Bhishma Parva, Adhyaya 63, Verse 1
वासुदेवो महद्भूतं सर्वलोकेषु कथ्यते
तस्यागमं प्रतिष्ठां च ज्ञातुमिच्छे पितामह
Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.
वासुदेवो महद्भूतं सर्वलोकेषु कथ्यते
तस्यागमं प्रतिष्ठां च ज्ञातुमिच्छे पितामह
वासुदेवो महद्भूतं संभूतं सह दैवतैः
न परं पुण्डरीकाक्षाद्दृश्यते भरतर्षभ
मार्कण्डेयश्च गोविन्दं कथयत्यद्भुतं महत्
सर्वभूतानि भूतात्मा महात्मा पुरुषोत्तमः
आपो वायुश्च तेजश्च त्रयमेतदकल्पयत्
स सृष्ट्वा पृथिवीं देवः सर्वलोकेश्वरः प्रभुः
अप्सु वै शयनं चक्रे महात्मा पुरुषोत्तमः
सर्वतोयमयो देवो योगात्सुष्वाप तत्र ह
मुखतः सोऽग्निमसृजत्प्राणाद्वायुमथापि च
सरस्वतीं च वेदांश्च मनसः ससृजेऽच्युतः
एष लोकान्ससर्जादौ देवांश्चर्षिगणैः सह
निधनं चैव मृत्युं च प्रजानां प्रभवोऽव्ययः
एष धर्मश्च धर्मज्ञो वरदः सर्वकामदः
एष कर्ता च कार्यं च पूर्वदेवः स्वयंप्रभुः
भूतं भव्यं भविष्यच्च पूर्वमेतदकल्पयत्
उभे संध्ये दिशः खं च नियमं च जनार्दनः
ऋषींश्चैव हि गोविन्दस्तपश्चैवानु कल्पयत्
स्रष्टारं जगतश्चापि महात्मा प्रभुरव्ययः
अग्रजं सर्वभूतानां संकर्षणमकल्पयत्
शेषं चाकल्पयद्देवमनन्तमिति यं विदुः
यो धारयति भूतानि धरां चेमां सपर्वताम्
ध्यानयोगेन विप्राश्च तं वदन्ति महौजसम्
कर्णस्रोतोद्भवं चापि मधुं नाम महासुरम्
तमुग्रमुग्रकर्माणमुग्रां बुद्धिं समास्थितम्
ब्रह्मणोऽपचितिं कुर्वञ्जघान पुरुषोत्तमः
तस्य तात वधादेव देवदानवमानवाः
मधुसूदनमित्याहुरृषयश्च जनार्दनम्
वराहश्चैव सिंहश्च त्रिविक्रमगतिः प्रभुः
एष माता पिता चैव सर्वेषां प्राणिनां हरिः
परं हि पुण्डरीकाक्षान्न भूतं न भविष्यति
मुखतोऽसृजद्ब्राह्मणान्बाहुभ्यां क्षत्रियांस्तथा
वैश्यांश्चाप्यूरुतो राजञ्शूद्रान्पद्भ्यां तथैव च
तपसा नियतो देवो निधानं सर्वदेहिनाम्
ब्रह्मभूतममावास्यां पौर्णमास्यां तथैव च
योगभूतं परिचरन्केशवं महदाप्नुयात्
केशवः परमं तेजः सर्वलोकपितामहः
एवमाहुर्हृषीकेशं मुनयो वै नराधिप
एवमेनं विजानीहि आचार्यं पितरं गुरुम्
कृष्णो यस्य प्रसीदेत लोकास्तेनाक्षया जिताः
यश्चैवैनं भयस्थाने केशवं शरणं व्रजेत्
सदा नरः पठंश्चेदं स्वस्तिमान्स सुखी भवेत्
ये च कृष्णं प्रपद्यन्ते ते न मुह्यन्ति मानवाः
भये महति ये मग्नाः पाति नित्यं जनार्दनः
एतद्युधिष्ठिरो ज्ञात्वा याथातथ्येन भारत
सर्वात्मना महात्मानं केशवं जगदीश्वरम्
प्रपन्नः शरणं राजन्योगानामीश्वरं प्रभुम्