Bhishma Parva, Adhyaya 69, Verse 1
विराटोऽथ त्रिभिर्बाणैर्भीष्ममार्छन्महारथम्
विव्याध तुरगांश्चास्य त्रिभिर्बाणैर्महारथः
Containing 41 sacred Sanskrit shlokas with multi-author commentaries and translations.
विराटोऽथ त्रिभिर्बाणैर्भीष्ममार्छन्महारथम्
विव्याध तुरगांश्चास्य त्रिभिर्बाणैर्महारथः
तं प्रत्यविध्यद्दशभिर्भीष्मः शांतनवः शरैः
रुक्मपुङ्खैर्महेष्वासः कृतहस्तो महाबलः
द्रौणिर्गाण्डीवधन्वानं भीमधन्वा महारथः
अविध्यदिषुभिः षड्भिर्दृढहस्तः स्तनान्तरे
कार्मुकं तस्य चिच्छेद फल्गुनः परवीरहा
अविध्यच्च भृशं तीक्ष्णैः पत्रिभिः शत्रुकर्शनः
सोऽन्यत्कार्मुकमादाय वेगवत्क्रोधमूर्छितः
अमृष्यमाणः पार्थेन कार्मुकच्छेदमाहवे
अविध्यत्फल्गुनं राजन्नवत्या निशितैः शरैः
वासुदेवं च सप्तत्या विव्याध परमेषुभिः
ततः क्रोधाभिताम्राक्षः सह कृष्णेन फल्गुनः
दीर्घमुष्णं च निःश्वस्य चिन्तयित्वा मुहुर्मुहुः
धनुः प्रपीड्य वामेन करेणामित्रकर्शनः
गाण्डीवधन्वा संक्रुद्धः शितान्संनतपर्वणः
जीवितान्तकरान्घोरान्समादत्त शिलीमुखान्
तैस्तूर्णं समरेऽविध्यद्द्रौणिं बलवतां वरम्
तस्य ते कवचं भित्त्वा पपुः शोणितमाहवे
न विव्यथे च निर्भिन्नो द्रौणिर्गाण्डीवधन्वना
तथैव शरवर्षाणि प्रतिमुञ्चन्नविह्वलः
तस्थौ स समरे राजंस्त्रातुमिच्छन्महाव्रतम्
तस्य तत्सुमहत्कर्म शशंसुः पुरुषर्षभाः
यत्कृष्णाभ्यां समेताभ्यां नापत्रपत संयुगे
स हि नित्यमनीकेषु युध्यतेऽभयमास्थितः
अस्त्रग्रामं ससंहारं द्रोणात्प्राप्य सुदुर्लभम्
ममायमाचार्यसुतो द्रोणस्यातिप्रियः सुतः
ब्राह्मणश्च विशेषेण माननीयो ममेति च
समास्थाय मतिं वीरो बीभत्सुः शत्रुतापनः
कृपां चक्रे रथश्रेष्ठो भारद्वाजसुतं प्रति
द्रौणिं त्यक्त्वा ततो युद्धे कौन्तेयः शत्रुतापनः
युयुधे तावकान्निघ्नंस्त्वरमाणः पराक्रमी
दुर्योधनस्तु दशभिर्गार्ध्रपत्रैः शिलाशितैः
भीमसेनं महेष्वासं रुक्मपुङ्खैः समर्पयत्
भीमसेनस्तु संक्रुद्धः परासुकरणं दृढम्
चित्रं कार्मुकमादत्त शरांश्च निशितान्दश
आकर्णप्रहितैस्तीक्ष्णैर्वेगितैस्तिग्मतेजनैः
अविध्यत्तूर्णमव्यग्रः कुरुराजं महोरसि
तस्य काञ्चनसूत्रस्तु शरैः परिवृतो मणिः
रराजोरसि वै सूर्यो ग्रहैरिव समावृतः
पुत्रस्तु तव तेजस्वी भीमसेनेन ताडितः
नामृष्यत यथा नागस्तलशब्दं समीरितम्
ततः शरैर्महाराज रुक्मपुङ्खैः शिलाशितैः
भीमं विव्याध संक्रुद्धस्त्रासयानो वरूथिनीम्
तौ युध्यमानौ समरे भृशमन्योन्यविक्षतौ
पुत्रौ ते देवसंकाशौ व्यरोचेतां महाबलौ
चित्रसेनं नरव्याघ्रं सौभद्रः परवीरहा
अविध्यद्दशभिर्बाणैः पुरुमित्रं च सप्तभिः
सत्यव्रतं च सप्तत्या विद्ध्वा शक्रसमो युधि
नृत्यन्निव रणे वीर आर्तिं नः समजीजनत्
तं प्रत्यविद्यद्दशभिश्चित्रसेनः शिलीमुखैः
सत्यव्रतश्च नवभिः पुरुमित्रश्च सप्तभिः
स विद्धो विक्षरन्रक्तं शत्रुसंवारणं महत्
चिच्छेद चित्रसेनस्य चित्रं कार्मुकमार्जुनिः
भित्त्वा चास्य तनुत्राणं शरेणोरस्यताडयत्
ततस्ते तावका वीरा राजपुत्रा महारथाः
समेत्य युधि संरब्धा विव्यधुर्निशितैः शरैः
तांश्च सर्वाञ्शरैस्तीक्ष्णैर्जघान परमास्त्रवित्
तस्य दृष्ट्वा तु तत्कर्म परिवव्रुः सुतास्तव
दहन्तं समरे सैन्यं तव कक्षं यथोल्बणम्
अपेतशिशिरे काले समिद्धमिव पावकः
अत्यरोचत सौभद्रस्तव सैन्यानि शातयन्
तत्तस्य चरितं दृष्ट्वा पौत्रस्तव विशां पते
लक्ष्मणोऽभ्यपतत्तूर्णं सात्वतीपुत्रमाहवे