Bhishma Parva, Adhyaya 71, Verse 1
विहृत्य च ततो राजन्सहिताः कुरुपाण्डवाः
व्यतीतायां तु शर्वर्यां पुनर्युद्धाय निर्ययुः
Containing 36 sacred Sanskrit shlokas with multi-author commentaries and translations.
विहृत्य च ततो राजन्सहिताः कुरुपाण्डवाः
व्यतीतायां तु शर्वर्यां पुनर्युद्धाय निर्ययुः
तत्र शब्दो महानासीत्तव तेषां च भारत
युज्यतां रथमुख्यानां कल्प्यतां चैव दन्तिनाम्
संनह्यतां पदातीनां हयानां चैव भारत
शङ्खदुन्दुभिनादश्च तुमुलः सर्वतोऽभवत्
ततो युधिष्ठिरो राजा धृष्टद्युम्नमभाषत
व्यूहं व्यूह महाबाहो मकरं शत्रुतापनम्
एवमुक्तस्तु पार्थेन धृष्टद्युम्नो महारथः
व्यादिदेश महाराज रथिनो रथिनां वरः
शिरोऽभूद्द्रुपदस्तस्य पाण्डवश्च धनंजयः
चक्षुषी सहदेवश्च नकुलश्च महारथः
तुण्डमासीन्महाराज भीमसेनो महाबलः
सौभद्रो द्रौपदेयाश्च राक्षसश्च घटोत्कचः
सात्यकिर्धर्मराजश्च व्यूहग्रीवां समास्थिताः
पृष्ठमासीन्महाराज विराटो वाहिनीपतिः
धृष्टद्युम्नेन सहितो महत्या सेनया वृतः
केकया भ्रातरः पञ्च वामं पार्श्वं समाश्रिताः
धृष्टकेतुर्नरव्याघ्रः करकर्षश्च वीर्यवान्
दक्षिणं पक्षमाश्रित्य स्थिता व्यूहस्य रक्षणे
पादयोस्तु महाराज स्थितः श्रीमान्महारथः
कुन्तिभोजः शतानीको महत्या सेनया वृतः
शिखण्डी तु महेष्वासः सोमकैः संवृतो बली
इरावांश्च ततः पुच्छे मकरस्य व्यवस्थितौ
एवमेतन्महाव्यूहं व्यूह्य भारत पाण्डवाः
सूर्योदये महाराज पुनर्युद्धाय दंशिताः
कौरवानभ्ययुस्तूर्णं हस्त्यश्वरथपत्तिभिः
समुच्छ्रितैर्ध्वजैश्चित्रैः शस्त्रैश्च विमलैः शितैः
व्यूहं दृष्ट्वा तु तत्सैन्यं पिता देवव्रतस्तव
क्रौञ्चेन महता राजन्प्रत्यव्यूहत वाहिनीम्
तस्य तुण्डे महेष्वासो भारद्वाजो व्यरोचत
अश्वत्थामा कृपश्चैव चक्षुरास्तां नरेश्वर
कृतवर्मा तु सहितः काम्बोजारट्टबाह्लिकैः
शिरस्यासीन्नरश्रेष्ठः श्रेष्ठः सर्वधनुष्मताम्
ग्रीवायां शूरसेनस्तु तव पुत्रश्च मारिष
दुर्योधनो महाराज राजभिर्बहुभिर्वृतः
प्राग्ज्योतिषस्तु सहितः मद्रसौवीरकेकयैः
उरस्यभून्नरश्रेष्ठ महत्या सेनया वृतः
स्वसेनया च सहितः सुशर्मा प्रस्थलाधिपः
वामं पक्षं समाश्रित्य दंशितः समवस्थितः
तुषारा यवनाश्चैव शकाश्च सह चूचुपैः
दक्षिणं पक्षमाश्रित्य स्थिता व्यूहस्य भारत
श्रुतायुश्च शतायुश्च सौमदत्तिश्च मारिष
व्यूहस्य जघने तस्थू रक्षमाणाः परस्परम्
ततो युद्धाय संजग्मुः पाण्डवाः कौरवैः सह
सूर्योदये महाराज ततो युद्धमभून्महत्
प्रतीयू रथिनो नागान्नागाश्च रथिनो ययुः
हयारोहा हयारोहान्रथिनश्चापि सादिनः
सारथिं च रथी राजन्कुञ्जरांश्च महारणे
हस्त्यारोहा रथारोहान्रथिनश्चापि सादिनः
रथिनः पत्तिभिः सार्धं सादिनश्चापि पत्तिभिः
अन्योन्यं समरे राजन्प्रत्यधावन्नमर्षिताः
भीमसेनार्जुनयमैर्गुप्ता चान्यैर्महारथैः
शुशुभे पाण्डवी सेना नक्षत्रैरिव शर्वरी
तथा भीष्मकृपद्रोणशल्यदुर्योधनादिभिः
तवापि विबभौ सेना ग्रहैर्द्यौरिव संवृता
भीमसेनस्तु कौन्तेयो द्रोणं दृष्ट्वा पराक्रमी
अभ्ययाज्जवनैरश्वैर्भारद्वाजस्य वाहिनीम्
द्रोणस्तु समरे क्रुद्धो भीमं नवभिरायसैः
विव्याध समरे राजन्मर्माण्युद्दिश्य वीर्यवान्
दृढाहतस्ततो भीमो भारद्वाजस्य संयुगे
सारथिं प्रेषयामास यमस्य सदनं प्रति