Mahabharata

Bhishma Parva, Adhyaya 64

Containing 18 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Bhishma Parva, Adhyaya 64, Verse 1

शृणु चेदं महाराज ब्रह्मभूतस्तवं मम

ब्रह्मर्षिभिश्च देवैश्च यः पुरा कथितो भुवि

Mahabharata

Bhishma Parva, Adhyaya 64, Verse 2

साध्यानामपि देवानां देवदेवेश्वरः प्रभुः

लोकभावनभावज्ञ इति त्वां नारदोऽब्रवीत्

भूतं भव्यं भविष्यं च मार्कण्डेयोऽभ्युवाच ह

Mahabharata

Bhishma Parva, Adhyaya 64, Verse 3

यज्ञानां चैव यज्ञं त्वां तपश्च तपसामपि

देवानामपि देवं च त्वामाह भगवान्भृगुः

पुराणे भैरवं रूपं विष्णो भूतपतेति वै

Mahabharata

Bhishma Parva, Adhyaya 64, Verse 4

वासुदेवो वसूनां त्वं शक्रं स्थापयिता तथा

देवदेवोऽसि देवानामिति द्वैपायनोऽब्रवीत्

Mahabharata

Bhishma Parva, Adhyaya 64, Verse 5

पूर्वे प्रजानिसर्गेषु दक्षमाहुः प्रजापतिम्

स्रष्टारं सर्वभूतानामङ्गिरास्त्वां ततोऽब्रवीत्

Mahabharata

Bhishma Parva, Adhyaya 64, Verse 6

अव्यक्तं ते शरीरोत्थं व्यक्तं ते मनसि स्थितम्

देवा वाक्संभवाश्चेति देवलस्त्वसितोऽब्रवीत्

Mahabharata

Bhishma Parva, Adhyaya 64, Verse 7

शिरसा ते दिवं व्याप्तं बाहुभ्यां पृथिवी धृता

जठरं ते त्रयो लोकाः पुरुषोऽसि सनातनः

Mahabharata

Bhishma Parva, Adhyaya 64, Verse 8

एवं त्वामभिजानन्ति तपसा भाविता नराः

आत्मदर्शनतृप्तानामृषीणां चापि सत्तमः

Mahabharata

Bhishma Parva, Adhyaya 64, Verse 9

राजर्षीणामुदाराणामाहवेष्वनिवर्तिनाम्

सर्वधर्मप्रधानानां त्वं गतिर्मधुसूदन

Mahabharata

Bhishma Parva, Adhyaya 64, Verse 10

एष ते विस्तरस्तात संक्षेपश्च प्रकीर्तितः

केशवस्य यथातत्त्वं सुप्रीतो भव केशवे

Mahabharata

Bhishma Parva, Adhyaya 64, Verse 11

पुण्यं श्रुत्वैतदाख्यानं महाराज सुतस्तव

केशवं बहु मेने स पाण्डवांश्च महारथान्

Mahabharata

Bhishma Parva, Adhyaya 64, Verse 12

तमब्रवीन्महाराज भीष्मः शांतनवः पुनः

माहात्म्यं ते श्रुतं राजन्केशवस्य महात्मनः

Mahabharata

Bhishma Parva, Adhyaya 64, Verse 13

नरस्य च यथातत्त्वं यन्मां त्वं परिपृच्छसि

यदर्थं नृषु संभूतौ नरनारायणावुभौ

Mahabharata

Bhishma Parva, Adhyaya 64, Verse 14

अवध्यौ च यथा वीरौ संयुगेष्वपराजितौ

यथा च पाण्डवा राजन्नगम्या युधि कस्यचित्

Mahabharata

Bhishma Parva, Adhyaya 64, Verse 15

प्रीतिमान्हि दृढं कृष्णः पाण्डवेषु यशस्विषु

तस्माद्ब्रवीमि राजेन्द्र शमो भवतु पाण्डवैः

Mahabharata

Bhishma Parva, Adhyaya 64, Verse 16

पृथिवीं भुङ्क्ष्व सहितो भ्रातृभिर्बलिभिर्वशी

नरनारायणौ देवाववज्ञाय नशिष्यसि

Mahabharata

Bhishma Parva, Adhyaya 64, Verse 17

एवमुक्त्वा तव पिता तूष्णीमासीद्विशां पते

व्यसर्जयच्च राजानं शयनं च विवेश ह

Mahabharata

Bhishma Parva, Adhyaya 64, Verse 18

राजापि शिबिरं प्रायात्प्रणिपत्य महात्मने

शिश्ये च शयने शुभ्रे तां रात्रिं भरतर्षभ