Mahabharata

Bhishma Parva, Adhyaya 67

Containing 41 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Bhishma Parva, Adhyaya 67, Verse 1

दृष्ट्वा भीष्मेण संसक्तान्भ्रातॄनन्यांश्च पार्थिवान्

तमभ्यधावद्गाङ्गेयमुद्यतास्त्रो धनंजयः

Mahabharata

Bhishma Parva, Adhyaya 67, Verse 2

पाञ्चजन्यस्य निर्घोषं धनुषो गाण्डिवस्य च

ध्वजं च दृष्ट्वा पार्थस्य सर्वान्नो भयमाविशत्

Mahabharata

Bhishma Parva, Adhyaya 67, Verse 3

असज्जमानं वृक्षेषु धूमकेतुमिवोत्थितम्

बहुवर्णं च चित्रं च दिव्यं वानरलक्षणम्

अपश्याम महाराज ध्वजं गाण्डिवधन्वनः

Mahabharata

Bhishma Parva, Adhyaya 67, Verse 4

विद्युतं मेघमध्यस्थां भ्राजमानामिवाम्बरे

ददृशुर्गाण्डिवं योधा रुक्मपृष्ठं महारथे

Mahabharata

Bhishma Parva, Adhyaya 67, Verse 5

अशुश्रुम भृशं चास्य शक्रस्येवाभिगर्जतः

सुघोरं तलयोः शब्दं निघ्नतस्तव वाहिनीम्

Mahabharata

Bhishma Parva, Adhyaya 67, Verse 6

चण्डवातो यथा मेघः सविद्युत्स्तनयित्नुमान्

दिशः संप्लावयन्सर्वाः शरवर्षैः समन्ततः

Mahabharata

Bhishma Parva, Adhyaya 67, Verse 7

अभ्यधावत गाङ्गेयं भैरवास्त्रो धनंजयः

दिशं प्राचीं प्रतीचीं च न जानीमोऽस्त्रमोहिताः

Mahabharata

Bhishma Parva, Adhyaya 67, Verse 8

कांदिग्भूताः श्रान्तपत्रा हतास्त्रा हतचेतसः

अन्योन्यमभिसंश्लिष्य योधास्ते भरतर्षभ

Mahabharata

Bhishma Parva, Adhyaya 67, Verse 9

भीष्ममेवाभिलीयन्त सह सर्वैस्तवात्मजैः

तेषामार्तायनमभूद्भीष्मः शंतनवो रणे

Mahabharata

Bhishma Parva, Adhyaya 67, Verse 10

समुत्पतन्त वित्रस्ता रथेभ्यो रथिनस्तदा

सादिनश्चाश्वपृष्ठेभ्यो भूमौ चापि पदातयः

Mahabharata

Bhishma Parva, Adhyaya 67, Verse 11

श्रुत्वा गाण्डीवनिर्घोषं विस्फूर्जितमिवाशनेः

सर्वसैन्यानि भीतानि व्यवलीयन्त भारत

Mahabharata

Bhishma Parva, Adhyaya 67, Verse 12

अथ काम्बोजमुख्यैस्तु बृहद्भिः शीघ्रगामिभिः

गोपानां बहुसाहस्रैर्बलैर्गोवासनो वृतः

Mahabharata

Bhishma Parva, Adhyaya 67, Verse 13

मद्रसौवीरगान्धारैस्त्रिगर्तैश्च विशां पते

सर्वकालिङ्गमुख्यैश्च कलिङ्गाधिपतिर्वृतः

Mahabharata

Bhishma Parva, Adhyaya 67, Verse 14

नागा नरगणौघाश्च दुःशासनपुरःसराः

जयद्रथश्च नृपतिः सहितः सर्वराजभिः

Mahabharata

Bhishma Parva, Adhyaya 67, Verse 15

हयारोहवराश्चैव तव पुत्रेण चोदिताः

चतुर्दश सहस्राणि सौबलं पर्यवारयन्

Mahabharata

Bhishma Parva, Adhyaya 67, Verse 16

ततस्ते सहिताः सर्वे विभक्तरथवाहनाः

पाण्डवान्समरे जग्मुस्तावका भरतर्षभ

Mahabharata

Bhishma Parva, Adhyaya 67, Verse 17

रथिभिर्वारणैरश्वैः पदातैश्च समीरितम्

घोरमायोधनं जज्ञे महाभ्रसदृशं रजः

Mahabharata

Bhishma Parva, Adhyaya 67, Verse 18

तोमरप्रासनाराचगजाश्वरथयोधिनाम्

बलेन महता भीष्मः समसज्जत्किरीटिना

Mahabharata

Bhishma Parva, Adhyaya 67, Verse 19

आवन्त्यः काशिराजेन भीमसेनेन सैन्धवः

अजातशत्रुर्मद्राणामृषभेण यशस्विना

सहपुत्रः सहामात्यः शल्येन समसज्जत

Mahabharata

Bhishma Parva, Adhyaya 67, Verse 20

विकर्णः सहदेवेन चित्रसेनः शिखण्डिना

मत्स्या दुर्योधनं जग्मुः शकुनिं च विशां पते

Mahabharata

Bhishma Parva, Adhyaya 67, Verse 21

द्रुपदश्चेकितानश्च सात्यकिश्च महारथः

द्रोणेन समसज्जन्त सपुत्रेण महात्मना

कृपश्च कृतवर्मा च धृष्टकेतुमभिद्रुतौ

Mahabharata

Bhishma Parva, Adhyaya 67, Verse 22

एवं प्रजविताश्वानि भ्रान्तनागरथानि च

सैन्यानि समसज्जन्त प्रयुद्धानि समन्ततः

Mahabharata

Bhishma Parva, Adhyaya 67, Verse 23

निरभ्रे विद्युतस्तीव्रा दिशश्च रजसावृताः

प्रादुरासन्महोल्काश्च सनिर्घाता विशां पते

Mahabharata

Bhishma Parva, Adhyaya 67, Verse 24

प्रववौ च महावातः पांसुवर्षं पपात च

नभस्यन्तर्दधे सूर्यः सैन्येन रजसावृतः

Mahabharata

Bhishma Parva, Adhyaya 67, Verse 25

प्रमोहः सर्वसत्त्वानामतीव समपद्यत

रजसा चाभिभूतानामस्त्रजालैश्च तुद्यताम्

Mahabharata

Bhishma Parva, Adhyaya 67, Verse 26

वीरबाहुविसृष्टानां सर्वावरणभेदिनाम्

संघातः शरजालानां तुमुलः समपद्यत

Mahabharata

Bhishma Parva, Adhyaya 67, Verse 27

प्रकाशं चक्रुराकाशमुद्यतानि भुजोत्तमैः

नक्षत्रविमलाभानि शस्त्राणि भरतर्षभ

Mahabharata

Bhishma Parva, Adhyaya 67, Verse 28

आर्षभाणि विचित्राणि रुक्मजालावृतानि च

संपेतुर्दिक्षु सर्वासु चर्माणि भरतर्षभ

Mahabharata

Bhishma Parva, Adhyaya 67, Verse 29

सूर्यवर्णैश्च निस्त्रिंशैः पात्यमानानि सर्वशः

दिक्षु सर्वास्वदृश्यन्त शरीराणि शिरांसि च

Mahabharata

Bhishma Parva, Adhyaya 67, Verse 30

भग्नचक्राक्षनीडाश्च निपातितमहाध्वजाः

हताश्वाः पृथिवीं जग्मुस्तत्र तत्र महारथाः