Mahabharata

Bhishma Parva, Adhyaya 77

Containing 44 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Bhishma Parva, Adhyaya 77, Verse 1

अथात्मजं तव पुनर्गाङ्गेयो ध्यानमास्थितम्

अब्रवीद्भरतश्रेष्ठः संप्रहर्षकरं वचः

Mahabharata

Bhishma Parva, Adhyaya 77, Verse 2

अहं द्रोणश्च शल्यश्च कृतवर्मा च सात्वतः

अश्वत्थामा विकर्णश्च सोमदत्तोऽथ सैन्धवः

Mahabharata

Bhishma Parva, Adhyaya 77, Verse 3

विन्दानुविन्दावावन्त्यौ बाह्लिकः सह बाह्लिकैः

त्रिगर्तराजश्च बली मागधश्च सुदुर्जयः

Mahabharata

Bhishma Parva, Adhyaya 77, Verse 4

बृहद्बलश्च कौसल्यश्चित्रसेनो विविंशतिः

रथाश्च बहुसाहस्राः शोभमाना महाध्वजाः

Mahabharata

Bhishma Parva, Adhyaya 77, Verse 5

देशजाश्च हया राजन्स्वारूढा हयसादिभिः

गजेन्द्राश्च मदोद्वृत्ताः प्रभिन्नकरटामुखाः

Mahabharata

Bhishma Parva, Adhyaya 77, Verse 6

पदाताश्च तथा शूरा नानाप्रहरणायुधाः

नानादेशसमुत्पन्नास्त्वदर्थे योद्धुमुद्यताः

Mahabharata

Bhishma Parva, Adhyaya 77, Verse 7

एते चान्ये च बहवस्त्वदर्थे त्यक्तजीविताः

देवानपि रणे जेतुं समर्था इति मे मतिः

Mahabharata

Bhishma Parva, Adhyaya 77, Verse 8

अवश्यं तु मया राजंस्तव वाच्यं हितं सदा

अशक्याः पाण्डवा जेतुं देवैरपि सवासवैः

वासुदेवसहायाश्च महेन्द्रसमविक्रमाः

Mahabharata

Bhishma Parva, Adhyaya 77, Verse 9

सर्वथाहं तु राजेन्द्र करिष्ये वचनं तव

पाण्डवान्वा रणे जेष्ये मां वा जेष्यन्ति पाण्डवाः

Mahabharata

Bhishma Parva, Adhyaya 77, Verse 10

एवमुक्त्वा ददौ चास्मै विशल्यकरणीं शुभाम्

ओषधीं वीर्यसंपन्नां विशल्यश्चाभवत्तदा

Mahabharata

Bhishma Parva, Adhyaya 77, Verse 11

ततः प्रभाते विमले स्वेनानीकेन वीर्यवान्

अव्यूहत स्वयं व्यूहं भीष्मो व्यूहविशारदः

Mahabharata

Bhishma Parva, Adhyaya 77, Verse 12

मण्डलं मनुजश्रेष्ठ नानाशस्त्रसमाकुलम्

संपूर्णं योधमुख्यैश्च तथा दन्तिपदातिभिः

Mahabharata

Bhishma Parva, Adhyaya 77, Verse 13

रथैरनेकसाहस्रैः समन्तात्परिवारितम्

अश्ववृन्दैर्महद्भिश्च ऋष्टितोमरधारिभिः

Mahabharata

Bhishma Parva, Adhyaya 77, Verse 14

नागे नागे रथाः सप्त सप्त चाश्वा रथे रथे

अन्वश्वं दश धानुष्का धानुष्के सप्त चर्मिणः

Mahabharata

Bhishma Parva, Adhyaya 77, Verse 15

एवंव्यूहं महाराज तव सैन्यं महारथैः

स्थितं रणाय महते भीष्मेण युधि पालितम्

Mahabharata

Bhishma Parva, Adhyaya 77, Verse 16

दशाश्वानां सहस्राणि दन्तिनां च तथैव च

रथानामयुतं चापि पुत्राश्च तव दंशिताः

चित्रसेनादयः शूरा अभ्यरक्षन्पितामहम्

Mahabharata

Bhishma Parva, Adhyaya 77, Verse 17

रक्ष्यमाणश्च तैः शूरैर्गोप्यमानाश्च तेन ते

संनद्धाः समदृश्यन्त राजानश्च महाबलाः

Mahabharata

Bhishma Parva, Adhyaya 77, Verse 18

दुर्योधनस्तु समरे दंशितो रथमास्थितः

व्यभ्राजत श्रिया जुष्टो यथा शक्रस्त्रिविष्टपे

Mahabharata

Bhishma Parva, Adhyaya 77, Verse 19

ततः शब्दो महानासीत्पुत्राणां तव भारत

रथघोषश्च तुमुलो वादित्राणां च निस्वनः

Mahabharata

Bhishma Parva, Adhyaya 77, Verse 20

भीष्मेण धार्तराष्ट्राणां व्यूढः प्रत्यङ्मुखो युधि

मण्डलः सुमहाव्यूहो दुर्भेद्योऽमित्रघातिनाम्

सर्वतः शुशुभे राजन्रणेऽरीणां दुरासदः

Mahabharata

Bhishma Parva, Adhyaya 77, Verse 21

मण्डलं तु समालोक्य व्यूहं परमदारुणम्

स्वयं युधिष्ठिरो राजा व्यूहं वज्रमथाकरोत्

Mahabharata

Bhishma Parva, Adhyaya 77, Verse 22

तथा व्यूढेष्वनीकेषु यथास्थानमवस्थिताः

रथिनः सादिनश्चैव सिंहनादमथानदन्

Mahabharata

Bhishma Parva, Adhyaya 77, Verse 23

बिभित्सवस्ततो व्यूहं निर्ययुर्युद्धकाङ्क्षिणः

इतरेतरतः शूराः सहसैन्याः प्रहारिणः

Mahabharata

Bhishma Parva, Adhyaya 77, Verse 24

भारद्वाजो ययौ मत्स्यं द्रौणिश्चापि शिखण्डिनम्

स्वयं दुर्योधनो राजा पार्षतं समुपाद्रवत्

Mahabharata

Bhishma Parva, Adhyaya 77, Verse 25

नकुलः सहदेवश्च राजन्मद्रेशमीयतुः

विन्दानुविन्दावावन्त्याविरावन्तमभिद्रुतौ

Mahabharata

Bhishma Parva, Adhyaya 77, Verse 26

सर्वे नृपास्तु समरे धनंजयमयोधयन्

भीमसेनो रणे यत्तो हार्दिक्यं समवारयत्

Mahabharata

Bhishma Parva, Adhyaya 77, Verse 27

चित्रसेनं विकर्णं च तथा दुर्मर्षणं विभो

आर्जुनिः समरे राजंस्तव पुत्रानयोधयत्

Mahabharata

Bhishma Parva, Adhyaya 77, Verse 28

प्राग्ज्योतिषं महेष्वासं हैडिम्बो राक्षसोत्तमः

अभिदुद्राव वेगेन मत्तो मत्तमिव द्विपम्

Mahabharata

Bhishma Parva, Adhyaya 77, Verse 29

अलम्बुसस्ततो राजन्सात्यकिं युद्धदुर्मदम्

ससैन्यं समरे क्रुद्धो राक्षसः समभिद्रवत्

Mahabharata

Bhishma Parva, Adhyaya 77, Verse 30

भूरिश्रवा रणे यत्तो धृष्टकेतुमयोधयत्

श्रुतायुषं तु राजानं धर्मपुत्रो युधिष्ठिरः