Mahabharata

Bhishma Parva, Adhyaya 66

Containing 22 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Bhishma Parva, Adhyaya 66, Verse 1

अकरोत्तुमुलं युद्धं भीष्मः शांतनवस्तदा

भीमसेनभयादिच्छन्पुत्रांस्तारयितुं तव

Mahabharata

Bhishma Parva, Adhyaya 66, Verse 2

पूर्वाह्णे तन्महारौद्रं राज्ञां युद्धमवर्तत

कुरूणां पाण्डवानां च मुख्यशूरविनाशनम्

Mahabharata

Bhishma Parva, Adhyaya 66, Verse 3

तस्मिन्नाकुलसंग्रामे वर्तमाने महाभये

अभवत्तुमुलः शब्दः संस्पृशन्गगनं महत्

Mahabharata

Bhishma Parva, Adhyaya 66, Verse 4

नदद्भिश्च महानागैर्हेषमाणैश्च वाजिभिः

भेरीशङ्खनिनादैश्च तुमुलः समपद्यत

Mahabharata

Bhishma Parva, Adhyaya 66, Verse 5

युयुत्सवस्ते विक्रान्ता विजयाय महाबलाः

अन्योन्यमभिगर्जन्तो गोष्ठेष्विव महर्षभाः

Mahabharata

Bhishma Parva, Adhyaya 66, Verse 6

शिरसां पात्यमानानां समरे निशितैः शरैः

अश्मवृष्टिरिवाकाशे बभूव भरतर्षभ

Mahabharata

Bhishma Parva, Adhyaya 66, Verse 7

कुण्डलोष्णीषधारीणि जातरूपोज्ज्वलानि च

पतितानि स्म दृश्यन्ते शिरांसि भरतर्षभ

Mahabharata

Bhishma Parva, Adhyaya 66, Verse 8

विशिखोन्मथितैर्गात्रैर्बाहुभिश्च सकार्मुकैः

सहस्ताभरणैश्चान्यैरभवच्छादिता मही

Mahabharata

Bhishma Parva, Adhyaya 66, Verse 9

कवचोपहितैर्गात्रैर्हस्तैश्च समलंकृतैः

मुखैश्च चन्द्रसंकाशै रक्तान्तनयनैः शुभैः

Mahabharata

Bhishma Parva, Adhyaya 66, Verse 10

गजवाजिमनुष्याणां सर्वगात्रैश्च भूपते

आसीत्सर्वा समाकीर्णा मुहूर्तेन वसुंधरा

Mahabharata

Bhishma Parva, Adhyaya 66, Verse 11

रजोमेघैश्च तुमुलैः शस्त्रविद्युत्प्रकाशितैः

आयुधानां च निर्घोषः स्तनयित्नुसमोऽभवत्

Mahabharata

Bhishma Parva, Adhyaya 66, Verse 12

स संप्रहारस्तुमुलः कटुकः शोणितोदकः

प्रावर्तत कुरूणां च पाण्डवानां च भारत

Mahabharata

Bhishma Parva, Adhyaya 66, Verse 13

तस्मिन्महाभये घोरे तुमुले लोमहर्षणे

ववर्षुः शरवर्षाणि क्षत्रिया युद्धदुर्मदाः

Mahabharata

Bhishma Parva, Adhyaya 66, Verse 14

क्रोशन्ति कुञ्जरास्तत्र शरवर्षप्रतापिताः

तावकानां परेषां च संयुगे भरतोत्तम

अश्वाश्च पर्यधावन्त हतारोहा दिशो दश

Mahabharata

Bhishma Parva, Adhyaya 66, Verse 15

उत्पत्य निपतन्त्यन्ये शरघातप्रपीडिताः

तावकानां परेषां च योधानां भरतर्षभ

Mahabharata

Bhishma Parva, Adhyaya 66, Verse 16

अश्वानां कुञ्जराणां च रथानां चातिवर्तताम्

संघाताः स्म प्रदृश्यन्ते तत्र तत्र विशां पते

Mahabharata

Bhishma Parva, Adhyaya 66, Verse 17

गदाभिरसिभिः प्रासैर्बाणैश्च नतपर्वभिः

जघ्नुः परस्परं तत्र क्षत्रियाः कालचोदिताः

Mahabharata

Bhishma Parva, Adhyaya 66, Verse 18

अपरे बाहुभिर्वीरा नियुद्धकुशला युधि

बहुधा समसज्जन्त आयसैः परिघैरिव

Mahabharata

Bhishma Parva, Adhyaya 66, Verse 19

मुष्टिभिर्जानुभिश्चैव तलैश्चैव विशां पते

अन्योन्यं जघ्निरे वीरास्तावकाः पाण्डवैः सह

Mahabharata

Bhishma Parva, Adhyaya 66, Verse 20

विरथा रथिनश्चात्र निस्त्रिंशवरधारिणः

अन्योन्यमभिधावन्त परस्परवधैषिणः

Mahabharata

Bhishma Parva, Adhyaya 66, Verse 21

ततो दुर्योधनो राजा कलिङ्गैर्बहुभिर्वृतः

पुरस्कृत्य रणे भीष्मं पाण्डवानभ्यवर्तत

Mahabharata

Bhishma Parva, Adhyaya 66, Verse 22

तथैव पाण्डवाः सर्वे परिवार्य वृकोदरम्

भीष्ममभ्यद्रवन्क्रुद्धा रणे रभसवाहनाः