Bhishma Parva, Adhyaya 76, Verse 1
अथ शूरा महाराज परस्परकृतागसः
जग्मुः स्वशिबिराण्येव रुधिरेण समुक्षिताः
Containing 19 sacred Sanskrit shlokas with multi-author commentaries and translations.
अथ शूरा महाराज परस्परकृतागसः
जग्मुः स्वशिबिराण्येव रुधिरेण समुक्षिताः
विश्रम्य च यथान्यायं पूजयित्वा परस्परम्
संनद्धाः समदृश्यन्त भूयो युद्धचिकीर्षया
ततस्तव सुतो राजंश्चिन्तयाभिपरिप्लुतः
विस्रवच्छोणिताक्ताङ्गः पप्रच्छेदं पितामहम्
सैन्यानि रौद्राणि भयानकानि; व्यूढानि सम्यग्बहुलध्वजानि
विदार्य हत्वा च निपीड्य शूरा;स्ते पाण्डवानां त्वरिता रथौघाः
संमोह्य सर्वान्युधि कीर्तिमन्तो; व्यूहं च तं मकरं वज्रकल्पम्
प्रविश्य भीमेन निबर्हितोऽस्मि; घोरैः शरैर्मृत्युदण्डप्रकाशैः
क्रुद्धं तमुद्वीक्ष्य भयेन राज;न्संमूर्छितो नालभं शान्तिमद्य
इच्छे प्रसादात्तव सत्यसंध; प्राप्तुं जयं पाण्डवेयांश्च हन्तुम्
तेनैवमुक्तः प्रहसन्महात्मा; दुर्योधनं जातमन्युं विदित्वा
तं प्रत्युवाचाविमना मनस्वी; गङ्गासुतः शस्त्रभृतां वरिष्ठः
परेण यत्नेन विगाह्य सेनां; सर्वात्मनाहं तव राजपुत्र
इच्छामि दातुं विजयं सुखं च; न चात्मानं छादयेऽहं त्वदर्थे
एते तु रौद्रा बहवो महारथा; यशस्विनः शूरतमाः कृतास्त्राः
ये पाण्डवानां समरे सहाया; जितक्लमाः क्रोधविषं वमन्ति
ते नेह शक्याः सहसा विजेतुं; वीर्योन्नद्धाः कृतवैरास्त्वया च
अहं ह्येतान्प्रतियोत्स्यामि राज;न्सर्वात्मना जीवितं त्यज्य वीर
रणे तवार्थाय महानुभाव; न जीवितं रक्ष्यतमं ममाद्य
सर्वांस्तवार्थाय सदेवदैत्याँ;ल्लोकान्दहेयं किमु शत्रूंस्तवेह
तत्पाण्डवान्योधयिष्यामि राज;न्प्रियं च ते सर्वमहं करिष्ये
श्रुत्वैव चैतत्परमप्रतीतो; दुर्योधनः प्रीतमना बभूव
सर्वाणि सैन्यानि ततः प्रहृष्टो; निर्गच्छतेत्याह नृपांश्च सर्वान्
तदाज्ञया तानि विनिर्ययुर्द्रुतं; रथाश्वपादातगजायुतानि
प्रहर्षयुक्तानि तु तानि राज;न्महान्ति नानाविधशस्त्रवन्ति
स्थितानि नागाश्वपदातिमन्ति; विरेजुराजौ तव राजन्बलानि
वृन्दैः स्थिताश्चापि सुसंप्रयुक्ता;श्चकाशिरे दन्तिगणाः समन्तात्
शस्त्रास्त्रविद्भिर्नरदेव योधै;रधिष्ठिताः सैन्यगणास्त्वदीयाः
रथैश्च पादातगजाश्वसंघैः; प्रयाद्भिराजौ विधिवत्प्रणुन्नैः
समुद्धतं वै तरुणार्कवर्णं; रजो बभौ छादयत्सूर्यरश्मीन्
रेजुः पताका रथदन्तिसंस्था; वातेरिता भ्राम्यमाणाः समन्तात्
नानारङ्गाः समरे तत्र राज;न्मेघैर्युक्ता विद्युतः खे यथैव
धनूंषि विस्फारयतां नृपाणां; बभूव शब्दस्तुमुलोऽतिघोरः
विमथ्यतो देवमहासुरौघै;र्यथार्णवस्यादियुगे तदानीम्
तदुग्रनादं बहुरूपवर्णं; तवात्मजानां समुदीर्णमेवम्
बभूव सैन्यं रिपुसैन्यहन्तृ; युगान्तमेघौघनिभं तदानीम्