Bhishma Parva, Adhyaya 78, Verse 1
तथा प्रवृत्ते संग्रामे निवृत्ते च सुशर्मणि
प्रभग्नेषु च वीरेषु पाण्डवेन महात्मना
Containing 57 sacred Sanskrit shlokas with multi-author commentaries and translations.
तथा प्रवृत्ते संग्रामे निवृत्ते च सुशर्मणि
प्रभग्नेषु च वीरेषु पाण्डवेन महात्मना
क्षुभ्यमाणे बले तूर्णं सागरप्रतिमे तव
प्रत्युद्याते च गाङ्गेये त्वरितं विजयं प्रति
दृष्ट्वा दुर्योधनो राजन्रणे पार्थस्य विक्रमम्
त्वरमाणः समभ्येत्य सर्वांस्तानब्रवीन्नृपान्
तेषां च प्रमुखे शूरं सुशर्माणं महाबलम्
मध्ये सर्वस्य सैन्यस्य भृशं संहर्षयन्वचः
एष भीष्मः शांतनवो योद्धुकामो धनंजयम्
सर्वात्मना कुरुश्रेष्ठस्त्यक्त्वा जीवितमात्मनः
तं प्रयान्तं परानीकं सर्वसैन्येन भारतम्
संयत्ताः समरे सर्वे पालयध्वं पितामहम्
बाढमित्येवमुक्त्वा तु तान्यनीकानि सर्वशः
नरेन्द्राणां महाराज समाजग्मुः पितामहम्
ततः प्रयातः सहसा भीष्मः शांतनवोऽर्जुनम्
रणे भारतमायान्तमाससाद महाबलम्
महाश्वेताश्वयुक्तेन भीमवानरकेतुना
महता मेघनादेन रथेनाति विराजत
समरे सर्वसैन्यानामुपयातं धनंजयम्
अभवत्तुमुलो नादो भयाद्दृष्ट्वा किरीटिनम्
अभीशुहस्तं कृष्णं च दृष्ट्वादित्यमिवापरम्
मध्यंदिनगतं संख्ये न शेकुः प्रतिवीक्षितुम्
तथा शांतनवं भीष्मं श्वेताश्वं श्वेतकार्मुकम्
न शेकुः पाण्डवा द्रष्टुं श्वेतग्रहमिवोदितम्
स सर्वतः परिवृतस्त्रिगर्तैः सुमहात्मभिः
भ्रातृभिस्तव पुत्रैश्च तथान्यैश्च महारथैः
भारद्वाजस्तु समरे मत्स्यं विव्याध पत्रिणा
ध्वजं चास्य शरेणाजौ धनुश्चैकेन चिच्छिदे
तदपास्य धनुश्छिन्नं विराटो वाहिनीपतिः
अन्यदादत्त वेगेन धनुर्भारसहं दृढम्
शरांश्चाशीविषाकाराञ्ज्वलितान्पन्नगानिव
द्रोणं त्रिभिः प्रविव्याध चतुर्भिश्चास्य वाजिनः
ध्वजमेकेन विव्याध सारथिं चास्य पञ्चभिः
धनुरेकेषुणाविध्यत्तत्राक्रुध्यद्द्विजर्षभः
तस्य द्रोणोऽवधीदश्वाञ्शरैः संनतपर्वभिः
अष्टाभिर्भरतश्रेष्ठ सूतमेकेन पत्रिणा
स हताश्वादवप्लुत्य स्यन्दनाद्धतसारथिः
आरुरोह रथं तूर्णं शङ्खस्य रथिनां वरः
ततस्तु तौ पितापुत्रौ भारद्वाजं रथे स्थितौ
महता शरवर्षेण वारयामासतुर्बलात्
भारद्वाजस्ततः क्रुद्धः शरमाशीविषोपमम्
चिक्षेप समरे तूर्णं शङ्खं प्रति जनेश्वर
स तस्य हृदयं भित्त्वा पीत्वा शोणितमाहवे
जगाम धरणिं बाणो लोहितार्द्रीकृतच्छविः
स पपात रथात्तूर्णं भारद्वाजशराहतः
धनुस्त्यक्त्वा शरांश्चैव पितुरेव समीपतः
हतं स्वमात्मजं दृष्ट्वा विराटः प्राद्रवद्भयात्
उत्सृज्य समरे द्रोणं व्यात्ताननमिवान्तकम्
भारद्वाजस्ततस्तूर्णं पाण्डवानां महाचमूम्
दारयामास समरे शतशोऽथ सहस्रशः
शिखण्ड्यपि महाराज द्रौणिमासाद्य संयुगे
आजघान भ्रुवोर्मध्ये नाराचैस्त्रिभिराशुगैः
स बभौ नरशार्दूलो ललाटे संस्थितैस्त्रिभिः
शिखरैः काञ्चनमयैर्मेरुस्त्रिभिरिवोच्छ्रितैः
अश्वत्थामा ततः क्रुद्धो निमेषार्धाच्छिखण्डिनः
सूतं ध्वजमथो राजंस्तुरगानायुधं तथा
शरैर्बहुभिरुद्दिश्य पातयामास संयुगे
स हताश्वादवप्लुत्य रथाद्वै रथिनां वरः
खड्गमादाय निशितं विमलं च शरावरम्
श्येनवद्व्यचरत्क्रुद्धः शिखण्डी शत्रुतापनः
सखड्गस्य महाराज चरतस्तस्य संयुगे
नान्तरं ददृशे द्रौणिस्तदद्भुतमिवाभवत्
ततः शरसहस्राणि बहूनि भरतर्षभ
प्रेषयामास समरे द्रौणिः परमकोपनः