Mahabharata

Bhishma Parva, Adhyaya 75

Containing 59 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Bhishma Parva, Adhyaya 75, Verse 1

ततो दुर्योधनो राजा लोहितायति भास्करे

संग्रामरभसो भीमं हन्तुकामोऽभ्यधावत

Mahabharata

Bhishma Parva, Adhyaya 75, Verse 2

तमायान्तमभिप्रेक्ष्य नृवीरं दृढवैरिणम्

भीमसेनः सुसंक्रुद्ध इदं वचनमब्रवीत्

Mahabharata

Bhishma Parva, Adhyaya 75, Verse 3

अयं स कालः संप्राप्तो वर्षपूगाभिकाङ्क्षितः

अद्य त्वां निहनिष्यामि यदि नोत्सृजसे रणम्

Mahabharata

Bhishma Parva, Adhyaya 75, Verse 4

अद्य कुन्त्याः परिक्लेशं वनवासं च कृत्स्नशः

द्रौपद्याश्च परिक्लेशं प्रणोत्स्यामि हते त्वयि

Mahabharata

Bhishma Parva, Adhyaya 75, Verse 5

यत्त्वं दुरोदरो भूत्वा पाण्डवानवमन्यसे

तस्य पापस्य गान्धारे पश्य व्यसनमागतम्

Mahabharata

Bhishma Parva, Adhyaya 75, Verse 6

कर्णस्य मतमाज्ञाय सौबलस्य च यत्पुरा

अचिन्त्य पाण्डवान्कामाद्यथेष्टं कृतवानसि

Mahabharata

Bhishma Parva, Adhyaya 75, Verse 7

याचमानं च यन्मोहाद्दाशार्हमवमन्यसे

उलूकस्य समादेशं यद्ददासि च हृष्टवत्

Mahabharata

Bhishma Parva, Adhyaya 75, Verse 8

अद्य त्वा निहनिष्यामि सानुबन्धं सबान्धवम्

समीकरिष्ये तत्पापं यत्पुरा कृतवानसि

Mahabharata

Bhishma Parva, Adhyaya 75, Verse 9

एवमुक्त्वा धनुर्घोरं विकृष्योद्भ्राम्य चासकृत्

समादाय शरान्घोरान्महाशनिसमप्रभान्

Mahabharata

Bhishma Parva, Adhyaya 75, Verse 10

षड्विंशत्तरसा क्रुद्धो मुमोचाशु सुयोधने

ज्वलिताग्निशिखाकारान्वज्रकल्पानजिह्मगान्

Mahabharata

Bhishma Parva, Adhyaya 75, Verse 11

ततोऽस्य कार्मुकं द्वाभ्यां सूतं द्वाभ्यां च विव्यधे

चतुर्भिरश्वाञ्जवनाननयद्यमसादनम्

Mahabharata

Bhishma Parva, Adhyaya 75, Verse 12

द्वाभ्यां च सुविकृष्टाभ्यां शराभ्यामरिमर्दनः

छत्रं चिच्छेद समरे राज्ञस्तस्य रथोत्तमात्

Mahabharata

Bhishma Parva, Adhyaya 75, Verse 13

त्रिभिश्च तस्य चिच्छेद ज्वलन्तं ध्वजमुत्तमम्

छित्त्वा तं च ननादोच्चैस्तव पुत्रस्य पश्यतः

Mahabharata

Bhishma Parva, Adhyaya 75, Verse 14

रथाच्च स ध्वजः श्रीमान्नानारत्नविभूषितः

पपात सहसा भूमिं विद्युज्जलधरादिव

Mahabharata

Bhishma Parva, Adhyaya 75, Verse 15

ज्वलन्तं सूर्यसंकाशं नागं मणिमयं शुभम्

ध्वजं कुरुपतेश्छिन्नं ददृशुः सर्वपार्थिवाः

Mahabharata

Bhishma Parva, Adhyaya 75, Verse 16

अथैनं दशभिर्बाणैस्तोत्त्रैरिव महागजम्

आजघान रणे भीमः स्मयन्निव महारथः

Mahabharata

Bhishma Parva, Adhyaya 75, Verse 17

ततस्तु राजा सिन्धूनां रथश्रेष्ठो जयद्रथः

दुर्योधनस्य जग्राह पार्ष्णिं सत्पुरुषोचिताम्

Mahabharata

Bhishma Parva, Adhyaya 75, Verse 18

कृपश्च रथिनां श्रेष्ठः कौरव्यममितौजसम्

आरोपयद्रथं राजन्दुर्योधनममर्षणम्

Mahabharata

Bhishma Parva, Adhyaya 75, Verse 19

स गाढविद्धो व्यथितो भीमसेनेन संयुगे

निषसाद रथोपस्थे राजा दुर्योधनस्तदा

Mahabharata

Bhishma Parva, Adhyaya 75, Verse 20

परिवार्य ततो भीमं हन्तुकामो जयद्रथः

रथैरनेकसाहस्रैर्भीमस्यावारयद्दिशः

Mahabharata

Bhishma Parva, Adhyaya 75, Verse 21

धृष्टकेतुस्ततो राजन्नभिमन्युश्च वीर्यवान्

केकया द्रौपदेयाश्च तव पुत्रानयोधयन्

Mahabharata

Bhishma Parva, Adhyaya 75, Verse 22

चित्रसेनः सुचित्रश्च चित्राश्वश्चित्रदर्शनः

चारुचित्रः सुचारुश्च तथा नन्दोपनन्दकौ

Mahabharata

Bhishma Parva, Adhyaya 75, Verse 23

अष्टावेते महेष्वासाः सुकुमारा यशस्विनः

अभिमन्युरथं राजन्समन्तात्पर्यवारयन्

Mahabharata

Bhishma Parva, Adhyaya 75, Verse 24

आजघान ततस्तूर्णमभिमन्युर्महामनाः

एकैकं पञ्चभिर्विद्ध्वा शरैः संनतपर्वभिः

वज्रमृत्युप्रतीकाशैर्विचित्रायुधनिःसृतैः

Mahabharata

Bhishma Parva, Adhyaya 75, Verse 25

अमृष्यमाणास्ते सर्वे सौभद्रं रथसत्तमम्

ववर्षुर्मार्गणैस्तीक्ष्णैर्गिरिं मेरुमिवाम्बुदाः

Mahabharata

Bhishma Parva, Adhyaya 75, Verse 26

स पीड्यमानः समरे कृतास्त्रो युद्धदुर्मदः

अभिमन्युर्महाराज तावकान्समकम्पयत्

यथा देवासुरे युद्धे वज्रपाणिर्महासुरान्

Mahabharata

Bhishma Parva, Adhyaya 75, Verse 27

विकर्णस्य ततो भल्लान्प्रेषयामास भारत

चतुर्दश रथश्रेष्ठो घोरानाशीविषोपमान्

ध्वजं सूतं हयांश्चास्य छित्त्वा नृत्यन्निवाहवे

Mahabharata

Bhishma Parva, Adhyaya 75, Verse 28

पुनश्चान्याञ्शरान्पीतानकुण्ठाग्राञ्शिलाशितान्

प्रेषयामास सौभद्रो विकर्णाय महाबलः

Mahabharata

Bhishma Parva, Adhyaya 75, Verse 29

ते विकर्णं समासाद्य कङ्कबर्हिणवाससः

भित्त्वा देहं गता भूमिं ज्वलन्त इव पन्नगाः

Mahabharata

Bhishma Parva, Adhyaya 75, Verse 30

ते शरा हेमपुङ्खाग्रा व्यदृश्यन्त महीतले

विकर्णरुधिरक्लिन्ना वमन्त इव शोणितम्