Mahabharata

Bhishma Parva, Adhyaya 62

Containing 40 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Bhishma Parva, Adhyaya 62, Verse 1

ततः स भगवान्देवो लोकानां परमेश्वरः

ब्रह्माणं प्रत्युवाचेदं स्निग्धगम्भीरया गिरा

Mahabharata

Bhishma Parva, Adhyaya 62, Verse 2

विदितं तात योगान्मे सर्वमेतत्तवेप्सितम्

तथा तद्भवितेत्युक्त्वा तत्रैवान्तरधीयत

Mahabharata

Bhishma Parva, Adhyaya 62, Verse 3

ततो देवर्षिगन्धर्वा विस्मयं परमं गताः

कौतूहलपराः सर्वे पितामहमथाब्रुवन्

Mahabharata

Bhishma Parva, Adhyaya 62, Verse 4

को न्वयं यो भगवता प्रणम्य विनयाद्विभो

वाग्भिः स्तुतो वरिष्ठाभिः श्रोतुमिच्छाम तं वयम्

Mahabharata

Bhishma Parva, Adhyaya 62, Verse 5

एवमुक्तस्तु भगवान्प्रत्युवाच पितामहः

देवब्रह्मर्षिगन्धर्वान्सर्वान्मधुरया गिरा

Mahabharata

Bhishma Parva, Adhyaya 62, Verse 6

यत्तत्परं भविष्यं च भवितव्यं च यत्परम्

भूतात्मा यः प्रभुश्चैव ब्रह्म यच्च परं पदम्

Mahabharata

Bhishma Parva, Adhyaya 62, Verse 7

तेनास्मि कृतसंवादः प्रसन्नेन सुरर्षभाः

जगतोऽनुग्रहार्थाय याचितो मे जगत्पतिः

Mahabharata

Bhishma Parva, Adhyaya 62, Verse 8

मानुषं लोकमातिष्ठ वासुदेव इति श्रुतः

असुराणां वधार्थाय संभवस्व महीतले

Mahabharata

Bhishma Parva, Adhyaya 62, Verse 9

संग्रामे निहता ये ते दैत्यदानवराक्षसाः

त इमे नृषु संभूता घोररूपा महाबलाः

Mahabharata

Bhishma Parva, Adhyaya 62, Verse 10

तेषां वधार्थं भगवान्नरेण सहितो वशी

मानुषीं योनिमास्थाय चरिष्यति महीतले

Mahabharata

Bhishma Parva, Adhyaya 62, Verse 11

नरनारायणौ यौ तौ पुराणावृषिसत्तमौ

सहितौ मानुषे लोके संभूतावमितद्युती

Mahabharata

Bhishma Parva, Adhyaya 62, Verse 12

अजेयौ समरे यत्तौ सहितावमरैरपि

मूढास्त्वेतौ न जानन्ति नरनारायणावृषी

Mahabharata

Bhishma Parva, Adhyaya 62, Verse 13

तस्याहमात्मजो ब्रह्मा सर्वस्य जगतः पतिः

वासुदेवोऽर्चनीयो वः सर्वलोकमहेश्वरः

Mahabharata

Bhishma Parva, Adhyaya 62, Verse 14

तथा मनुष्योऽयमिति कदाचित्सुरसत्तमाः

नावज्ञेयो महावीर्यः शङ्खचक्रगदाधरः

Mahabharata

Bhishma Parva, Adhyaya 62, Verse 15

एतत्परमकं गुह्यमेतत्परमकं पदम्

एतत्परमकं ब्रह्म एतत्परमकं यशः

Mahabharata

Bhishma Parva, Adhyaya 62, Verse 16

एतदक्षरमव्यक्तमेतत्तच्छाश्वतं महत्

एतत्पुरुषसंज्ञं वै गीयते ज्ञायते न च

Mahabharata

Bhishma Parva, Adhyaya 62, Verse 17

एतत्परमकं तेज एतत्परमकं सुखम्

एतत्परमकं सत्यं कीर्तितं विश्वकर्मणा

Mahabharata

Bhishma Parva, Adhyaya 62, Verse 18

तस्मात्सर्वैः सुरैः सेन्द्रैर्लोकैश्चामितविक्रमः

नावज्ञेयो वासुदेवो मानुषोऽयमिति प्रभुः

Mahabharata

Bhishma Parva, Adhyaya 62, Verse 19

यश्च मानुषमात्रोऽयमिति ब्रूयात्सुमन्दधीः

हृषीकेशमवज्ञानात्तमाहुः पुरुषाधमम्

Mahabharata

Bhishma Parva, Adhyaya 62, Verse 20

योगिनं तं महात्मानं प्रविष्टं मानुषीं तनुम्

अवमन्येद्वासुदेवं तमाहुस्तामसं जनाः

Mahabharata

Bhishma Parva, Adhyaya 62, Verse 21

देवं चराचरात्मानं श्रीवत्साङ्कं सुवर्चसम्

पद्मनाभं न जानाति तमाहुस्तामसं जनाः

Mahabharata

Bhishma Parva, Adhyaya 62, Verse 22

किरीटकौस्तुभधरं मित्राणामभयंकरम्

अवजानन्महात्मानं घोरे तमसि मज्जति

Mahabharata

Bhishma Parva, Adhyaya 62, Verse 23

एवं विदित्वा तत्त्वार्थं लोकानामीश्वरेश्वरः

वासुदेवो नमस्कार्यः सर्वलोकैः सुरोत्तमाः

Mahabharata

Bhishma Parva, Adhyaya 62, Verse 24

एवमुक्त्वा स भगवान्सर्वान्देवगणान्पुरा

विसृज्य सर्वलोकात्मा जगाम भवनं स्वकम्

Mahabharata

Bhishma Parva, Adhyaya 62, Verse 25

ततो देवाः सगन्धर्वा मुनयोऽप्सरसोऽपि च

कथां तां ब्रह्मणा गीतां श्रुत्वा प्रीता दिवं ययुः

Mahabharata

Bhishma Parva, Adhyaya 62, Verse 26

एतच्छ्रुतं मया तात ऋषीणां भावितात्मनाम्

वासुदेवं कथयतां समवाये पुरातनम्

Mahabharata

Bhishma Parva, Adhyaya 62, Verse 27

जामदग्न्यस्य रामस्य मार्कण्डेयस्य धीमतः

व्यासनारदयोश्चापि श्रुतं श्रुतविशारद

Mahabharata

Bhishma Parva, Adhyaya 62, Verse 28

एतमर्थं च विज्ञाय श्रुत्वा च प्रभुमव्ययम्

वासुदेवं महात्मानं लोकानामीश्वरेश्वरम्

Mahabharata

Bhishma Parva, Adhyaya 62, Verse 29

यस्यासावात्मजो ब्रह्मा सर्वस्य जगतः पिता

कथं न वासुदेवोऽयमर्च्यश्चेज्यश्च मानवैः

Mahabharata

Bhishma Parva, Adhyaya 62, Verse 30

वारितोऽसि पुरा तात मुनिभिर्वेदपारगैः

मा गच्छ संयुगं तेन वासुदेवेन धीमता

मा पाण्डवैः सार्धमिति तच्च मोहान्न बुध्यसे