Bhishma Parva, Adhyaya 70, Verse 1
अथ राजन्महाबाहुः सात्यकिर्युद्धदुर्मदः
विकृष्य चापं समरे भारसाधनमुत्तमम्
Containing 37 sacred Sanskrit shlokas with multi-author commentaries and translations.
अथ राजन्महाबाहुः सात्यकिर्युद्धदुर्मदः
विकृष्य चापं समरे भारसाधनमुत्तमम्
प्रामुञ्चत्पुङ्खसंयुक्ताञ्शरानाशीविषोपमान्
प्रकाशं लघु चित्रं च दर्शयन्नस्त्रलाघवम्
तस्य विक्षिपतश्चापं शरानन्यांश्च मुञ्चतः
आददानस्य भूयश्च संदधानस्य चापरान्
क्षिपतश्च शरानस्य रणे शत्रून्विनिघ्नतः
ददृशे रूपमत्यर्थं मेघस्येव प्रवर्षतः
तमुदीर्यन्तमालोक्य राजा दुर्योधनस्ततः
रथानामयुतं तस्य प्रेषयामास भारत
तांस्तु सर्वान्महेष्वासान्सात्यकिः सत्यविक्रमः
जघान परमेष्वासो दिव्येनास्त्रेण वीर्यवान्
स कृत्वा दारुणं कर्म प्रगृहीतशरासनः
आससाद ततो वीरो भूरिश्रवसमाहवे
स हि संदृश्य सेनां तां युयुधानेन पातिताम्
अभ्यधावत संक्रुद्धः कुरूणां कीर्तिवर्धनः
इन्द्रायुधसवर्णं तत्स विस्फार्य महद्धनुः
व्यसृजद्वज्रसंकाशाञ्शरानाशीविषोपमान्
सहस्रशो महाराज दर्शयन्पाणिलाघवम्
शरांस्तान्मृत्युसंस्पर्शान्सात्यकेस्तु पदानुगाः
न विषेहुस्तदा राजन्दुद्रुवुस्ते समन्ततः
विहाय समरे राजन्सात्यकिं युद्धदुर्मदम्
तं दृष्ट्वा युयुधानस्य सुता दश महाबलाः
महारथाः समाख्याताश्चित्रवर्मायुधध्वजाः
समासाद्य महेष्वासं भूरिश्रवसमाहवे
ऊचुः सर्वे सुसंरब्धा यूपकेतुं महारणे
भो भो कौरवदायाद सहास्माभिर्महाबल
एहि युध्यस्व संग्रामे समस्तैः पृथगेव वा
अस्मान्वा त्वं पराजित्य यशः प्राप्नुहि संयुगे
वयं वा त्वां पराजित्य प्रीतिं दास्यामहे पितुः
एवमुक्तस्तदा शूरैस्तानुवाच महाबलः
वीर्यश्लाघी नरश्रेष्ठस्तान्दृष्ट्वा समुपस्थितान्
साध्विदं कथ्यते वीरा यदेवं मतिरद्य वः
युध्यध्वं सहिता यत्ता निहनिष्यामि वो रणे
एवमुक्ता महेष्वासास्ते वीराः क्षिप्रकारिणः
महता शरवर्षेण अभ्यवर्षन्नरिंदमम्
अपराह्णे महाराज संग्रामस्तुमुलोऽभवत्
एकस्य च बहूनां च समेतानां रणाजिरे
तमेकं रथिनां श्रेष्ठं शरवर्षैरवाकिरन्
प्रावृषीव महाशैलं सिषिचुर्जलदा नृप
तैस्तु मुक्ताञ्शरौघांस्तान्यमदण्डाशनिप्रभान्
असंप्राप्तानसंप्राप्तांश्चिच्छेदाशु महारथः
तत्राद्भुतमपश्याम सौमदत्तेः पराक्रमम्
यदेको बहुभिर्युद्धे समसज्जदभीतवत्
विसृज्य शरवृष्टिं तां दश राजन्महारथाः
परिवार्य महाबाहुं निहन्तुमुपचक्रमुः
सौमदत्तिस्ततः क्रुद्धस्तेषां चापानि भारत
चिच्छेद दशभिर्बाणैर्निमेषेण महारथः
अथैषां छिन्नधनुषां भल्लैः संनतपर्वभिः
चिच्छेद समरे राजञ्शिरांसि निशितैः शरैः
ते हता न्यपतन्भूमौ वज्रभग्ना इव द्रुमाः
तान्दृष्ट्वा निहतान्वीरान्रणे पुत्रान्महाबलान्
वार्ष्णेयो विनदन्राजन्भूरिश्रवसमभ्ययात्
रथं रथेन समरे पीडयित्वा महाबलौ
तावन्योन्यस्य समरे निहत्य रथवाजिनः
विरथावभिवल्गन्तौ समेयातां महारथौ
प्रगृहीतमहाखड्गौ तौ चर्मवरधारिणौ
शुशुभाते नरव्याघ्रौ युद्धाय समवस्थितौ
ततः सात्यकिमभ्येत्य निस्त्रिंशवरधारिणम्
भीमसेनस्त्वरन्राजन्रथमारोपयत्तदा
तवापि तनयो राजन्भूरिश्रवसमाहवे
आरोपयद्रथं तूर्णं पश्यतां सर्वधन्विनाम्
तस्मिंस्तथा वर्तमाने रणे भीष्मं महारथम्
अयोधयन्त संरब्धाः पाण्डवा भरतर्षभ