Mahabharata

Bhishma Parva, Adhyaya 68

Containing 33 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Bhishma Parva, Adhyaya 68, Verse 1

शिखण्डी सह मत्स्येन विराटेन विशां पते

भीष्ममाशु महेष्वासमाससाद सुदुर्जयम्

Mahabharata

Bhishma Parva, Adhyaya 68, Verse 2

द्रोणं कृपं विकर्णं च महेष्वासान्महाबलान्

राज्ञश्चान्यान्रणे शूरान्बहूनार्छद्धनंजयः

Mahabharata

Bhishma Parva, Adhyaya 68, Verse 3

सैन्धवं च महेष्वासं सामात्यं सह बन्धुभिः

प्राच्यांश्च दाक्षिणात्यांश्च भूमिपान्भूमिपर्षभ

Mahabharata

Bhishma Parva, Adhyaya 68, Verse 4

पुत्रं च ते महेष्वासं दुर्योधनममर्षणम्

दुःसहं चैव समरे भीमसेनोऽभ्यवर्तत

Mahabharata

Bhishma Parva, Adhyaya 68, Verse 5

सहदेवस्तु शकुनिमुलूकं च महारथम्

पितापुत्रौ महेष्वासावभ्यवर्तत दुर्जयौ

Mahabharata

Bhishma Parva, Adhyaya 68, Verse 6

युधिष्ठिरो महाराज गजानीकं महारथः

समवर्तत संग्रामे पुत्रेण निकृतस्तव

Mahabharata

Bhishma Parva, Adhyaya 68, Verse 7

माद्रीपुत्रस्तु नकुलः शूरः संक्रन्दनो युधि

त्रिगर्तानां रथोदारैः समसज्जत पाण्डवः

Mahabharata

Bhishma Parva, Adhyaya 68, Verse 8

अभ्यवर्तन्त दुर्धर्षाः समरे शाल्वकेकयान्

सात्यकिश्चेकितानश्च सौभद्रश्च महारथः

Mahabharata

Bhishma Parva, Adhyaya 68, Verse 9

धृष्टकेतुश्च समरे राक्षसश्च घटोत्कचः

पुत्राणां ते रथानीकं प्रत्युद्याताः सुदुर्जयाः

Mahabharata

Bhishma Parva, Adhyaya 68, Verse 10

सेनापतिरमेयात्मा धृष्टद्युम्नो महाबलः

द्रोणेन समरे राजन्समियायेन्द्रकर्मणा

Mahabharata

Bhishma Parva, Adhyaya 68, Verse 11

एवमेते महेष्वासास्तावकाः पाण्डवैः सह

समेत्य समरे शूराः संप्रहारं प्रचक्रिरे

Mahabharata

Bhishma Parva, Adhyaya 68, Verse 12

मध्यंदिनगते सूर्ये नभस्याकुलतां गते

कुरवः पाण्डवेयाश्च निजघ्नुरितरेतरम्

Mahabharata

Bhishma Parva, Adhyaya 68, Verse 13

ध्वजिनो हेमचित्राङ्गा विचरन्तो रणाजिरे

सपताका रथा रेजुर्वैयाघ्रपरिवारणाः

Mahabharata

Bhishma Parva, Adhyaya 68, Verse 14

समेतानां च समरे जिगीषूणां परस्परम्

बभूव तुमुलः शब्दः सिंहानामिव नर्दताम्

Mahabharata

Bhishma Parva, Adhyaya 68, Verse 15

तत्राद्भुतमपश्याम संप्रहारं सुदारुणम्

यमकुर्वन्रणे वीराः सृञ्जयाः कुरुभिः सह

Mahabharata

Bhishma Parva, Adhyaya 68, Verse 16

नैव खं न दिशो राजन्न सूर्यं शत्रुतापन

विदिशो वाप्यपश्याम शरैर्मुक्तैः समन्ततः

Mahabharata

Bhishma Parva, Adhyaya 68, Verse 17

शक्तीनां विमलाग्राणां तोमराणां तथास्यताम्

निस्त्रिंशानां च पीतानां नीलोत्पलनिभाः प्रभाः

Mahabharata

Bhishma Parva, Adhyaya 68, Verse 18

कवचानां विचित्राणां भूषणानां प्रभास्तथा

खं दिशः प्रदिशश्चैव भासयामासुरोजसा

विरराज तदा राजंस्तत्र तत्र रणाङ्गणम्

Mahabharata

Bhishma Parva, Adhyaya 68, Verse 19

रथसिंहासनव्याघ्राः समायान्तश्च संयुगे

विरेजुः समरे राजन्ग्रहा इव नभस्तले

Mahabharata

Bhishma Parva, Adhyaya 68, Verse 20

भीष्मस्तु रथिनां श्रेष्ठो भीमसेनं महाबलम्

अवारयत संक्रुद्धः सर्वसैन्यस्य पश्यतः

Mahabharata

Bhishma Parva, Adhyaya 68, Verse 21

ततो भीष्मविनिर्मुक्ता रुक्मपुङ्खाः शिलाशिताः

अभ्यघ्नन्समरे भीमं तैलधौताः सुतेजनाः

Mahabharata

Bhishma Parva, Adhyaya 68, Verse 22

तस्य शक्तिं महावेगां भीमसेनो महाबलः

क्रुद्धाशीविषसंकाशां प्रेषयामास भारत

Mahabharata

Bhishma Parva, Adhyaya 68, Verse 23

तामापतन्तीं सहसा रुक्मदण्डां दुरासदाम्

चिच्छेद समरे भीष्मः शरैः संनतपर्वभिः

Mahabharata

Bhishma Parva, Adhyaya 68, Verse 24

ततोऽपरेण भल्लेन पीतेन निशितेन च

कार्मुकं भीमसेनस्य द्विधा चिच्छेद भारत

Mahabharata

Bhishma Parva, Adhyaya 68, Verse 25

सात्यकिस्तु ततस्तूर्णं भीष्ममासाद्य संयुगे

शरैर्बहुभिरानर्छत्पितरं ते जनेश्वर

Mahabharata

Bhishma Parva, Adhyaya 68, Verse 26

ततः संधाय वै तीक्ष्णं शरं परमदारुणम्

वार्ष्णेयस्य रथाद्भीष्मः पातयामास सारथिम्

Mahabharata

Bhishma Parva, Adhyaya 68, Verse 27

तस्याश्वाः प्रद्रुता राजन्निहते रथसारथौ

तेन तेनैव धावन्ति मनोमारुतरंहसः

Mahabharata

Bhishma Parva, Adhyaya 68, Verse 28

ततः सर्वस्य सैन्यस्य निस्वनस्तुमुलोऽभवत्

हाहाकारश्च संजज्ञे पाण्डवानां महात्मनाम्

Mahabharata

Bhishma Parva, Adhyaya 68, Verse 29

अभिद्रवत गृह्णीत हयान्यच्छत धावत

इत्यासीत्तुमुलः शब्दो युयुधानरथं प्रति

Mahabharata

Bhishma Parva, Adhyaya 68, Verse 30

एतस्मिन्नेव काले तु भीष्मः शांतनवः पुनः

व्यहनत्पाण्डवीं सेनामासुरीमिव वृत्रहा