्ति यथोत्साहं युद्धे चेष्टन्ति तावकाः
दर्शयानाः परं शक्त्या पौरुषं पुरुषर्षभ
गङ्गायाः सुरनद्या वै स्वादुभूतं यथोदकम्
महोदधिगुणाभ्यासाल्लवणत्वं निगच्छति
तथा तत्पौरुषं राजंस्तावकानां महात्मनाम्
प्राप्य पाण्डुसुतान्वीरान्व्यर्थं भवति संयुगे
घटमानान्यथाशक्ति कुर्वाणान्कर्म दुष्करम्
न दोषेण कुरुश्रेष्ठ कौरवान्गन्तुमर्हसि
तवापराधात्सुमहान्सपुत्रस्य विशां पते
पृथिव्याः प्रक्षयो घोरो यमराष्ट्रविवर्धनः
आत्मदोषात्समुत्पन्नं शोचितुं नार्हसे नृप
न हि रक्षन्ति राजानः सर्वार्थान्नापि जीवितम्
युद्धे सुकृतिनां लोकानिच्छन्तो वसुधाधिपाः
चमूं विगाह्य युध्यन्ते नित्यं स्वर्गपरायणाः
पूर्वाह्णे तु महाराज प्रावर्तत जनक्षयः
तन्ममैकमना भूत्वा शृणु देवासुरोपमम्
आवन्त्यौ तु महेष्वासौ महात्मानौ महाबलौ
इरावन्तमभिप्रेक्ष्य समेयातां रणोत्कटौ
तेषां प्रववृते युद्धं तुमुलं लोमहर्षणम्
इरावांस्तु सुसंक्रुद्धो भ्रातरौ देवरूपिणौ
विव्याध निशितैस्तूर्णं शरैः संनतपर्वभिः
तावेनं प्रत्यविध्येतां समरे चित्रयोधिनौ
युध्यतां हि तथा राजन्विशेषो न व्यदृश्यत
यततां शत्रुनाशाय कृतप्रतिकृतैषिणाम्
इरावांस्तु ततो राजन्ननुविन्दस्य सायकैः
चतुर्भिश्चतुरो वाहाननयद्यमसादनम्
भल्लाभ्यां च सुतीक्ष्णाभ्यां धनुः केतुं च मारिष
चिच्छेद समरे राजंस्तदद्भुतमिवाभवत्
त्यक्त्वानुविन्दोऽथ रथं विन्दस्य रथमास्थितः
धनुर्गृहीत्वा नवमं भारसाधनमुत्तमम्
तावेकस्थौ रणे वीरावावन्त्यौ रथिनां वरौ
शरान्मुमुचतुस्तूर्णमिरावति महात्मनि
ताभ्यां मुक्ता महावेगाः शराः काञ्चनभूषणाः
दिवाकरपथं प्राप्य छादयामासुरम्बरम्
इरावांस्तु ततः क्रुद्धो भ्रातरौ तौ महारथौ
ववर्ष शरवर्षेण सारथिं चाप्यपातयत्
तस्मिन्निपतिते भूमौ गतसत्त्वेऽथ सारथौ
रथः प्रदुद्राव दिशः समुद्भ्रान्तहयस्ततः
तौ स जित्वा महाराज नागराजसुतासुतः
पौरुषं ख्यापयंस्तूर्णं व्यधमत्तव वाहिनीम्
सा वध्यमाना समरे धार्तराष्ट्री महाचमूः
वेगान्बहुविधांश्चक्रे विषं पीत्वेव मानवः
हैडिम्बो राक्षसेन्द्रस्तु भगदत्तं समाद्रवत्
रथेनादित्यवर्णेन सध्वजेन महाबलः
ततः प्राग्ज्योतिषो राजा नागराजं समास्थितः
यथा वज्रधरः पूर्वं संग्रामे तारकामये
तत्र देवाः सगन्धर्वा ऋषयश्च समागताः
विशेषं न स्म विविदुर्हैडिम्बभगदत्तयोः
यथा सुरपतिः शक्रस्त्रासयामास दानवान्
तथैव समरे राजंस्त्रासयामास पाण्डवान्
तेन विद्राव्यमाणास्ते पाण्डवाः सर्वतोदिशम्
त्रातारं नाभ्यविन्दन्त स्वेष्वनीकेषु भारत
भैमसेनिं रथस्थं तु तत्रापश्याम भारत
शेषा विमनसो भूत्वा प्राद्रवन्त महारथाः
निवृत्तेषु तु पाण्डूनां पुनः सैन्येषु भारत
आसीन्निष्टानको घोरस्तव सैन्येषु संयुगे